यथा केनचित् मरिचे ऽन्तः मरिचान्तरे । स्थितं तैक्ष्ण्यं तिक्तता । भोक्तुः ऋते न लक्ष्यते न दृश्यते । भोक्तरि तु सति तेनैव लक्ष्यते इत्य् अर्थः । तथा पराकाशे परमात्मनि । स्थितं चिन्मात्रत्वं । चेत्यकलां चेत्यांशं विना । न लक्ष्यते । चेत्यचर्वणाद् एव हि चिन्मात्रस्य चिन्मात्रता ज्ञायते
yathā kenacit marice 'ntaḥ maricāntare | sthitaṃ taikṣṇyaṃ tiktatā | bhoktuḥ ṛte na lakṣyate na dṛśyate | bhoktari tu sati tenaiva lakṣyate ity arthaḥ | tathā parākāśe paramātmani | sthitaṃ cinmātratvaṃ | cetyakalāṃ cetyāṃśaṃ vinā | na lakṣyate | cetyacarvaṇād eva hi cinmātrasya cinmātratā jñāyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.