------------------ इदमाम्नायते- ऽसमे दर्शपूर्णमासाभ्यां यजेतऽ, ऽप्राचीनप्रवणे वैश्वदेवेन यजेतऽ ऽपौर्णमास्यां पौर्णमास्या यजेतऽ ऽअमावास्यायाममावास्यया यजेतऽ ऽपशुबन्धस्य यज्ञक्रतोः षडृत्विजःऽ ऽदर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजःऽ ऽचातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजःऽ ऽअग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्ऽ ऽसौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदर्शीत्वजःऽ ऽसोमेन यजेतऽ इति । क्रतुशब्दे मानस उपासने ऽपि वर्तते । ऽस क्रतुं कुर्क्षीत मनोमयः प्राणशरीरःऽ इत्यत्र क्रतुशब्देन ध्यानविधानात् । तद्व्यावृत्तये ऽयज्ञक्रतोःऽ इति विशेष्यते । तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते । कुतः । प्राप्तत्वात् । न हि देशादिभिर्विना प्रयोगः संभवति । अतोर्ऽथापत्त्या तत्प्राप्तिः- इति चेत् । मैवम् । अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः । विषमदेशादीनामपि संभवात् । ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते
------------------ idamāmnāyate- 'same darśapūrṇamāsābhyāṃ yajeta', 'prācīnapravaṇe vaiśvadevena yajeta' 'paurṇamāsyāṃ paurṇamāsyā yajeta' 'amāvāsyāyāmamāvāsyayā yajeta' 'paśubandhasya yajñakratoḥ ṣaḍṛtvijaḥ' 'darśapūrṇamāsayoryajñakratvoścatvāra ṛtvijaḥ' 'cāturmāsyānāṃ yajñakratūnāṃ pañcartvijaḥ' 'agnihotrasya yajñakratoreka ṛtvik' 'saumyasyādhvarasya yajñakratoḥsaptadarśītvajaḥ' 'somena yajeta' iti | kratuśabde mānasa upāsane 'pi vartate | 'sa kratuṃ kurkṣīta manomayaḥ prāṇaśarīraḥ' ityatra kratuśabdena dhyānavidhānāt | tadvyāvṛttaye 'yajñakratoḥ' iti viśeṣyate | tatra deśakālakartṛdravyāṇi na vidhīyante, kiṃtvanuśrūyante | kutaḥ | prāptatvāt | na hi deśādibhirvinā prayogaḥ saṃbhavati | ator'thāpattyā tatprāptiḥ- iti cet | maivam | arthāpattyā pākṣikī samadeśādiprāptiḥ | viṣamadeśādīnāmapi saṃbhavāt | tato yasminpakṣe prāptirnāsti tasminpakṣe samadeśādayo vidhīyante
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.