कल्पितार्थं नेयार्थम् ॥ व्कल् २,१।१२ [*व्कल् २,१।१३] ॥ अश्रौतस्याप्युन्नेयपदार्थस्य कल्पनात्कल्पितार्थं नेयार्थम् । यथा ---- सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलितं बलशलिना । विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥ अत्र विहङ्गमश्चक्रवाको ऽभिप्रेतः । तन्नामानि चक्राणि , तानि बिभ्रतीति विहङ्गमनामभृतो रथाः । पङ्क्तिरिति दशसंख्या लक्ष्यते । पङ्क्तिर्दश विहङ्गमनामभृतो रथा यस्य स पङ्क्तिविहङ्गमनामभृद्दशरथः । तस्य तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । कौशिक शब्देन्द्र्प्लूकयोरभिधानमिति कौशिक शब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः , ---- न ; तेषां निरूढलक्षणत्वात्
kalpitārthaṃ neyārtham // VKal 2,1.12 [*VKal 2,1.13] // aśrautasyāpyunneyapadārthasya kalpanātkalpitārthaṃ neyārtham / yathā ---- sapadi paṅktivihaṅgamanāmabhṛttanayasaṃvalitaṃ balaśalinā / vipulaparvatavarṣi śitaiḥ śaraiḥ plavagasainyamulūkajitā jitam // atra vihaṅgamaścakravāko 'bhipretaḥ / tannāmāni cakrāṇi , tāni bibhratīti vihaṅgamanāmabhṛto rathāḥ / paṅktiriti daśasaṃkhyā lakṣyate / paṅktirdaśa vihaṅgamanāmabhṛto rathā yasya sa paṅktivihaṅgamanāmabhṛddaśarathaḥ / tasya tanayābhyāṃ rāmalakṣmaṇābhyāṃ saṃvalitaṃ plavagasainyaṃ jitam / ulūkajitā indrajitā / kauśika śabdendrplūkayorabhidhānamiti kauśika śabdavācyatvenendra ulūka uktaḥ / nanu caivaṃ rathāṅganāmādīnāmapi prayogo'nupapannaḥ , ---- na ; teṣāṃ nirūḍhalakṣaṇatvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.