अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान्, देशयतु सुगतः, यद्देशनापाठे भगवता अनिरोधानुत्पादग्रहणं कृतम् । उक्तं च त्वया यथा तथागतस्यैतदधिवचनमनिरोधानुत्पाद इति । तत्किमयं भगवन् अभावो ऽनिरोधानुत्पादः, उत तथागतस्यैतत्पर्यायान्तरम्? यद्भगवानेवमाह - अनिरुद्धा अनुत्पन्नाश्च भगवता (वैद्य ७८) सर्वधर्मा देश्यन्ते सदसत्पक्षादर्शनात् । यद्यनुत्पन्नाः सर्वधर्मा इति भगवन् धर्मग्रहणं न प्राप्नोति, अजातत्वात्सर्वधर्माणाम् । अथ पर्यायान्तरमेतत्कस्यचिद्धर्मस्य, तदुच्यतां भगवन् । भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - न हि महामते अभावस्तथागतो न च सर्वधर्माणामनिरोधानुत्पादग्रहणम् । न प्रत्ययो ऽपेक्षितव्यो न च निरर्थकमनुत्पादग्रहणं क्रियते मया । किं तु महामते मनोमयधर्मकायस्य तथागतस्यैतदधिवचनं यत्र सर्वतीर्थकरश्रावकप्रत्येकबुद्धसप्तभूमिप्रतिष्ठितानां च बोधिसत्त्वानामविषयः । सो ऽनुत्पादस्तथागतस्य । एतन्महामते पर्यायवचनम् । तद्यथा महामते इन्द्रः शक्रः पुरंदरः, हस्यः करः पाणिः, तनुर्देहं शरीरम्, पृथिवी भूमिर्वसुंधरा, खमाकाशं गगनम् । इत्येवमाद्यानां भावानामेकैकस्य भावस्य बहवः पर्यायवाचकाः शब्दा भवन्ति विकल्पिताः । न चैषां नामबहुत्वाद्भावबहुत्वं विकल्प्यते । न च स्वभावो न भवति । एवं महामते अहमपि सहायां लोकधातौ त्रिभिर्नामासंख्येयशतसहस्रैर्बालानां श्रवणावभासमागच्छामि । तैश्चाभिलपन्ति माम्, न च प्रजानन्ति तथागतस्यैते नामपर्याया इति । तत्र केचिन्महामते तथागतमिति मां संप्रजानन्ति । केचित्स्वयंभुवमिति । नायकं विनायकं परिणायकं बुद्धमृषिं वृषभं ब्रह्माणं विष्णुमीश्वरं प्रधानं कपिलं भूतान्तमरिष्टनेमिनं सोमं भास्करं रामं व्यासं शुकमिन्द्रं बलिं वरुणमिति चैके संजानन्ति । अपरे अनिरोधानुत्पादं शून्यतां तथतां सत्यतां भूततां भूतकोटिं धर्मधातुं निर्वाणं नित्यं समतामद्वयमनिरोधमनिमित्तं प्रत्ययं बुद्धहेतूपदेशं विमोक्षं मार्गसत्यानि सर्वज्ञं जिनं मनोमयमिति चैके संजानन्ति । एवमादिभिर्महामते परिपूर्णं त्रिभिर्नामासंख्येयशतसहस्रैरनूनैरनधिकैरिहान्येषु च लोकधातुषु मां जनाः संजानन्ते उदकचन्द्र इवाप्रविष्टनिर्गतम् । न च बाला अवबुध्यन्ते द्वयान्तपतितया संतत्या । अथ च सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति च मां पदार्थनिरुक्त्यकुशला अभिन्नसंज्ञाः, न स्वनयं प्रजानन्तिं देशनारुतपाठाभिनिविष्टाः । अनिरोधानुत्पादमभावं कल्पयिष्यन्ति न च तथागतनामपदपर्यायान्तरमिन्द्रशक्रपुरंदरं न स्वनयप्रत्यवस्थानपाठमधिमोक्षन्ति, यथारुतार्थपाठानुसारित्वात्सर्वधर्माणाम् । एवं च महामते वक्ष्यन्ति ते मोहपुरुषाः - यथारुत एवार्थः, अनन्यो ऽर्थो रुतादिति । तत्कस्य हेतोः? यदुत अर्थस्याशरीरत्वाद्रुतादन्यो ऽर्थो न भवति । किं तु रुतमेवार्थ इति रुतस्वभावापरिज्ञानादविदग्धबुद्धयः । न त्वेवं ज्ञास्यन्ति महामते यथा रुतमुत्पन्नप्रध्वंसि, अर्थो ऽनुत्पन्नप्रध्वंसी । रुतं महामते अक्षरपतितम्, अर्थो ऽनक्षरपतितः । भावाभावविवर्जितत्वादजन्माशरीरम् । न च महामते तथागता अक्षरपतितं धर्मं देशयन्ति । अक्षराणां सदसतो ऽनुपलब्धेः । अन्यत्र अक्षरपतिताशयः पुनर्महामते यो ऽक्षरपतितं धर्मं देशयति, स च प्रलपति, निरक्षरत्वाद्धर्मस्य । अत एतस्मात्कारणान्महामते उक्तं देशनापाठे मया अन्यैश्च बुद्धबोधिसत्त्वैः यथैकमप्यक्षरं तथागता नोदाहरन्ति न प्रत्याहरन्तीति । तत्कस्य (वैद्य ७९) हेतोः? यदुत अनक्षरत्वाद्धर्माणाम् । न च नार्थोपसंहितमुदाहरन्ति । उदाहरन्त्येव विकल्पमुपादाय । अनुपादानान्महामते सर्वधर्माणां शासनलोपः स्यात् । शासनानां लोपाच्च बुद्धप्रत्येकबुद्धश्रावकबोधिसत्त्वानामभावः स्यात् । तदभावात्किं कस्य देश्येत? अत एतस्मात्कारणान्महामते बोधिसत्त्वेन महासत्त्वेन देशनापाठरुतानभिनिविष्टेन भवितव्यम् । स व्यभिचारी महामते देशनापाठः । सत्त्वाशयप्रवृत्तत्वान्नानाधिमुक्तिकानां सत्त्वानां धर्मदेशना क्रियते चित्तमनोमनोविज्ञानव्यावृत्त्यर्थं मया अन्यैश्च तथागतैरर्हद्भिः सम्यक्संबुद्धैः, न स्वप्रत्यात्मार्यज्ञानाधिगमप्रत्यवस्थानात् सर्वधर्मनिराभाअसस्वचित्तदृश्यमात्रावबोधाद्द्विधाविकल्पस्य व्यावृत्तितः । अर्थप्रतिशरणेन महामते बोधिसत्त्वेन महासत्त्वेन भवितव्यं न व्यञ्जनप्रतिशरणेन । व्यञ्जनानुसारी महामते कुलपुत्रो वा कुलदुहिता वा स्वात्मानं च नाशयति, परार्थांश्च नावबोधयति । कुदृष्टिपतितया संतत्या स्वपक्षं विभ्राम्यते कुतीर्थकैः सर्वधर्मभूमिस्वलक्षणाकुशलैः पदनिरुक्त्यनभिज्ञैः ॥ अथ सर्वधर्मभूमिस्वलक्षणकुशला भवन्ति पदपर्यायनिरुक्तिगतिंगता भावार्थयुक्तिकुशलाः । ततः स्वात्मानं च सम्यगनिमित्तसुखेन प्रीणयन्ति, परांश्च सम्यङ्महायाने प्रतिष्ठापयन्ति । महायाने च महामते सम्यक्परिगृह्यमाणे बुद्धश्रावकप्रत्येकबुद्धबोधिसत्त्वानां परिग्रहः कृतो भवति । बुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धपरिग्रहात्सर्वसत्त्वपरिग्रहः कृतो भवति । सर्वसत्त्वपरिग्रहात्सद्धर्मपरिग्रहः कृतो भवति । सद्धर्मपरिग्रहाच्च महामते बुद्धवंशस्यानुपच्छेदः कृतो भवति । बुद्धवंशस्यानुपच्छेदादायतनविशेषप्रतिलम्भाः प्रज्ञायन्ते । अतस्तेषु विशिष्टायतनप्रतिलम्भेषु बोधिसत्त्वा महासत्त्वा उपपत्तिं परिगृह्य महायाने प्रतिष्ठापनतया दशवशिताविचित्ररूपवेशधारिणो भूत्वा सत्त्वविशेषानुशयलक्षणगतिभूतास्तथात्वाय धर्मं देशयन्ति ॥ तत्र तथात्वमनन्यथात्वं तत्त्वम् । अनायूहानिर्यूहलक्षणं सर्वप्रपञ्चोपशमं तत्त्वमित्युच्यते । तेन न महामते कुलपुत्रेण वा कुलदुहित्रा वा यथारुतार्थाभिनिवेशकुशलेन भवितव्यम् । निरक्षरत्वात्तत्त्वस्य । न चाङ्गुलिप्रेक्षकेण भवितव्यम् । तद्यथा महामते अङ्गुल्या कश्चित्कस्यचित्किंचिदादर्शयेत् । स चाङ्गुल्यग्रमेव प्रतिसेरद्वीक्षितुम् । एवमेव महामते बालजातीया इव बालपृथग्जनवर्गा यथारुताङ्गुल्यग्राभिनिवेशाभिनिविष्टा एव कालं करिष्यन्ति, न यथारुताङ्गुल्यग्रार्थं हित्वा परमार्थमागमिष्यन्ति । तद्यथा महामते अन्नं भोज्यं बालानां च कश्चिदनभिसंस्कृतं परिभोक्तुम् । अथ कश्चिदनभिसंस्कृतं परिभुञ्जीत, स उन्मत्त इति विकल्प्येत अनुपूर्वसंस्कारानवबोधादन्नस्य, एवमेव महामते अनुत्पादो ऽनिरोधो नानभिसंस्कृतः शोभते । अवश्यमेवात्राभिसंस्कारेण भवितव्यम्, न चात्मानमङ्गुल्यग्रग्रहणार्थदर्शनवत् । अत एतेन कारणेन महामते अर्थाभियोगः करणीयः । अर्थो महामते विविक्तो निर्वाणहेतुः । रुतं विकल्पसंबद्धं संसारावाहकम् । अर्थश्च महामते बहुश्रुतानां (वैद्य ८०) सकाशाल्लभ्यते । बाहुश्रुत्यं च नाम महामते यदुत अर्थकौशल्यं न रुतकौशल्यम् । तत्रार्थकौशल्यं यत्सर्वतीर्थकरवादासंसृष्टं दर्शनम् । यथा स्वयं च न पतति परांश्च न पातयति । एवं सत्यर्थे महामते बाहुश्रुत्यं भवति । तस्मादर्थकामेन ते सेवनीयाः । अतो विपरीता ये यथारुतार्थाभिनिविष्टास्ते वर्जनीयास्तत्त्वान्वेषिणा ॥ पुनरपरं महामतिर्बुद्धाधिष्ठानाधिष्ठित एवमाह - न भगवता अनिरोधानुत्पाददर्शनेन किंचिद्विशिष्यते । तत्कस्य हेतोः? सर्वतीर्थकराणामपि भगवन् कारणान्यनुत्पन्नान्यनिरुद्धानि । तवापि भगवन् आकाशमप्रतिसंख्यानिरोधो निर्वाणधातुश्चानिरोधो ऽनुत्पन्नः । तीर्थकरा अपि भगवन् कारणप्रत्ययहेतुकीं जगत उत्पत्तिं वर्णयन्ति । भगवानपि अज्ञानतृष्णाकर्मविकल्पप्रत्ययेभ्यो जगत उत्पत्तिं वर्णयति । तस्यैव कारणस्य संज्ञान्तरविशेषमुत्पाद्य प्रत्यया इति । एवं बाह्यैः प्रत्ययैर्बाह्यानाम् । ते च त्वं च भावानामुत्पत्तये । अतो निर्विशिष्टो ऽयं भगवन् वादस्तीर्थकरवादेन भवति । अणुप्रधानेश्वरप्रजापतिप्रभृतयो नवद्रव्यसहिता अनिरुद्धा अनुत्पन्नाः । तवापि भगवन् सर्वभावा अनुत्पन्नानिरुद्धाः सदसतो ऽनुपलब्धेः । भूताविनाशाच्च स्वलक्षणं नोत्पद्यते, न निरुध्यते । यां तां गतिं गत्वा भूतो भूतस्वभावं न विजहाति । भूतविकल्पविकारो ऽयं भगवन् सर्वतीर्थकरैर्विकल्प्यते त्वया च । अत एतेन कारणेन अविशिष्टो ऽयं वादः । विशेषो वात्र वक्तव्यो येन तथागतवादो विशेष्यते, न सर्वतीर्थकरवादः । अविशिष्यमाणे भगवन् स्ववादे तीर्थकराणामपि बुद्धप्रसङ्गः स्यादनिरोधानुत्पादहेतुत्वात् । अस्थानमनवकाशं चोक्तं भगवता यदेकत्र लोकधातौ बहवस्तथागता उत्पद्येरन्निति । प्राप्तं चैतत्तथागतबहुत्वं सदसत्कार्यपरिग्रहाच्चाविशिष्यमाणे स्ववादे ॥ भगवानाह - न मम महामते अनिरोधानुत्पादस्तीर्थकरानुत्पादानिरोधवादेन तुल्यो नाप्युत्पादानित्यवादेन । तत्कस्य हेतोः? तीर्थकराणां हि महामते भावस्वभावो विद्यत एवानुत्पन्नाविकरलक्षणप्राप्तः । न त्वेवं मम सदसत्पक्षपतितः । मम तु महामते सदसत्पक्षविगत उत्पादभङ्गविरहितो न भावो नाभाअवः, मायास्वरूपवैचित्र्यदर्शनवन्नाभावः । कथं न भावः? यदुत रूपस्वभावलक्षणग्रहणाभावाद्दृश्यादृश्यतो ग्रहणाग्रहणतः । अत एतस्मात्कारणात्सर्वभावा न भावा नाभावाः । किं तु स्वचित्तदृश्यमात्रावबोधाद्विकल्पस्याप्रवृत्तेः स्वस्थो लोको निष्क्रियः । बालाः क्रियावन्तं कल्पयन्ति, न त्वार्याः । अभूतार्थविकल्पार्थविभ्रम् एष महामते गन्धर्वनगरमायापुरुषवत् । तद्यथा महामते कश्चिद्गन्धर्वनगरे बालजातीयो मायापुरुषसत्त्वसार्थवैचित्र्यं प्रविअशन्तं वा निर्गच्छन्तं वा कल्पयेत् - अमी प्रविष्टा अमी निर्गताः । न च तत्र कश्चित्प्रविष्टो वा निर्गतो वा । अथ यावदेव विकल्पविभ्रमभाव एषः, तेषामेवमेव महामते उत्पादानुत्पादविभ्रम एष बालानाम् । न चात्र कश्चित्संस्कृतो ऽसंस्कृतो वा मायापुरुषोत्पत्तिवत् । न च मायापुरुष उत्पद्यते वा निरुध्यते वा भावाभावाकिंचित्करत्वात् । एवमेव सर्वधर्मा भङ्गोत्पादवर्जिताः । अन्यत्र वितथपतितया संज्ञया बाला उत्पादनिरोधं कल्पयन्ति न त्वार्याः । तत्र वितथमिति महामते न तथा यथा भावस्वभावः कल्प्यते । (वैद्य ८१) नाप्यन्यथा । अन्यथा कल्प्यमाने सर्वभावस्वभावाभिनिवेश एव स्यात् । न विविक्तदर्शनाविविक्तदर्शनाद्विकल्पस्य व्यावृत्तिरेव न स्यात् । अत एतस्मात्कारणान्महामते अनिमित्तदर्शनमेव श्रेयो न निमित्तदर्शनम् । निमित्तं पुनर्जन्महेतुत्वादश्रेयः । अनिमित्तमिति महामते विकल्पस्याप्रवृत्तिरनुत्पादो निर्वाणमिति वदामि । तत्र निर्वाणमिति महामते यथाभूतार्थस्थानदर्शनं विकल्पचित्तचैत्तकलापस्य परावृत्तिपूर्वकम् । तथागतस्वप्रत्यात्मार्यज्ञानाधिगमं निर्वाणमिति वदामि ॥ तत्रेदमुच्यते - उत्पादविनिवृत्त्यर्थमनुत्पादप्रसाधकम् । अहेतुवादं देशेमि न च बालैर्विभाव्यते
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat - deśayatu me bhagavān, deśayatu sugataḥ, yaddeśanāpāṭhe bhagavatā anirodhānutpādagrahaṇaṃ kṛtam / uktaṃ ca tvayā yathā tathāgatasyaitadadhivacanamanirodhānutpāda iti / tatkimayaṃ bhagavan abhāvo 'nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram? yadbhagavānevamāha - aniruddhā anutpannāśca bhagavatā (Vaidya 78) sarvadharmā deśyante sadasatpakṣādarśanāt / yadyanutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoti, ajātatvātsarvadharmāṇām / atha paryāyāntarametatkasyaciddharmasya, taducyatāṃ bhagavan / bhagavānāha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru / bhāṣiṣye 'haṃ te / sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt / bhagavāṃstasyaitadavocat - na hi mahāmate abhāvastathāgato na ca sarvadharmāṇāmanirodhānutpādagrahaṇam / na pratyayo 'pekṣitavyo na ca nirarthakamanutpādagrahaṇaṃ kriyate mayā / kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitadadhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānāmaviṣayaḥ / so 'nutpādastathāgatasya / etanmahāmate paryāyavacanam / tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ, hasyaḥ karaḥ pāṇiḥ, tanurdehaṃ śarīram, pṛthivī bhūmirvasuṃdharā, khamākāśaṃ gaganam / ityevamādyānāṃ bhāvānāmekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ / na caiṣāṃ nāmabahutvādbhāvabahutvaṃ vikalpyate / na ca svabhāvo na bhavati / evaṃ mahāmate ahamapi sahāyāṃ lokadhātau tribhirnāmāsaṃkhyeyaśatasahasrairbālānāṃ śravaṇāvabhāsamāgacchāmi / taiścābhilapanti mām, na ca prajānanti tathāgatasyaite nāmaparyāyā iti / tatra kecinmahāmate tathāgatamiti māṃ saṃprajānanti / kecitsvayaṃbhuvamiti / nāyakaṃ vināyakaṃ pariṇāyakaṃ buddhamṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇumīśvaraṃ pradhānaṃ kapilaṃ bhūtāntamariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukamindraṃ baliṃ varuṇamiti caike saṃjānanti / apare anirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatāmadvayamanirodhamanimittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayamiti caike saṃjānanti / evamādibhirmahāmate paripūrṇaṃ tribhirnāmāsaṃkhyeyaśatasahasrairanūnairanadhikairihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānante udakacandra ivāpraviṣṭanirgatam / na ca bālā avabudhyante dvayāntapatitayā saṃtatyā / atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñāḥ, na svanayaṃ prajānantiṃ deśanārutapāṭhābhiniviṣṭāḥ / anirodhānutpādamabhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaramindraśakrapuraṃdaraṃ na svanayapratyavasthānapāṭhamadhimokṣanti, yathārutārthapāṭhānusāritvātsarvadharmāṇām / evaṃ ca mahāmate vakṣyanti te mohapuruṣāḥ - yathāruta evārthaḥ, ananyo 'rtho rutāditi / tatkasya hetoḥ? yaduta arthasyāśarīratvādrutādanyo 'rtho na bhavati / kiṃ tu rutamevārtha iti rutasvabhāvāparijñānādavidagdhabuddhayaḥ / na tvevaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsi, artho 'nutpannapradhvaṃsī / rutaṃ mahāmate akṣarapatitam, artho 'nakṣarapatitaḥ / bhāvābhāvavivarjitatvādajanmāśarīram / na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti / akṣarāṇāṃ sadasato 'nupalabdheḥ / anyatra akṣarapatitāśayaḥ punarmahāmate yo 'kṣarapatitaṃ dharmaṃ deśayati, sa ca pralapati, nirakṣaratvāddharmasya / ata etasmātkāraṇānmahāmate uktaṃ deśanāpāṭhe mayā anyaiśca buddhabodhisattvaiḥ yathaikamapyakṣaraṃ tathāgatā nodāharanti na pratyāharantīti / tatkasya (Vaidya 79) hetoḥ? yaduta anakṣaratvāddharmāṇām / na ca nārthopasaṃhitamudāharanti / udāharantyeva vikalpamupādāya / anupādānānmahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt / śāsanānāṃ lopācca buddhapratyekabuddhaśrāvakabodhisattvānāmabhāvaḥ syāt / tadabhāvātkiṃ kasya deśyeta? ata etasmātkāraṇānmahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam / sa vyabhicārī mahāmate deśanāpāṭhaḥ / sattvāśayapravṛttatvānnānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiśca tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ, na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāasasvacittadṛśyamātrāvabodhāddvidhāvikalpasya vyāvṛttitaḥ / arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena / vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati, parārthāṃśca nāvabodhayati / kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ // atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ / tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti, parāṃśca samyaṅmahāyāne pratiṣṭhāpayanti / mahāyāne ca mahāmate samyakparigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati / buddhabodhisattvaśrāvakapratyekabuddhaparigrahātsarvasattvaparigrahaḥ kṛto bhavati / sarvasattvaparigrahātsaddharmaparigrahaḥ kṛto bhavati / saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati / buddhavaṃśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante / atasteṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtāstathātvāya dharmaṃ deśayanti // tatra tathātvamananyathātvaṃ tattvam / anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvamityucyate / tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam / nirakṣaratvāttattvasya / na cāṅguliprekṣakeṇa bhavitavyam / tadyathā mahāmate aṅgulyā kaścitkasyacitkiṃcidādarśayet / sa cāṅgulyagrameva pratiseradvīkṣitum / evameva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti, na yathārutāṅgulyagrārthaṃ hitvā paramārthamāgamiṣyanti / tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścidanabhisaṃskṛtaṃ paribhoktum / atha kaścidanabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyeta anupūrvasaṃskārānavabodhādannasya, evameva mahāmate anutpādo 'nirodho nānabhisaṃskṛtaḥ śobhate / avaśyamevātrābhisaṃskāreṇa bhavitavyam, na cātmānamaṅgulyagragrahaṇārthadarśanavat / ata etena kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ / artho mahāmate vivikto nirvāṇahetuḥ / rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam / arthaśca mahāmate bahuśrutānāṃ (Vaidya 80) sakāśāllabhyate / bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam / tatrārthakauśalyaṃ yatsarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam / yathā svayaṃ ca na patati parāṃśca na pātayati / evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati / tasmādarthakāmena te sevanīyāḥ / ato viparītā ye yathārutārthābhiniviṣṭāste varjanīyāstattvānveṣiṇā // punaraparaṃ mahāmatirbuddhādhiṣṭhānādhiṣṭhita evamāha - na bhagavatā anirodhānutpādadarśanena kiṃcidviśiṣyate / tatkasya hetoḥ? sarvatīrthakarāṇāmapi bhagavan kāraṇānyanutpannānyaniruddhāni / tavāpi bhagavan ākāśamapratisaṃkhyānirodho nirvāṇadhātuścānirodho 'nutpannaḥ / tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti / bhagavānapi ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati / tasyaiva kāraṇasya saṃjñāntaraviśeṣamutpādya pratyayā iti / evaṃ bāhyaiḥ pratyayairbāhyānām / te ca tvaṃ ca bhāvānāmutpattaye / ato nirviśiṣṭo 'yaṃ bhagavan vādastīrthakaravādena bhavati / aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ / tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato 'nupalabdheḥ / bhūtāvināśācca svalakṣaṇaṃ notpadyate, na nirudhyate / yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti / bhūtavikalpavikāro 'yaṃ bhagavan sarvatīrthakarairvikalpyate tvayā ca / ata etena kāraṇena aviśiṣṭo 'yaṃ vādaḥ / viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate, na sarvatīrthakaravādaḥ / aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇāmapi buddhaprasaṅgaḥ syādanirodhānutpādahetutvāt / asthānamanavakāśaṃ coktaṃ bhagavatā yadekatra lokadhātau bahavastathāgatā utpadyeranniti / prāptaṃ caitattathāgatabahutvaṃ sadasatkāryaparigrahāccāviśiṣyamāṇe svavāde // bhagavānāha - na mama mahāmate anirodhānutpādastīrthakarānutpādānirodhavādena tulyo nāpyutpādānityavādena / tatkasya hetoḥ? tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ / na tvevaṃ mama sadasatpakṣapatitaḥ / mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāavaḥ, māyāsvarūpavaicitryadarśanavannābhāvaḥ / kathaṃ na bhāvaḥ? yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvāddṛśyādṛśyato grahaṇāgrahaṇataḥ / ata etasmātkāraṇātsarvabhāvā na bhāvā nābhāvāḥ / kiṃ tu svacittadṛśyamātrāvabodhādvikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ / bālāḥ kriyāvantaṃ kalpayanti, na tvāryāḥ / abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat / tadyathā mahāmate kaścidgandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviaśantaṃ vā nirgacchantaṃ vā kalpayet - amī praviṣṭā amī nirgatāḥ / na ca tatra kaścitpraviṣṭo vā nirgato vā / atha yāvadeva vikalpavibhramabhāva eṣaḥ, teṣāmevameva mahāmate utpādānutpādavibhrama eṣa bālānām / na cātra kaścitsaṃskṛto 'saṃskṛto vā māyāpuruṣotpattivat / na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcitkaratvāt / evameva sarvadharmā bhaṅgotpādavarjitāḥ / anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tvāryāḥ / tatra vitathamiti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate / (Vaidya 81) nāpyanyathā / anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt / na viviktadarśanāviviktadarśanādvikalpasya vyāvṛttireva na syāt / ata etasmātkāraṇānmahāmate animittadarśanameva śreyo na nimittadarśanam / nimittaṃ punarjanmahetutvādaśreyaḥ / animittamiti mahāmate vikalpasyāpravṛttiranutpādo nirvāṇamiti vadāmi / tatra nirvāṇamiti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam / tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇamiti vadāmi // tatredamucyate - utpādavinivṛttyarthamanutpādaprasādhakam / ahetuvādaṃ deśemi na ca bālairvibhāvyate
Sanskrit only: no published translation is held for this verse.