------------------ दर्शपूर्णमासप्रकरणे ऽविश्वरूपो वै त्वाष्ट्रः"- इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः- सामिधेनीब्राह्मणमाम्नातम् । नवमे - निवित्संज्ञकानाम्"अग्ने महां असि ब्राह्मणभारतऽ - इत्यादीनां मन्त्राणां ब्राह्मणम् । दशमे - काम्याः सामिधेनीपक्षाः । एकादशे तु - उपवीतमेवं विहितम् - ऽनिवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते"इति । तत्र - पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम् - इति चेत् । न । निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् । न च - निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम् - इति वाच्यम् । लिङ्गेन निविदामग्न्यङ्गत्वावगमात् । आहुत्यधिकरणभूतमग्निं संबोध्य"महानसि"-इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते । अत एव निर्वचनमेवं श्रूयते -"निविद्भर्न्यवेदयेत्, तन्निविदां निवित्त्वम्"इति । ननु - ऽसम्यगिध्यते ऽग्निर्याभिऋग्भिस्ताः सामिधेन्यःऽ इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव - इति चेत् । सन्तु नाम । नैतावता परस्परमङ्गाङ्गिभावः । ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निबिदङ्गत्वं स्यात् - इति चेत् । न । पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात् । संनिधिना तदङ्गत्वम् - इति चेत् । न । काम्यसामिधेनीभिर्व्यवधानात् । न च काम्यसामिधेन्यङ्गता शङ्कनीया । संनिधितः प्रकरणस्य प्रबलत्वात् । तस्मात् - इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम्
------------------ darśapūrṇamāsaprakaraṇe 'viśvarūpo vai tvāṣṭraḥ"- ityasminprapāṭhake saptamāṣṭamayoranuvākayoḥ- sāmidhenībrāhmaṇamāmnātam | navame - nivitsaṃjñakānām"agne mahāṃ asi brāhmaṇabhārata' - ityādīnāṃ mantrāṇāṃ brāhmaṇam | daśame - kāmyāḥ sāmidhenīpakṣāḥ | ekādaśe tu - upavītamevaṃ vihitam - 'nivītaṃ manuṣyāṇām, prācīnāvītaṃ pitṝṇām, upavītaṃ devānām, upavyayate devalakṣmameva tatkurute"iti | tatra - pūrvanyāyena sāmidhenīprakaraṇasyāvāntarasyāṅgīkārātsāmidhenyaṅgamupavītam - iti cet | na | nividbrāhmaṇena sāmidhenīprakaraṇasya viccheditatvāt | na ca - nividāmapi sāmidhenyaṅgatayā tatprakaraṇapāṭhādavicchedakatvam - iti vācyam | liṅgena nividāmagnyaṅgatvāvagamāt | āhutyadhikaraṇabhūtamagniṃ saṃbodhya"mahānasi"-ityādibhirnividvākyairagnerutsāhajananāya tadguṇā āvedyante | ata eva nirvacanamevaṃ śrūyate -"nividbharnyavedayet, tannividāṃ nivittvam"iti | nanu - 'samyagidhyate 'gniryābhiṛgbhistāḥ sāmidhenyaḥ' iti vyutpattyā tā apyatra jvalanadvāreṇāgnyarthā eva - iti cet | santu nāma | naitāvatā parasparamaṅgāṅgibhāvaḥ | nanu vicchidyatāṃ sāmidhenīprakaraṇam, nivitprakaraṇenopavītasya nibidaṅgatvaṃ syāt - iti cet | na | pūrvottarānuvākayornividāmaśravaṇena prakaraṇābhāvāt | saṃnidhinā tadaṅgatvam - iti cet | na | kāmyasāmidhenībhirvyavadhānāt | na ca kāmyasāmidhenyaṅgatā śaṅkanīyā | saṃnidhitaḥ prakaraṇasya prabalatvāt | tasmāt - iha prayājanyāyābhāvānmahāprakaraṇena darśapūrṇamāsāṅgamupavītam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.