नित्यम् अचेत्यायाः चेतितुम् अयोग्यायाः । चितेः चित् स्वग्राहिणी चित् । नास्ति चिद्रूपत्वहानेर् इति भावः । चितेः कथम्भूतायाः । अवितताकृतेः । सूक्ष्मतयावितता कुत्रापि न स्थिताकृतिः रूपं यस्याः । सा । तस्याः । ननु एतद् असिद्धं । स्फुरामीतिरूपेण युक्तत्वाद् इत्य् । अत्राह यद् रूपम् इति । यद् रूपं । यत् स्फुरामीत्यादिकं । रूपं भवति । तद् इत्य् अध्याहार्यम् । तत् जगत एव रूपम् । न तु चितेः । मुख्यतः चितित्वं हि स्फुरामीत्य् अस्य ग्राहिकायाः चितेर् एव । स्फुरामीति ग्राह्यरूपायास् तु गौणं चितित्वं भवद् अपि न जगत्त्वं व्यभिचरति । कथम्भूतस्य जगतः । तत्तत्स्फुरणरूपिणः । तत्तत्स्फुरणानि स्फुरामीत्यादीनि । रूपं यस्य । तत् । तस्य तत्तत्स्फुरणरूपिणः । यत् किञ्चिच् चेत्यताम् आयाति तत् सर्वं जगद् एवेत्य् अर्थः
nityam acetyāyāḥ cetitum ayogyāyāḥ | citeḥ cit svagrāhiṇī cit | nāsti cidrūpatvahāner iti bhāvaḥ | citeḥ kathambhūtāyāḥ | avitatākṛteḥ | sūkṣmatayāvitatā kutrāpi na sthitākṛtiḥ rūpaṃ yasyāḥ | sā | tasyāḥ | nanu etad asiddhaṃ | sphurāmītirūpeṇa yuktatvād ity | atrāha yad rūpam iti | yad rūpaṃ | yat sphurāmītyādikaṃ | rūpaṃ bhavati | tad ity adhyāhāryam | tat jagata eva rūpam | na tu citeḥ | mukhyataḥ cititvaṃ hi sphurāmīty asya grāhikāyāḥ citer eva | sphurāmīti grāhyarūpāyās tu gauṇaṃ cititvaṃ bhavad api na jagattvaṃ vyabhicarati | kathambhūtasya jagataḥ | tattatsphuraṇarūpiṇaḥ | tattatsphuraṇāni sphurāmītyādīni | rūpaṃ yasya | tat | tasya tattatsphuraṇarūpiṇaḥ | yat kiñcic cetyatām āyāti tat sarvaṃ jagad evety arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.