तदवद्य प्रज्ञातानि श्रपयेत् ॥ कौश्स् ५,९ ४५ ।५ ॥] अवदानानि पशोरेकादश गृह्णाति । हृदयम् । जिह्वा । क्रोडम् । वामबाहुः । पार्श्वे द्वे । यकृत् कालेयमित्युच्यते । पृष्टकौ द्वौ । गुदश्च । पश्चिमदक्षिणबाहुश्च । एकादश गृहीत्वा । ततः स्विष्टकृदवदानानि गृह्णाति । तानि त्रीणि । दक्षिणो बाहुः । वामजङ्घा च । अन्त्रविभागम् । एतानि त्रीणि गृहीत्वा । चरुमध्ये मांसानि निदधाति । ऽपरि त्वाग्नेऽ इत्यादि करोति ॥ [होष्यन् द्विर्द्विर्देवतानामवद्येत्
tadavadya prajñātāni śrapayet || KauśS 5,9 45 .5 ||] avadānāni paśorekādaśa gṛhṇāti | hṛdayam | jihvā | kroḍam | vāmabāhuḥ | pārśve dve | yakṛt kāleyamityucyate | pṛṣṭakau dvau | gudaśca | paścimadakṣiṇabāhuśca | ekādaśa gṛhītvā | tataḥ sviṣṭakṛdavadānāni gṛhṇāti | tāni trīṇi | dakṣiṇo bāhuḥ | vāmajaṅghā ca | antravibhāgam | etāni trīṇi gṛhītvā | carumadhye māṃsāni nidadhāti | 'pari tvāgne' ityādi karoti || [hoṣyan dvirdvirdevatānāmavadyet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.