जीवन्मुक्तस्येत्य् अत्र चशब्दो ऽध्याहार्यः । यते यत्नं करोमि । लक्षणम् स्वरूपप्रतिष्ठापकः धर्मः । धिया बुद्ध्या । कथम्भूतया । शास्त्रम् एव दृक् नेत्रे । यस्याः । सा । तादृश्या । शास्त्रानुसारिण्येत्य् अर्थः
jīvanmuktasyety atra caśabdo 'dhyāhāryaḥ | yate yatnaṃ karomi | lakṣaṇam svarūpapratiṣṭhāpakaḥ dharmaḥ | dhiyā buddhyā | kathambhūtayā | śāstram eva dṛk netre | yasyāḥ | sā | tādṛśyā | śāstrānusāriṇyety arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.