गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः
guṇānāṃ vakṣyamāṇānāṃ ye viparyayāstadātmāno doṣāḥ
Sanskrit only: no published translation is held for this verse.
Library·Vamana: Kavyalamkarasutra, with Vrtti·4
गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः
guṇānāṃ vakṣyamāṇānāṃ ye viparyayāstadātmāno doṣāḥ
Sanskrit only: no published translation is held for this verse.
गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः
guṇasvarūpanirūpaṇātteṣāṃ doṣāṇāmarthādavagamo'rthātsiddhiḥ
Sanskrit only: no published translation is held for this verse.
सौकर्यार्थः प्रपञ्चो विस्तरो दोषानाम् । उद्दिष्टा लक्षणलक्षिता हि दोषाः सुज्ञाना भवन्ति
saukaryārthaḥ prapañco vistaro doṣānām / uddiṣṭā lakṣaṇalakṣitā hi doṣāḥ sujñānā bhavanti
Sanskrit only: no published translation is held for this verse.
शब्दस्मृत्या व्याकरणेन विरुद्धं पदमसाधु । यथा ---- अन्यकारकवैयर्थ्यम् इति । अत्र हि अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु इति दुका भवितव्यमिति
śabdasmṛtyā vyākaraṇena viruddhaṃ padamasādhu / yathā ---- anyakārakavaiyarthyam iti / atra hi aṣaṣṭhyatṛtīyāsthasyānyasya dugāśīrāśāsthāsthitotsukotikārakarāgaccheṣu iti dukā bhavitavyamiti
Sanskrit only: no published translation is held for this verse.
श्रुतिविरसं श्रोत्रकटु पदं कष्टम् । तद्धि रचनागुम्फितमप्युद्वेजयति । यथा ---- अचूचुरच्चण्डि ! कपोलौप्स्ते कान्तिद्रवं द्राग्विशदः शशाङ्कः ।
śrutivirasaṃ śrotrakaṭu padaṃ kaṣṭam / taddhi racanāgumphitamapyudvejayati / yathā ---- acūcuraccaṇḍi ! kapolaupste kāntidravaṃ drāgviśadaḥ śaśāṅkaḥ /
Sanskrit only: no published translation is held for this verse.
लोक एव यस्प्रयुक्तं पदं , न शास्त्रे ; तद्ग्राम्यम् । यथा कष्टं कथं रोदिति फूत्कृतेयम् । अन्यदपि तल्लगल्लादिकं द्रष्टव्यम्
loka eva yasprayuktaṃ padaṃ , na śāstre ; tadgrāmyam / yathā kaṣṭaṃ kathaṃ roditi phūtkṛteyam / anyadapi tallagallādikaṃ draṣṭavyam
Sanskrit only: no published translation is held for this verse.
शास्त्र एव प्रयुक्तं यत् , न लोके तदप्रतीतं पदम् । यथा ---- किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः । गुणानान्तरीयकं च प्रमेति न तेऽस्त्युपालम्भः ॥ अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम्
śāstra eva prayuktaṃ yat , na loke tadapratītaṃ padam / yathā ---- kiṃ bhāṣitena bahunā rūpaskandhasya santi me na guṇāḥ / guṇānāntarīyakaṃ ca prameti na te'styupālambhaḥ // atra rūpaskandhanāntarīyakapade na loka ityapratītam
Sanskrit only: no published translation is held for this verse.
पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापून्यायेन पदमन्यदप्यनर्थकमेव । यथा ---- उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता । अत्र तु शब्दस्य पादपूरणार्थमेव प्रयोगः । न वाक्यालङ्कारार्थम् वाक्यालङ्कारप्रयोजनं तु नानर्थकम् । अपवादार्थमिदम् । यथा ---- न खल्विह गतागता नयनगोचरं मे गता इति तथा हि खलु हन्तेति
pūraṇamātraprayojanamavyayapadamanarthakam / daṇḍāpūnyāyena padamanyadapyanarthakameva / yathā ---- uditastu hāstikavinīlamayaṃ timiraṃ nipīya kiraṇaiḥ savitā / atra tu śabdasya pādapūraṇārthameva prayogaḥ / na vākyālaṅkārārtham vākyālaṅkāraprayojanaṃ tu nānarthakam / apavādārthamidam / yathā ---- na khalviha gatāgatā nayanagocaraṃ me gatā iti tathā hi khalu hanteti
Sanskrit only: no published translation is held for this verse.
संप्रति पदार्थदोषानाह ---- अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च ॥ व्कल् २,१।१० [*व्कल् २,१।११] ॥ दुष्टं पदम् इत्यनुवर्तते । अर्थतश्च वचनविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः
saṃprati padārthadoṣānāha ---- anyārthaneyagūḍhārthāślīlakliṣṭāni ca // VKal 2,1.10 [*VKal 2,1.11] // duṣṭaṃ padam ityanuvartate / arthataśca vacanavipariṇāmaḥ / anyārthādīni padāni duṣṭānīti sūtrārthaḥ
Sanskrit only: no published translation is held for this verse.
एषां क्रमेण लक्षणायाह ---- रूढिच्युतमन्यार्थम् ॥ व्कल् २,१।११ [*व्कल् २,१।१२] ॥ रूढिच्युतम्, रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात् । अन्यार्थं पदम् । स्थूलत्वात्सामान्येन घटशब्दः पटशब्दाथ इत्यादिकमन्यार्थं नोक्तम् । यथा ---- ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसङ्गमानाम् । अत्र-आवहतिः करोत्यर्थो धारणार्थे प्रयुक्तः , प्रस्मरतिर्विस्मरणार्थः प्रकृष्टस्मरणे इति
eṣāṃ krameṇa lakṣaṇāyāha ---- rūḍhicyutamanyārtham // VKal 2,1.11 [*VKal 2,1.12] // rūḍhicyutam, rūḍhimanapekṣya yaugikārthamātropādānāt / anyārthaṃ padam / sthūlatvātsāmānyena ghaṭaśabdaḥ paṭaśabdātha ityādikamanyārthaṃ noktam / yathā ---- te duḥkhamuccāvacamāvahanti ye prasmaranti priyasaṅgamānām / atra-āvahatiḥ karotyartho dhāraṇārthe prayuktaḥ , prasmaratirvismaraṇārthaḥ prakṛṣṭasmaraṇe iti
Sanskrit only: no published translation is held for this verse.
कल्पितार्थं नेयार्थम् ॥ व्कल् २,१।१२ [*व्कल् २,१।१३] ॥ अश्रौतस्याप्युन्नेयपदार्थस्य कल्पनात्कल्पितार्थं नेयार्थम् । यथा ---- सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलितं बलशलिना । विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥ अत्र विहङ्गमश्चक्रवाको ऽभिप्रेतः । तन्नामानि चक्राणि , तानि बिभ्रतीति विहङ्गमनामभृतो रथाः । पङ्क्तिरिति दशसंख्या लक्ष्यते । पङ्क्तिर्दश विहङ्गमनामभृतो रथा यस्य स पङ्क्तिविहङ्गमनामभृद्दशरथः । तस्य तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । कौशिक शब्देन्द्र्प्लूकयोरभिधानमिति कौशिक शब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः , ---- न ; तेषां निरूढलक्षणत्वात्
kalpitārthaṃ neyārtham // VKal 2,1.12 [*VKal 2,1.13] // aśrautasyāpyunneyapadārthasya kalpanātkalpitārthaṃ neyārtham / yathā ---- sapadi paṅktivihaṅgamanāmabhṛttanayasaṃvalitaṃ balaśalinā / vipulaparvatavarṣi śitaiḥ śaraiḥ plavagasainyamulūkajitā jitam // atra vihaṅgamaścakravāko 'bhipretaḥ / tannāmāni cakrāṇi , tāni bibhratīti vihaṅgamanāmabhṛto rathāḥ / paṅktiriti daśasaṃkhyā lakṣyate / paṅktirdaśa vihaṅgamanāmabhṛto rathā yasya sa paṅktivihaṅgamanāmabhṛddaśarathaḥ / tasya tanayābhyāṃ rāmalakṣmaṇābhyāṃ saṃvalitaṃ plavagasainyaṃ jitam / ulūkajitā indrajitā / kauśika śabdendrplūkayorabhidhānamiti kauśika śabdavācyatvenendra ulūka uktaḥ / nanu caivaṃ rathāṅganāmādīnāmapi prayogo'nupapannaḥ , ---- na ; teṣāṃ nirūḍhalakṣaṇatvāt
Sanskrit only: no published translation is held for this verse.
अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ व्कल् २,१।१३ [*व्कल् २,१।१४] ॥ यस्य पदस्य लोकेऽर्थः प्रसिद्धश्राप्रासेद्धश्च , तद्प्रसिद्धेऽर्थे प्रयुक्तं गूढार्थम् । यथा ---- सहस्रगोरिवानीकं दुःसहं बह्वतः परैः इति । सहस्रं गावो ऽक्षीणि यस्य स सहस्रगुरिन्द्रः । तस्येवेति गोशब्दस्याक्षिवाचित्वं कविष्वप्रसिद्धमिति
aprasiddhārthaprayuktaṃ gūḍhārtham // VKal 2,1.13 [*VKal 2,1.14] // yasya padasya loke'rthaḥ prasiddhaśrāprāseddhaśca , tadprasiddhe'rthe prayuktaṃ gūḍhārtham / yathā ---- sahasragorivānīkaṃ duḥsahaṃ bahvataḥ paraiḥ iti / sahasraṃ gāvo 'kṣīṇi yasya sa sahasragurindraḥ / tasyeveti gośabdasyākṣivācitvaṃ kaviṣvaprasiddhamiti
Sanskrit only: no published translation is held for this verse.
असम्यार्थान्तरमसम्यस्मृतिहेतुश्चाश्लीलम् ॥ व्कल् २,१।१४ [*व्कल् २,१।१५] ॥ यस्य पदस्यानेकार्थस्यैको ऽर्थोऽसभ्यः स्यात् , तदसभ्यार्थान्तरम् । यथा ---- वर्चः इति पदं तेजसि विष्ठायां च । यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थं स्मारयति , तदसभ्यस्मृतिहेतुः । यथा ---- कृकाटिका इति
asamyārthāntaramasamyasmṛtihetuścāślīlam // VKal 2,1.14 [*VKal 2,1.15] // yasya padasyānekārthasyaiko 'rtho'sabhyaḥ syāt , tadasabhyārthāntaram / yathā ---- varcaḥ iti padaṃ tejasi viṣṭhāyāṃ ca / yattu padaṃ sabhyārthavācakamapyekadeśadvāreṇāsabhyārthaṃ smārayati , tadasabhyasmṛtihetuḥ / yathā ---- kṛkāṭikā iti
Sanskrit only: no published translation is held for this verse.
न गुप्तलक्षितसंवृतानि ॥ व्कल् २,१।१५ [*व्कल् २,१।१६] ॥ अपवादार्थमिदम् । गुप्तं लक्षितं संवृत्तं च नाश्लीलम्
na guptalakṣitasaṃvṛtāni // VKal 2,1.15 [*VKal 2,1.16] // apavādārthamidam / guptaṃ lakṣitaṃ saṃvṛttaṃ ca nāślīlam
Sanskrit only: no published translation is held for this verse.
एषां लक्षणान्याह ---- अप्रसिद्धासभ्यं गुप्तम् ॥ व्कल् २,१।१६ [*व्कल् २,१।१७] ॥ अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत् तद्गुप्तम् । यथा ---- संबाधः इति पदम् । तद्धि संकटार्थं प्रसिद्धम् , न गुह्यार्थमिति
eṣāṃ lakṣaṇānyāha ---- aprasiddhāsabhyaṃ guptam // VKal 2,1.16 [*VKal 2,1.17] // aprasiddhāsabhyārthāntaraṃ padamaprasiddhāsabhyaṃ yat tadguptam / yathā ---- saṃbādhaḥ iti padam / taddhi saṃkaṭārthaṃ prasiddham , na guhyārthamiti
Sanskrit only: no published translation is held for this verse.
लाक्षणिकासभ्यान्वितं लक्षितम् ॥ व्कल् २,१।१७ [*व्कल् २,१।१८] ॥ तदेवासभ्यार्थान्तरं लक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् । यथा ---- जन्मभूः इति । तद्धि लक्षणया गुणाथम् , न स्वशक्त्येति
lākṣaṇikāsabhyānvitaṃ lakṣitam // VKal 2,1.17 [*VKal 2,1.18] // tadevāsabhyārthāntaraṃ lakṣaṇikenāsabhyenārthenānvitaṃ padaṃ lakṣitam / yathā ---- janmabhūḥ iti / taddhi lakṣaṇayā guṇātham , na svaśaktyeti
Sanskrit only: no published translation is held for this verse.
लोकसंवीतं संवृतम् ॥ व्कल् २,१।१८ [*व्कल् २,१।१९] ॥ लोकेन संवीतं लोकसंवीतं यत् तत् संवृतम् । यथा ---- सुभगा भगोनीउपस्थानमभिप्रेतम्कुमारीदोहदः इति । अत्र हि श्लोकः ---- संवीतस्य हि लोकेन न दोषान्वेषणं क्समम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥
lokasaṃvītaṃ saṃvṛtam // VKal 2,1.18 [*VKal 2,1.19] // lokena saṃvītaṃ lokasaṃvītaṃ yat tat saṃvṛtam / yathā ---- subhagā bhagonīupasthānamabhipretamkumārīdohadaḥ iti / atra hi ślokaḥ ---- saṃvītasya hi lokena na doṣānveṣaṇaṃ ksamam / śivaliṅgasya saṃsthāne kasyāsabhyatvabhāvanā //
Sanskrit only: no published translation is held for this verse.
तन्त्रैविध्यम्, व्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ व्कल् २,१।१९ [*व्कल् २,१।२०] ॥ तस्याश्लीलस्य त्रैविध्यं भवति , व्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् । किञ्चित् व्रीडादायि भवति । यथा ---- वाक्काटवम्हिरण्यरेताः इति । किञ्चित् जुगुप्सादायि भवति । यथा ---- कपर्दकः इति । किञ्चित् अमङ्गलातङ्गदायि भवति । यथा ---- संस्थितः इति
tantraividhyam, vrīḍājugupsāmaṅgalātaṅkadāyibhedāt // VKal 2,1.19 [*VKal 2,1.20] // tasyāślīlasya traividhyaṃ bhavati , vrīḍājugupsāmaṅgalātaṅkadāyināṃ bhedāt / kiñcit vrīḍādāyi bhavati / yathā ---- vākkāṭavamhiraṇyaretāḥ iti / kiñcit jugupsādāyi bhavati / yathā ---- kapardakaḥ iti / kiñcit amaṅgalātaṅgadāyi bhavati / yathā ---- saṃsthitaḥ iti
Sanskrit only: no published translation is held for this verse.
व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ व्कल् २,१।२० [*व्कल् २,१।२१] ॥ अर्थस्य प्रतीतिरर्थप्रत्ययः । स व्यवहितो यस्माद्भवति तद्व्यवहितार्थप्रत्ययं क्लिष्टम् । यथा ---- दक्षात्मजादयितवल्लभभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥ दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः । तस्य वल्लभाश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः
vyavahitārthapratyayaṃ kliṣṭam // VKal 2,1.20 [*VKal 2,1.21] // arthasya pratītirarthapratyayaḥ / sa vyavahito yasmādbhavati tadvyavahitārthapratyayaṃ kliṣṭam / yathā ---- dakṣātmajādayitavallabhabhavedikānāṃ jyotsnājuṣāṃ jalalavāstaralaṃ patanti // dakṣātmajāstārāḥ / tāsāṃ dayito dakṣātmajādayitaścandraḥ / tasya vallabhāścandrakāntāḥ / tadvedikānāmiti / atra hi vyavadhānenārthapratyayaḥ
Sanskrit only: no published translation is held for this verse.
अन्यत्रारूढत्वात् ॥ व्कल् २,१।२१ ॥ अरूढावपि यतोऽर्थप्रत्ययो झटिति न तत्क्लिष्टम् । यथा ---- काञ्चिगुणस्थानमनिन्दितायाः इति
anyatrārūḍhatvāt // VKal 2,1.21 // arūḍhāvapi yato'rthapratyayo jhaṭiti na tatkliṣṭam / yathā ---- kāñciguṇasthānamaninditāyāḥ iti
Sanskrit only: no published translation is held for this verse.
अश्लीलं क्लिष्टं चेत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्यश्लीलं क्लिष्टं च भवति । अश्लीलं यथा ---- न सा धनोन्नतिर्या स्यात्कलसुखदायिनी । परार्थवद्धकक्ष्याणां यत् सत्यं पेलवं धनं ॥ सोपानपथमुत्सृज्य वायुवेगसमुद्धतम् । महापथेन गतवान् कीर्त्यमानगुणो जनैः ॥ क्लिष्टं यथा ---- धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥ एतान्पदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः ।
aślīlaṃ kliṣṭaṃ cetyantye pade / tābhyāṃ vākyaṃ vyākhyātam / tadapyaślīlaṃ kliṣṭaṃ ca bhavati / aślīlaṃ yathā ---- na sā dhanonnatiryā syātkalasukhadāyinī / parārthavaddhakakṣyāṇāṃ yat satyaṃ pelavaṃ dhanaṃ // sopānapathamutsṛjya vāyuvegasamuddhatam / mahāpathena gatavān kīrtyamānaguṇo janaiḥ // kliṣṭaṃ yathā ---- dhammillasya na kasya prekṣya nikāmaṃ kuraṅgaśāvākṣyāḥ / rajyatyapūrvabandhavyutpattermānasaṃ śobhām // etānpadapadārthadoṣān jñātvā kavistyajediti tātparyārthaḥ /
Sanskrit only: no published translation is held for this verse.