उक्तार्थानि पदानि यस्मिंस्तदुक्तार्थपदमेकार्थम् । यथा ---- चिन्तामोहमनङ्गमङ्ग ! तनुते विप्रेक्षितं सुभ्रुवः । अनङ्गः शृङ्गारः । तस्य चिन्तामोहात्मकत्वाच्चिन्तामोहशब्दौ प्रयुक्तावुक्तार्थौ भवतः । एकार्थपदत्वाद् वाक्यमेकार्थमित्युक्तम्
uktārthāni padāni yasmiṃstaduktārthapadamekārtham / yathā ---- cintāmohamanaṅgamaṅga ! tanute viprekṣitaṃ subhruvaḥ / anaṅgaḥ śṛṅgāraḥ / tasya cintāmohātmakatvāccintāmohaśabdau prayuktāvuktārthau bhavataḥ / ekārthapadatvād vākyamekārthamityuktam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.