वित्त्वं वेत्तीति यावत् । अन्तः भवति । सर्वस्य दृश्यजातस्य पर्यवसानरूपं भवति । महाप्रलये शिष्यते इति यावत् । कथम्भूतं । अजम् सर्वदैव वर्तमानत्वात् । अजरं शरीरव्यतिरिक्तत्वात् । अजाड्यं मनोव्यतिरिक्तत्वात् । शाश्वतं विश्वात्मकत्वे ऽपि स्वरूपाद् अच्युतत्वात् । ब्रह्म जगद्रूपेण बृंहणात् । नित्यं कालत्रयानपायित्वात् । शिवं सुखैकरूपत्वात् । अमलं भेदमालिन्यरहितत्वात् । अनाद्यं कस्यापि तदाद्यत्वेनावर्तमानत्वात् । वन्ध्यवेद्यैः व्यर्थवेद्यैर् । अनिन्द्यम् अकदर्थितं । तत्स्थैर् भावाभावैर् अदूषितत्वात् । सकलकलनशून्यं निर्विकल्पस्वरूपत्वात् । कारणानां कारणत्वेनाभिमतानां ब्रह्मादीनां । कारणं । तेषाम् अप्य् आकृतिमत्त्वेन सकारणत्वात् । अनुभवनम् अनुभवस्वरूपं । अनुभव एव पूर्वोक्तविशेषाणां सम्भवात् । अनुभवस्वरूपत्वे ऽपि वेद्यमालिन्यम् आशङ्क्याहावेद्यम् इति । अवेद्यं वेद्यस्पर्शादूषितं । वेदनम् । अचेत्यचिद्रूपम् इति यावत् । इति शिवम्
vittvaṃ vettīti yāvat | antaḥ bhavati | sarvasya dṛśyajātasya paryavasānarūpaṃ bhavati | mahāpralaye śiṣyate iti yāvat | kathambhūtaṃ | ajam sarvadaiva vartamānatvāt | ajaraṃ śarīravyatiriktatvāt | ajāḍyaṃ manovyatiriktatvāt | śāśvataṃ viśvātmakatve 'pi svarūpād acyutatvāt | brahma jagadrūpeṇa bṛṃhaṇāt | nityaṃ kālatrayānapāyitvāt | śivaṃ sukhaikarūpatvāt | amalaṃ bhedamālinyarahitatvāt | anādyaṃ kasyāpi tadādyatvenāvartamānatvāt | vandhyavedyaiḥ vyarthavedyair | anindyam akadarthitaṃ | tatsthair bhāvābhāvair adūṣitatvāt | sakalakalanaśūnyaṃ nirvikalpasvarūpatvāt | kāraṇānāṃ kāraṇatvenābhimatānāṃ brahmādīnāṃ | kāraṇaṃ | teṣām apy ākṛtimattvena sakāraṇatvāt | anubhavanam anubhavasvarūpaṃ | anubhava eva pūrvoktaviśeṣāṇāṃ sambhavāt | anubhavasvarūpatve 'pi vedyamālinyam āśaṅkyāhāvedyam iti | avedyaṃ vedyasparśādūṣitaṃ | vedanam | acetyacidrūpam iti yāvat | iti śivam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.