सुसंशित-मतिर् विमल-बुद्धिः अष्टाविंशति-संख्यं दशार्णं दशाक्षर-मन्त्रं जपन् प्रायच्छेत् प्राणायामं कुर्यात् कीदृशं दशार्णम् इष्ट-फलदं स्वाभिमत-फलदं तत्र दशाक्षर-मन्त्रस्य वार-चतुष्टयं जपेन रेचकम् । अष्ट-वार-जपेन पूरकं षोडश-वार-जपेन कुम्भकं कुर्याद् इति गुरु-सम्प्रदायः । अष्टादशार्णे चेत् प्राणायामः क्रियत इति शेषः । तदा रविवारं द्वादश-वारम् अभ्यस्यन् प्राणायामं कुर्याद् इति गुरु-सम्प्रदायः । अन्य-मनुभिर् अन्य-मन्त्रैश् चेत् प्राणायामः क्रियते । तदा वर्णानुरूपं मन्त्र-वर्णानां तारतम्येन जपं कुर्वन् कुर्यात् । अत्र स्वल्पाक्षरैर् मन्त्रैर् बहु-वारम् अनल्पाक्षरैर् मन्त्रैः स्वल्प-वारं जपेद् इत्य् अर्थः । कीदृशः ? साधकः रेचक-पूरक-कुम्भकाख्य-कर्म-कुशल इत्य् अर्थः । रेचकस्य त्यागस्य पूर्वकर्मणी पूरक-कुम्भके तत्र निपुणा इति रुद्रधरः । तच् चिन्त्यम् एवम् अपि रेचके नैपुण्यालाभात् प्रपञ्च-सारानुसारिणो ऽस्य ग्रन्थस्य शारदा-ग्रन्थानुयायित्वाच् च
susaṃśita-matir vimala-buddhiḥ aṣṭāviṃśati-saṃkhyaṃ daśārṇaṃ daśākṣara-mantraṃ japan prāyacchet prāṇāyāmaṃ kuryāt kīdṛśaṃ daśārṇam iṣṭa-phaladaṃ svābhimata-phaladaṃ tatra daśākṣara-mantrasya vāra-catuṣṭayaṃ japena recakam | aṣṭa-vāra-japena pūrakaṃ ṣoḍaśa-vāra-japena kumbhakaṃ kuryād iti guru-sampradāyaḥ | aṣṭādaśārṇe cet prāṇāyāmaḥ kriyata iti śeṣaḥ | tadā ravivāraṃ dvādaśa-vāram abhyasyan prāṇāyāmaṃ kuryād iti guru-sampradāyaḥ | anya-manubhir anya-mantraiś cet prāṇāyāmaḥ kriyate | tadā varṇānurūpaṃ mantra-varṇānāṃ tāratamyena japaṃ kurvan kuryāt | atra svalpākṣarair mantrair bahu-vāram analpākṣarair mantraiḥ svalpa-vāraṃ japed ity arthaḥ | kīdṛśaḥ ? sādhakaḥ recaka-pūraka-kumbhakākhya-karma-kuśala ity arthaḥ | recakasya tyāgasya pūrvakarmaṇī pūraka-kumbhake tatra nipuṇā iti rudradharaḥ | tac cintyam evam api recake naipuṇyālābhāt prapañca-sārānusāriṇo 'sya granthasya śāradā-granthānuyāyitvāc ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.