मनः बाह्ये सद्रूपं न विद्यते बाह्येन्द्रियैः अदृश्यमानत्वात् । हृदये ऽपि हृदयदेशे ऽपि । सद्रूपं न विद्यते । न हि हृदयदेशे मनो नाम किञ्चिल् लभ्यते । हे राम । त्वम् । एतत् मनः । सर्वत्रैव बाह्ये हृदये च । स्थितं विद्धि जानीहि । सङ्कल्पाख्यस्य तत्कार्यस्य बाह्ये हृदये च स्फुरमाणत्वात् । सङ्कल्पो ऽपि हि बाह्यं घटादिकं हृदयस्थं सुखादिकं च विषयीकरोति । मनः किं यथा । नभो यथा । यथा नभः सर्वत्रैव स्थितं भवति । तथेत्य् अर्थः
manaḥ bāhye sadrūpaṃ na vidyate bāhyendriyaiḥ adṛśyamānatvāt | hṛdaye 'pi hṛdayadeśe 'pi | sadrūpaṃ na vidyate | na hi hṛdayadeśe mano nāma kiñcil labhyate | he rāma | tvam | etat manaḥ | sarvatraiva bāhye hṛdaye ca | sthitaṃ viddhi jānīhi | saṅkalpākhyasya tatkāryasya bāhye hṛdaye ca sphuramāṇatvāt | saṅkalpo 'pi hi bāhyaṃ ghaṭādikaṃ hṛdayasthaṃ sukhādikaṃ ca viṣayīkaroti | manaḥ kiṃ yathā | nabho yathā | yathā nabhaḥ sarvatraiva sthitaṃ bhavati | tathety arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.