श्येनोऽसि (६।४८) इति च ॥ कौश्स् ७,७ ५६ ।४ ॥] ततो ऽमित्रावरुणयोस्त्वा हस्ताभ्याम्ऽ इति मन्त्रेण ऽश्येनोऽसिऽ इति च सूक्तेन पालाशदण्डमभिमन्त्र्य ब्रह्मचारिणे प्रयच्छति । ऽमित्रावरुणयोस्त्वाऽ इति ऽश्येनोऽसिऽ इति च पठित्वा ब्रह्मचारी दण्डं गृह्णाति । ऽपुनर्मैत्विन्द्रियम्ऽ (७।६७।१) इत्यृचा यज्ञोपवीतमभिमन्त्र्य परिधत्ते मन्वादिविहितम् । ऽअहं रुद्रेभिःऽ इति सूक्तं प्रत्यृचं ब्रह्मचारिणं वाचयति । अथ व्रतग्रहणं करोति । ऽब्रह्मचारिव्रतं द्वादशवार्षिकं षड्वार्षिकं वा त्रिवार्षिकं वा यथाशास्त्रविहितं यथास्मर्यमाणधर्मकम्ऽ इत्याद्युक्तमाङ्गिरसकल्पे व्रतश्रावणम् । अग्नये गुरवे च ब्रह्मचारी व्रतं निवेदयेत् ॥ [अथैनं व्रतादानीयाः समिध आधापयति
śyeno'si (6.48) iti ca || KauśS 7,7 56 .4 ||] tato 'mitrāvaruṇayostvā hastābhyām' iti mantreṇa 'śyeno'si' iti ca sūktena pālāśadaṇḍamabhimantrya brahmacāriṇe prayacchati | 'mitrāvaruṇayostvā' iti 'śyeno'si' iti ca paṭhitvā brahmacārī daṇḍaṃ gṛhṇāti | 'punarmaitvindriyam' (7.67.1) ityṛcā yajñopavītamabhimantrya paridhatte manvādivihitam | 'ahaṃ rudrebhiḥ' iti sūktaṃ pratyṛcaṃ brahmacāriṇaṃ vācayati | atha vratagrahaṇaṃ karoti | 'brahmacārivrataṃ dvādaśavārṣikaṃ ṣaḍvārṣikaṃ vā trivārṣikaṃ vā yathāśāstravihitaṃ yathāsmaryamāṇadharmakam' ityādyuktamāṅgirasakalpe vrataśrāvaṇam | agnaye gurave ca brahmacārī vrataṃ nivedayet || [athainaṃ vratādānīyāḥ samidha ādhāpayati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.