तच्चित्ताः । तस्मिन् स्वात्मविचारे । चित्तं येषां । ते । तादृशाः । तथा तस्मिन् स्वात्मविचारे । गताः निष्ठां गताः । प्राणाः बाह्येन्द्रियाणि येषां । ते । तादृशाः । तथा तम् आत्मविचारं । परस्परम् बोधयन्तः । तथा तं आत्मविचारं । कथयन्तश् च ये साधवः । तुष्यन्ति तुष्टियुक्ताः भवन्ति । तथा रमयन्ति अन्यान् तुष्टियुक्तान् सम्पादयन्ति । आत्मज्ञानैकनिष्ठानां आत्मविचारैकपराणां । तेषां पुरुषाणाम् । आत्मज्ञानविचारणात् सा जीवन्मुक्तता उदेति प्रादुर्भवति । या विदेहमुक्ततैव भवति । निःशेषं देहाभिमानाभावात्
taccittāḥ | tasmin svātmavicāre | cittaṃ yeṣāṃ | te | tādṛśāḥ | tathā tasmin svātmavicāre | gatāḥ niṣṭhāṃ gatāḥ | prāṇāḥ bāhyendriyāṇi yeṣāṃ | te | tādṛśāḥ | tathā tam ātmavicāraṃ | parasparam bodhayantaḥ | tathā taṃ ātmavicāraṃ | kathayantaś ca ye sādhavaḥ | tuṣyanti tuṣṭiyuktāḥ bhavanti | tathā ramayanti anyān tuṣṭiyuktān sampādayanti | ātmajñānaikaniṣṭhānāṃ ātmavicāraikaparāṇāṃ | teṣāṃ puruṣāṇām | ātmajñānavicāraṇāt sā jīvanmuktatā udeti prādurbhavati | yā videhamuktataiva bhavati | niḥśeṣaṃ dehābhimānābhāvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.