वायवः मधुरस्पन्दम् कोमलस्पन्दम् । ववुः वान्ति स्म । कथम्भूताः । उत्फुल्लाः ये कमलप्रकराः कमलसमूहाः । तेषु उन्मदाः सङ्कोचकारित्वात् उद्गतरूपाः च ते मांसलाश् च । तादृशाः वायवः । कथम्भूता इव । श्रवणार्थम् मुनिवाक्श्रवणार्थम् । आगता इव । यो ऽपि श्रवणार्थम् आगच्छति सो ऽपि मधुरस्पन्दम् एव वाति
vāyavaḥ madhuraspandam komalaspandam | vavuḥ vānti sma | kathambhūtāḥ | utphullāḥ ye kamalaprakarāḥ kamalasamūhāḥ | teṣu unmadāḥ saṅkocakāritvāt udgatarūpāḥ ca te māṃsalāś ca | tādṛśāḥ vāyavaḥ | kathambhūtā iva | śravaṇārtham munivākśravaṇārtham | āgatā iva | yo 'pi śravaṇārtham āgacchati so 'pi madhuraspandam eva vāti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.