भानुः सूर्यः । अहोरचनाभ्रमम् दिननिर्माणार्थं भ्रमणम् । तत्याज त्यक्तवान् । तथा शून्यं । अत एव एकान्तम् विजनम् । अस्तगिरेः तटम् अगमत् गतवान् । किं कर्तुम् इव । श्रुतम् श्रवणविषयीकृतम् मुनिवाक्कदम्बकम् । चिन्तयितुम् इव मननविषयीकर्तुम् इव । यो ऽपि हि श्रुतं किञ्चिद् उपदेशादिकं चिन्तयितुम् इच्छति सो ऽपि क्रियारूपम् भ्रमम् त्यजति । एकान्तं च गच्छति
bhānuḥ sūryaḥ | ahoracanābhramam dinanirmāṇārthaṃ bhramaṇam | tatyāja tyaktavān | tathā śūnyaṃ | ata eva ekāntam vijanam | astagireḥ taṭam agamat gatavān | kiṃ kartum iva | śrutam śravaṇaviṣayīkṛtam munivākkadambakam | cintayitum iva mananaviṣayīkartum iva | yo 'pi hi śrutaṃ kiñcid upadeśādikaṃ cintayitum icchati so 'pi kriyārūpam bhramam tyajati | ekāntaṃ ca gacchati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.