व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तद्व्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् । यथा ---- अद्यापि स्मरति रसालसं मनो मे मुग्धायाः स्मरचतुराणि चेष्टितानि । मुग्धायाः कथं स्मरचतुराणि चेष्टितानि । तानि चेत् कथं मुग्धा ? अत्र पूर्वोत्तरयोरर्थयोर्विरोधाद् व्यर्थमिति
vyāhatau pūrvottarāvarthau yasmiṃstadvyāhatapūrvottarārthaṃ vākyaṃ vyartham / yathā ---- adyāpi smarati rasālasaṃ mano me mugdhāyāḥ smaracaturāṇi ceṣṭitāni / mugdhāyāḥ kathaṃ smaracaturāṇi ceṣṭitāni / tāni cet kathaṃ mugdhā ? atra pūrvottarayorarthayorvirodhād vyarthamiti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.