एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैस्साम्यं यत्तस्य दार्ढ्यं विशेषोक्तिः । रूपकं चेदं प्रायेणेति । यथा (कुमार। १-१०) ---- भवन्ति यत्रौपधयो रजन्यामतैलपूराः सुरतप्रदीपाः । द्यूतं हि नाम पुरुषस्याऽसिंहासनं राज्यम् ।(मृच्छकटिका अं। २) निद्रेयकमला लक्ष्मीः । हस्ती हि जङ्गमं दुर्गम् । इति । अत्रापि जङ्गमशब्दस्य स्थावरत्वनिवृत्तिपादनत्वादेकगुणहानिकल्पनैव । एतेन ---- वेश्या हि नाम मूर्तिमत्येव निकृतिः । व्यसनं हि नाम सोच्छ्वासं मरणम् । द्विजो भूमिवृहस्पतिः । इत्येवमादिष्व्गुणहानिकल्पना व्याख्याता
ekasya guṇasya hāneḥ kalpanāyāṃ śeṣairguṇaissāmyaṃ yattasya dārḍhyaṃ viśeṣoktiḥ / rūpakaṃ cedaṃ prāyeṇeti / yathā (kumāra. 1-10) ---- bhavanti yatraupadhayo rajanyāmatailapūrāḥ suratapradīpāḥ / dyūtaṃ hi nāma puruṣasyā'siṃhāsanaṃ rājyam /(Mṛcchakaṭikā aṃ. 2) nidreyakamalā lakṣmīḥ / hastī hi jaṅgamaṃ durgam / iti / atrāpi jaṅgamaśabdasya sthāvaratvanivṛttipādanatvādekaguṇahānikalpanaiva / etena ---- veśyā hi nāma mūrtimatyeva nikṛtiḥ / vyasanaṃ hi nāma socchvāsaṃ maraṇam / dvijo bhūmivṛhaspatiḥ / ityevamādiṣvguṇahānikalpanā vyākhyātā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.