तत् पूर्वोक्ताद् धेतोः । कारणाभावतः कारणाभावात् । इदम् अनुभूयमानं । कार्यं जगदाख्यं कार्यम् । उदितम् उत्पन्नं । नास्ति । कथं । किञ्चन लेशेनापीत्य् अर्थः । पुनः किम् एतद् दृश्यत इत्य् । अत्राह यद् इति । तद् एव वस्तु । इत्थं जगद्रूपेणावस्थितं वर्तमानं भवति । तद् एव किं । यत् वस्तु । तत्कारणम् एतस्य जगतः कारणत्वेन शङ्कितं वस्तु । एव भवति । न त्व् अन्यत् किञ्चिद् इति भावः
tat pūrvoktād dhetoḥ | kāraṇābhāvataḥ kāraṇābhāvāt | idam anubhūyamānaṃ | kāryaṃ jagadākhyaṃ kāryam | uditam utpannaṃ | nāsti | kathaṃ | kiñcana leśenāpīty arthaḥ | punaḥ kim etad dṛśyata ity | atrāha yad iti | tad eva vastu | itthaṃ jagadrūpeṇāvasthitaṃ vartamānaṃ bhavati | tad eva kiṃ | yat vastu | tatkāraṇam etasya jagataḥ kāraṇatvena śaṅkitaṃ vastu | eva bhavati | na tv anyat kiñcid iti bhāvaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.