------------------ ऽममाग्ने वर्चो विहवेष्वस्तुऽ इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रो ऽध्व- । र्पुणा पठ्यते । ऽविशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तुऽ इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम्- इति चेत् । मैवम् । ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते । न च परिक्रीतस्याध्वर्योर्दक्षिणातिक्तफलसंबन्धो न्याय्यः । तस्मात्- श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् । ऽमदीययजमानस्य तद्वर्चो ऽस्तुऽ इति ह्युपचारः । तस्मात्- यजमानेन पाठ्येषु ऽआयुर्दा अग्ने ऽस्यायुर्मे देहिऽ इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव
------------------ 'mamāgne varco vihaveṣvastu' ityayamāhavanīyasyānvādhāne karaṇabhūto mantro 'dhva- | rpuṇā paṭhyate | 'viśiṣṭaṃ havanaṃ yeṣāṃ yajñānāṃ te vihavāsteṣu varcastejasopalakṣitaṃ yatphalaṃ tanmamāstu' ityanena liṅgena mantramuccārayituradhvaryostatphalam- iti cet | maivam | 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityātmanepadaśrutyā sāṅgapradhānaphalasya yajamānagāmitvaṃ pratīyate | na ca parikrītasyādhvaryordakṣiṇātiktaphalasaṃbandho nyāyyaḥ | tasmāt- śrutinyāyābhyāṃ viruddhaṃ talliṅgaṃ yajamānaparatvenopacaraṇīyam | 'madīyayajamānasya tadvarco 'stu' iti hyupacāraḥ | tasmāt- yajamānena pāṭhyeṣu 'āyurdā agne 'syāyurme dehi' ityādiṣu kriyamāṇānuvādiṣu pratyagāśīrmantreṣu śrutaṃ phalaṃ yathā yājamānam, tathaivādhvaryuṇā pāṭhyeṣu karaṇamantreṣu śrutamapi phalaṃ yājamānameva
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.