हि यस्मात् कारणात् । दृश्याद् ऋते किञ्चित् दृश्यव्यतिरिक्तं किञ्चित् । मनसः रूपं । हि निश्चयेन । नास्ति । अतः मनसः दृश्यपर्यायत्वं युक्तम् इति भावः । ननु ततो ऽपि किम् इत्य् । अत्राह दृश्यं चेति । एतत् दृश्यं च उत्पन्नं न भवति । पूर्वम् उक्तत्वात् । अतः मनः अपि अनुत्पन्नम् एव भवतीति भावः । ननु दृश्यानुत्पन्नत्वे मम पूर्वं निश्चयो न जात इत्य् अत्राहेतीति । अहम् इति एतत् दृश्यानुत्पन्नत्वम् । पुनः वक्ष्यामि । दुर्बोधत्वाद् इति भावः
hi yasmāt kāraṇāt | dṛśyād ṛte kiñcit dṛśyavyatiriktaṃ kiñcit | manasaḥ rūpaṃ | hi niścayena | nāsti | ataḥ manasaḥ dṛśyaparyāyatvaṃ yuktam iti bhāvaḥ | nanu tato 'pi kim ity | atrāha dṛśyaṃ ceti | etat dṛśyaṃ ca utpannaṃ na bhavati | pūrvam uktatvāt | ataḥ manaḥ api anutpannam eva bhavatīti bhāvaḥ | nanu dṛśyānutpannatve mama pūrvaṃ niścayo na jāta ity atrāhetīti | aham iti etat dṛśyānutpannatvam | punaḥ vakṣyāmi | durbodhatvād iti bhāvaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.