पार्थिवस्य (२।२९।१-२) मा प्र गाम (१३।१।५९-६०) इति चतस्रः सर्वाण्यपियन्ति ॥ कौश्स् ७,५ ५४ ।१८ ॥] ऽशिवे ते स्ताम्ऽ इति द्वे । ऽपार्थिवस्यऽ इति द्वे । ऽमा प्र गामऽ इति द्वे । एताभिरृग्भिः व्रीहियवशमीमभिमन्त्र्य कुमारस्य मूर्ध्नि ददाति । ऽशिवौ ते स्ताम्ऽ (८।२।१८) इति द्वे । ऽपार्थिवस्यऽ इति द्वे । ऽमा प्र गामऽ इति द्वे । एताभिः ऋग्भिः व्रीहियवशमीमभिमन्त्र्य मूर्ध्नि ददाति । ऽअह्ने च त्वाऽ (८।२।२०) इत्येका । ऽपार्थिवस्यऽ इति द्वे । ऽमा प्र गामऽ इति द्वे । ऽअहोरात्राभ्यां परिददामिऽ । व्रीह्यादि मूर्ध्नि ददाति । ऽशरदे त्वाऽ (८।२।२२) इत्येका । ऽपार्थिवस्यऽ द्वे । ऽमा प्र गामऽ इति द्वे । ऽऋतुभ्यष्ट्वा परिददामिऽ । व्रीह्यादि मूर्ध्नि ददाति । अभ्यातानाद्युत्तरतन्त्रम् । गोदानं समाप्तम् ॥ अथ चूडाकरणमुच्यते- [अमम्रिमोजोमानीं च दूर्वां च केशांश्च शकृत्पिण्डं चैकधाभिसमाहृत्य
pārthivasya (2.29.1-2) mā pra gāma (13.1.59-60) iti catasraḥ sarvāṇyapiyanti || KauśS 7,5 54 .18 ||] 'śive te stām' iti dve | 'pārthivasya' iti dve | 'mā pra gāma' iti dve | etābhirṛgbhiḥ vrīhiyavaśamīmabhimantrya kumārasya mūrdhni dadāti | 'śivau te stām' (8.2.18) iti dve | 'pārthivasya' iti dve | 'mā pra gāma' iti dve | etābhiḥ ṛgbhiḥ vrīhiyavaśamīmabhimantrya mūrdhni dadāti | 'ahne ca tvā' (8.2.20) ityekā | 'pārthivasya' iti dve | 'mā pra gāma' iti dve | 'ahorātrābhyāṃ paridadāmi' | vrīhyādi mūrdhni dadāti | 'śarade tvā' (8.2.22) ityekā | 'pārthivasya' dve | 'mā pra gāma' iti dve | 'ṛtubhyaṣṭvā paridadāmi' | vrīhyādi mūrdhni dadāti | abhyātānādyuttaratantram | godānaṃ samāptam || atha cūḍākaraṇamucyate- [amamrimojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.