वाचः समस्ताः लौकिकाः वैदिकाश् च वाचः । यतः यस्मात् परमात्मनः । निवर्तन्ते । वाक् हि सङ्केतं पुरस्कृत्य वस्तुनि प्रवर्तते । सङ्केतश् च परमात्मनि कर्तुम् अशक्यः । बाह्यान्तःकरणागोचरत्वात् । इन्द्रियगोचरे एव वस्तुनि हस्तग्राहिकया सङ्केतकरणं दृश्यते । तर्हि असौ नास्तीत्य् । अत्राह यो मुक्तैर् इति । मुक्तैः एव दृश्यानासक्तचित्तैः एव । न तु लौकिकैः । यः अवगम्यते आत्मतया ज्ञायते । मुक्ताः हि शुद्धं किम् अपि तत्त्वं आत्मतया जानन्ति । अन्यथा मुक्तत्वायोगात् । तथा चासत्ता अस्य न युक्तेति भावः । ननु वाचां ततः निवर्तनकथनम् अयुक्तं आत्मादिशब्दानां तद्वाचकत्वात् इत्य् । अत्राह यस्य चेति । तत्त्वज्ञैर् इति शेषः । कल्पिताः प्रवृत्तिनिमित्तम् अनपेक्ष्यैव तैलपायिकादिसञ्ज्ञावत् कल्पनया स्थापिताः
vācaḥ samastāḥ laukikāḥ vaidikāś ca vācaḥ | yataḥ yasmāt paramātmanaḥ | nivartante | vāk hi saṅketaṃ puraskṛtya vastuni pravartate | saṅketaś ca paramātmani kartum aśakyaḥ | bāhyāntaḥkaraṇāgocaratvāt | indriyagocare eva vastuni hastagrāhikayā saṅketakaraṇaṃ dṛśyate | tarhi asau nāstīty | atrāha yo muktair iti | muktaiḥ eva dṛśyānāsaktacittaiḥ eva | na tu laukikaiḥ | yaḥ avagamyate ātmatayā jñāyate | muktāḥ hi śuddhaṃ kim api tattvaṃ ātmatayā jānanti | anyathā muktatvāyogāt | tathā cāsattā asya na yukteti bhāvaḥ | nanu vācāṃ tataḥ nivartanakathanam ayuktaṃ ātmādiśabdānāṃ tadvācakatvāt ity | atrāha yasya ceti | tattvajñair iti śeṣaḥ | kalpitāḥ pravṛttinimittam anapekṣyaiva tailapāyikādisañjñāvat kalpanayā sthāpitāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.