पदमेकार्थमनेकार्थ च स्थानानियतं तद्विधमक्षरं च शेषः । सरूपोऽन्येन प्रयुक्तेन तुल्यरूपोऽनुप्रासः । ननु शेषोऽनुप्रास इत्येतावदेव सूत्रं कस्मान्न कृतम् । आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते । सत्यम् । सिद्ध्यत्येवावृत्तिशेषे , किन्त्वव्याप्तिप्रसङ्गः । विशेषार्थ च सरूपग्रहणम् । कार्त्स्न्येनैवावृत्तिः । कार्त्स्न्यैकदेशाभ्यां तु सारूप्यमिति
padamekārthamanekārtha ca sthānāniyataṃ tadvidhamakṣaraṃ ca śeṣaḥ / sarūpo'nyena prayuktena tulyarūpo'nuprāsaḥ / nanu śeṣo'nuprāsa ityetāvadeva sūtraṃ kasmānna kṛtam / āvṛttiśeṣo'nuprāsa ityeva hi vyākhyāsyate / satyam / siddhyatyevāvṛttiśeṣe , kintvavyāptiprasaṅgaḥ / viśeṣārtha ca sarūpagrahaṇam / kārtsnyenaivāvṛttiḥ / kārtsnyaikadeśābhyāṃ tu sārūpyamiti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.