------------------ दर्शपूर्णमासयोराम्नायते - "देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् , पूष्णो हस्ताभ्याम्, अग्नये जुष्टं र्निवपामि"इति । तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति । कुतः । एकत्वनियामकस्य दुर्वोधत्वात् । अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत् । न । एकस्मिन्पदे ऽतिव्याप्तेः । पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात् - इति चेत् । मैवम् । ऽ यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम् ऽ इति प्रयोजकस्य बोद्धुं शक्यत्वात् । ऽविभागे साकाङ्क्षम् ऽ इत्युक्ते ऽतिव्याप्तिः स्यात् । "स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिठ व्रीहीणां मेध सुमनस्यमानः"इत्यत्र ऽतस्मिन्ऽ - इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्कत्वमस्ति, अतस्तद्व्यवच्छेत्तुम् ऽएकार्थम् ऽ इत्युच्यते । नहि तत्रैकार्थत्वमस्ति । पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम् । स्योनं समीचीनम् । सुसेवं सुष्ठु सेवितुं योग्यम् । मेध सारभूतपुरोडाशेत्यर्थः । अत्र द्वयोः समृहयोर्वाक्यद्वयमुभयवादिसिद्धम् । तत् ऽ एकार्थम् ऽ इत्यनेन व्यावर्त्यते । ऽ एकार्थम् ऽ इत्युक्ते ऽतिव्याप्तिः स्यात् । "भगो वां विभजतु, पूषा वां विभजतु"इत्यनयोर्विभजनमन्त्रत्वेन संमतयोः पदसमूबयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात् , तद्रव्यवच्छेत्तुं ऽ विभागे साकाङ्क्षम् ऽ इत्युक्तम् । प्रकृते तु ऽ अग्नये जुष्टम् ऽ इत्यादिसमूहे पृथक्कृते पूर्वो ऽ देवस्य त्वा ऽइति समूहः साकाङ्क्षो भवति । एकीकृते तु कृत्स्नस्यैक एव निर्वापोर्ऽथः । एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषो ऽवसानं निश्चेतुं शक्यम्
------------------ darśapūrṇamāsayorāmnāyate - "devasya tvā savituḥ prasave, aśvinorbāhubhyām , pūṣṇo hastābhyām, agnaye juṣṭaṃ rnivapāmi"iti | tatra vākyāni bhinnāni bhavitumarhanti | kutaḥ | ekatvaniyāmakasya durvodhatvāt | arthaikyaṃ vākyaikye prayojakamiti cet | na | ekasminpade 'tivyāpteḥ | padasamūhasya vākyatve, samūhānāmatra bahūnāṃ saṃbhavādvākyabhedaḥ syāt - iti cet | maivam | ' yadvibhāge sākāṅkṣamavibhāge caikārtham, tadekaṃ vākyam ' iti prayojakasya boddhuṃ śakyatvāt | 'vibhāge sākāṅkṣam ' ityukte 'tivyāptiḥ syāt | "syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā susevaṃ kalpayāmi, tasminsīdāmṛte pratitiṭha vrīhīṇāṃ medha sumanasyamānaḥ"ityatra 'tasmin' - ityādipadasamūhasya vibhāge sati prakṛtavācitacchabdārthanirṇayāya pūrvapadasamūhasākāṅkatvamasti, atastadvyavacchettum 'ekārtham ' ityucyate | nahi tatraikārthatvamasti | pūrvasamūhasya sadanakaraṇamarthaḥ, uttarasamūhasya puroḍāśapratiṣṭhāpanam | syonaṃ samīcīnam | susevaṃ suṣṭhu sevituṃ yogyam | medha sārabhūtapuroḍāśetyarthaḥ | atra dvayoḥ samṛhayorvākyadvayamubhayavādisiddham | tat ' ekārtham ' ityanena vyāvartyate | ' ekārtham ' ityukte 'tivyāptiḥ syāt | "bhago vāṃ vibhajatu, pūṣā vāṃ vibhajatu"ityanayorvibhajanamantratvena saṃmatayoḥ padasamūbayostātparyaviṣayasya dravyavibhāgarūpasyārthasyaikatvāt , tadravyavacchettuṃ ' vibhāge sākāṅkṣam ' ityuktam | prakṛte tu ' agnaye juṣṭam ' ityādisamūhe pṛthakkṛte pūrvo ' devasya tvā 'iti samūhaḥ sākāṅkṣo bhavati | ekīkṛte tu kṛtsnasyaika eva nirvāpor'thaḥ | etenaikavākyatvanirṇayenāniyataparimāṇasya yajuṣo 'vasānaṃ niścetuṃ śakyam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.