कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु तानि कलाचतुर्वर्गशास्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः । कलाशास्त्रविरुद्धं यथा ---- कालिङ्ग लिखितमिदं वयस्य पत्रं पत्रज्ञैरपरितकोटिकण्टकाग्रम् । कालिन्ङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः । तद्विरुद्धत्वात् कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः । चतुर्वर्गशास्त्रविरुद्धानि तूदाह्नियन्ते ---- कामोपभोगसाकल्यफलो राज्ञां महीजयः । धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजयः इत्यागमः । तद्विरोधाद्धर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति । अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया । द्विपज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ । तद्विरोधादर्थशास्त्रविरुद्ध वाक्यमिति । दशनाङ्कपवित्रितोत्तरोष्टं रतिखेदालसमाननं स्मरामि । उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्थानानि । इति कामशास्त्रे स्थितम् । तद्विरोधात् कामशास्त्रविरुद्धार्थं वाक्यमिति देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा । एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात्तद्विरुद्धार्थम् । एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वन्ये शब्दार्थदोषाः सूक्ष्मास्ते गुणविवेचने लक्ष्यन्ते । उपमादोषाश्चोपमाविचार इति
kalāśāstraiścaturvargaśāstraiśca viruddho'rtho yeṣu tāni kalācaturvargaśāstraviruddhārthāni vākyāni vidyāviruddhāni / vākyānāṃ virodho'rthadvārakaḥ / kalāśāstraviruddhaṃ yathā ---- kāliṅga likhitamidaṃ vayasya patraṃ patrajñairaparitakoṭikaṇṭakāgram / kālinṅgaṃ patitakoṭikaṇṭakāgramiti patravidāmāmnāyaḥ / tadviruddhatvāt kalāśāstraviruddham / evaṃ kalāntareṣvapi virodho'bhyūhyaḥ / caturvargaśāstraviruddhāni tūdāhniyante ---- kāmopabhogasākalyaphalo rājñāṃ mahījayaḥ / dharmaphalo'śvamedhādiyajñaphalo vā rājñāṃ mahījayaḥ ityāgamaḥ / tadvirodhāddharmaśāstraviruddhārthametadvākyamiti / ahaṅkāreṇa jīyante dviṣantaḥ kiṃ nayaśriyā / dvipajjayasya nayamūlatvaṃ sthitaṃ daṇḍanītau / tadvirodhādarthaśāstraviruddha vākyamiti / daśanāṅkapavitritottaroṣṭaṃ ratikhedālasamānanaṃ smarāmi / uttaroṣṭhamantarmukhaṃ nayanāntamiti muktvā cumbananakharadaśanasthānāni / iti kāmaśāstre sthitam / tadvirodhāt kāmaśāstraviruddhārthaṃ vākyamiti devatābhaktito muktirna tattvajñānasaṃpadā / etasyārthasya mokṣaśāstre sthitatvāttadviruddhārtham / ete vākyavākyārthadoṣāstyāgāya jñātavyāḥ / ye tvanye śabdārthadoṣāḥ sūkṣmāste guṇavivecane lakṣyante / upamādoṣāścopamāvicāra iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.