Library·Madhava: Jaiminiyanyayamalavistara [MJaiNyC]·4·4.4

Madhava: Jaiminiyanyayamalavistara [MJaiNyC] 4.4

------------------ राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताः- ऽअनुमत्यै पुरोडाशमष्टाकपालं निर्वपतिऽ ऽनैऋतमेककपालम्ऽ ऽआदित्यं चरु निर्वपतिऽ ऽआग्नावैष्णवमेकादशकपालम्ऽ इत्यादयः । यथैता इष्टयः, तथा पशवो ऽपि श्रुताः- ऽआदित्यां मल्हां गर्भिणीमालभते, ऽ ऽमारुतीं पृश्रिम्ऽ ऽप्रष्ठौहीमश्विभ्याम्ऽ इत्यादि । मल्हा मणिला गलस्तनयुक्तेत्यर्थः । तस्या अदितिर्देवता । पृश्रिरल्पतनुः । तस्या मरुतो देवता । यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही । तस्या आश्विनौ देवता । एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः । तथा ऽवल्मीकवपायां होमःऽ इत्यादयो दर्विहोमाः । यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताः- ऽप्रष्ठौहीं दीव्यतिऽ ऽअक्षैर्दीव्यतिऽ ऽराजन्यं जिनातिऽ ऽशौनः शेपमा ख्यापयतिऽ इत्यादयः । तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम् । प्रकरणपाठस्योभयत्र समानत्वात्- इति प्राप्ते, ब्रूमः- ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्राऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम् । राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति । तथा सति ऽराजसूयेन यागेन स्वाराज्यं भावयेत्ऽ इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम्

------------------ rājasūyaprakaraṇe yāgarūpā anumatyādayo bahavaḥ śrutāḥ- 'anumatyai puroḍāśamaṣṭākapālaṃ nirvapati' 'naiṛtamekakapālam' 'ādityaṃ caru nirvapati' 'āgnāvaiṣṇavamekādaśakapālam' ityādayaḥ | yathaitā iṣṭayaḥ, tathā paśavo 'pi śrutāḥ- 'ādityāṃ malhāṃ garbhiṇīmālabhate, ' 'mārutīṃ pṛśrim' 'praṣṭhauhīmaśvibhyām' ityādi | malhā maṇilā galastanayuktetyarthaḥ | tasyā aditirdevatā | pṛśriralpatanuḥ | tasyā maruto devatā | yāvatā vayasā varṣatrayarūpeṇa pṛṣṭhe bhāraṃ voḍhuṃ śaktirbhavati, tāvadvayaskā praṣṭhauhī | tasyā āśvinau devatā | evamabhiṣecanīyadaśapeyādayaḥ somayāgāḥ śrutāḥ | tathā 'valmīkavapāyāṃ homaḥ' ityādayo darvihomāḥ | yathaita iṣṭipaśusomadarvihomāścaturvidhā yāgarūpāḥ, evamayāgarūpā api dyūtādayaḥ śrutāḥ- 'praṣṭhauhīṃ dīvyati' 'akṣairdīvyati' 'rājanyaṃ jināti' 'śaunaḥ śepamā khyāpayati' ityādayaḥ | tatra yāgā yathā mukhyāḥ, tathā devanādīnāmapi mukhyatvaṃ yuktam | prakaraṇapāṭhasyobhayatra samānatvāt- iti prāpte, brūmaḥ- 'rājā svārājyakāmo rājasūyena yajeta' ityatrā'khyātavācyāyāṃ bhāvanāyāṃ dhātuvācyo yāgaḥ karaṇam | rājasūyaśabdaścāprasiddhārthatvādyāgasāmānādhikaraṇyena tannāmadheyaṃ bhavati | tathā sati 'rājasūyena yāgena svārājyaṃ bhāvayet' iti vākyārthaparyavasānādanumatyādīnāṃ yāgānāmeva phalavattvādaṅgitvam, tatsaṃnidhau śrūyamāṇamaphalaṃ devanādikaṃ yāgāṅgam

Sanskrit only: no published translation is held for this verse.

------------------ यदेतत्-देवनादिकमङ्गम्- इत्युक्तम्, तदेतभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम् । कुतः । अपकर्षात् । यद्यपि- अभिषेचनीयविधेरूर्ध्वे तत्संनिधौ देवनादयः समाम्नाताः, तथापि- अभिषेचनीयमध्वे ते ऽपकृष्यन्ते । ऽमाहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यतेऽ इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकाले ऽपकृष्यते । तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धो ऽपकर्षः । ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तः पातित्वाद्देवनादिकमभिषेचनीय स्वैवाङ्गम्- इति प्राप्ते,- ब्रूमः- किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तर प्रकरणम् । उभयथापि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम् । राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते । तस्मात्सर्वेषामेतदङ्गम् । अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते

------------------ yadetat-devanādikamaṅgam- ityuktam, tadetabhiṣecanīyasya somayāgasyaikasyaivāṅgam | kutaḥ | apakarṣāt | yadyapi- abhiṣecanīyavidherūrdhve tatsaṃnidhau devanādayaḥ samāmnātāḥ, tathāpi- abhiṣecanīyamadhve te 'pakṛṣyante | 'māhendrasya stotraṃ pratyabhiṣicyate' iti vākyena rājño yajamānasyābhiṣeko mādhyaṃdinasavane stotrakāle 'pakṛṣyate | tasminnapakṛṣṭe sati tataḥ pūrvamāmnātānāṃ devanādīnāmarthasiddho 'pakarṣaḥ | tato māhendrastotrādivadabhiṣecanīyaprayogāntaḥ pātitvāddevanādikamabhiṣecanīya svaivāṅgam- iti prāpte,- brūmaḥ- kiṃ tadaṅgatve saṃnidhiḥ pramāṇam, kiṃvā prayogaparikalpitamavāntara prakaraṇam | ubhayathāpi pratyakṣasya mahāprakaraṇasya prabalatvāddevanādikaṃ rājasūyasyāṅgam | rājasūyaśabdaścānumatyādīnsarvānyāgānabhidhatte | tasmātsarveṣāmetadaṅgam | anuṣṭhānaṃ tu rājasūyamadhye kvacidapekṣitamiti vacanabalādabhiṣecanīyagatamāhendrastotrakāle tadanuṣṭhīyate

Sanskrit only: no published translation is held for this verse.

------------------ राजसूये संसृच्छब्दवाच्यान्याग्नेयाष्टाकपालादीनि । तेष्वष्टमनवमदशमानि सौम्य- त्वाष्ट्र-वैष्णवानि । तद्विषयमिदं वाक्यमाम्नायते- ऽपुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेनऽ इति । यो ऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते । ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि- इति प्राप्ते, ब्रूमः- ऽउपसदाम्ऽ इति षष्ठ्याः कालवाचिना ऽपुरस्तात्ऽ इति शब्देनान्वयात् । सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम् । ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम्

------------------ rājasūye saṃsṛcchabdavācyānyāgneyāṣṭākapālādīni | teṣvaṣṭamanavamadaśamāni saumya- tvāṣṭra-vaiṣṇavāni | tadviṣayamidaṃ vākyamāmnāyate- 'purastādupasadāṃ saumyena pracaranti, antarā tvāṣṭreṇa, upariṣṭādvaiṣṇavena' iti | yo 'yaṃ rājasūye somayāgaḥ, tasminnatidiṣṭānāmupasadāmādimadhyāvasāneṣu saumyādīnāṃ trayāṇāmanuṣṭhānamanena vākyena codyate | tato vākyātsaumyādīnyupasadāmaṅgāni- iti prāpte, brūmaḥ- 'upasadām' iti ṣaṣṭhyāḥ kālavācinā 'purastāt' iti śabdenānvayāt | saumyādīnāṃ kālaviśeṣasaṃbandhaparamidaṃ vākyam, na tvaṅgāṅgibhāvaparam | tato na kasyāpyaṅgaṃ saumyādikam, kiṃtu- anumatyādivatpradhānam

Sanskrit only: no published translation is held for this verse.

------------------ काम्येष्टिकाण्डे श्रूयते- ऽवैश्वदेवीं सांग्रहणीं निर्वपेद्प्रामकायः ऽ इति । तत्र- आमनहोमाः श्रुताः- ऽआमनस्य- आमनस्य देवाः- इति तिस्त्र आहुतीजुहोतिऽ इति । त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः । न हि तेषां मुख्यत्वे कश्चिद्विरोधो ऽस्ति । दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वम्- इति चेत् । मैवम् । ऽदर्शपूर्णमासाभ्यां स्वर्गकामःऽ इति वाक्येन ऽस्वाराज्यकामो राजसूयेनऽ इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, तथाऽमनहोमानाम् । फलसंबन्धाभावे सति प्राधान्यायोगात् । ऽसांग्रहणीं निर्वपेद्ग्रामकामःऽ इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम्

------------------ kāmyeṣṭikāṇḍe śrūyate- 'vaiśvadevīṃ sāṃgrahaṇīṃ nirvapedprāmakāyaḥ ' iti | tatra- āmanahomāḥ śrutāḥ- 'āmanasya- āmanasya devāḥ- iti tistra āhutījuhoti' iti | ta eta āmanahomāḥ sāṃgrahaṇyeṣṭyā saha samapradhānabhūtāḥ | na hi teṣāṃ mukhyatve kaścidvirodho 'sti | dṛṣṭaṃ hyāgneyādiṣvanumatyādiṣu ca bahūnāṃ mukhyatvam- iti cet | maivam | 'darśapūrṇamāsābhyāṃ svargakāmaḥ' iti vākyena 'svārājyakāmo rājasūyena' iti vākyena ca yathā bahūnāṃ phalasaṃbandhāvagamaḥ, tathā'manahomānām | phalasaṃbandhābhāve sati prādhānyāyogāt | 'sāṃgrahaṇīṃ nirvapedgrāmakāmaḥ' iti vākyaṃ tu sāṃgrahaṇyāḥ saṃnidhāvāmnātā aphalā āmanahomāstadaṅgam

Sanskrit only: no published translation is held for this verse.

------------------ ज्योतिष्टोमे श्रूयते- ऽयां वै कांचिदध्वर्युयजमानश्च देवतामन्तरीतः, तस्या आवृश्च्येते । यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्ऽ इति सो ऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः । कुतः । आकारद्वयसाधकसद्भावात् । देवतान्तरायेण तद्देवताक्षोभनुपन्यस्य ग्रहेण शमनाभिधानात् । अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति । तथा ज्येष्ठत्वमाम्नातम्- ऽज्येष्ठो वा एष ग्रहाणाम्ऽ इति । ज्येष्ठत्वं नाम पशस्तत्वम् । तच्च नित्यत्वे सत्युपपद्यते । नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् । तस्मात्- हेतुद्वयबलादुभयात्मकः- इति चेत् । मैवम् । देवतान्तरायस्य निमित्तत्वाभावात् । निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयते । यच्छब्दो वान्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत । ऽयदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गरहान्गृह्णीयात्ऽ ऽभिन्ने जुहोति, यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुतेऽ इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् । तस्मात्- केवलनित्यत्वमेव दधिग्रहस्योचितम् । देवतास्त्रोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेर्ऽथवादः

------------------ jyotiṣṭome śrūyate- 'yāṃ vai kāṃcidadhvaryuyajamānaśca devatāmantarītaḥ, tasyā āvṛścyete | yatprājāpatyaṃ dadhigrahaṃ gṛhṇāti, śamayatyevainām' iti so 'yaṃ dadhigraho nityo naimittikaścetyubhayātmakaḥ | kutaḥ | ākāradvayasādhakasadbhāvāt | devatāntarāyeṇa taddevatākṣobhanupanyasya graheṇa śamanābhidhānāt | antarāyo nimittam, graho naimittika iti pratibhāti | tathā jyeṣṭhatvamāmnātam- 'jyeṣṭho vā eṣa grahāṇām' iti | jyeṣṭhatvaṃ nāma paśastatvam | tacca nityatve satyupapadyate | naimittikasya pākṣikatvādapraśastatvam | tasmāt- hetudvayabalādubhayātmakaḥ- iti cet | maivam | devatāntarāyasya nimittatvābhāvāt | nimittatve yadiśabda upabadhyeta, saptamī vā śrūyate | yacchabdo vāntarāyakartroradhvaryuyajamānayoḥ sāmānādhikaraṇyena prayujyeta | 'yadi rathaṃtarasāmā somaḥ syādaindravāyavāgrāngarahāngṛhṇīyāt' 'bhinne juhoti, yo vai saṃvatsaramukhyamabhṛtvāgniṃ cinute' ityādiṣu saṃpratipannanimitteṣu taddarśanāt | tasmāt- kevalanityatvameva dadhigrahasyocitam | devatāstrobhatatsamādhānopanyāso vidheyadadhigrahastutayer'thavādaḥ

Sanskrit only: no published translation is held for this verse.

------------------ अग्निचयने श्रूयते-ऽयो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते । यथा सामिनर्भो विपद्यते, तादृगेव तदार्तिमार्छेत् । वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्ऽ इति । उखा पिठरः । तामुखाम् ऽयञ्जानः प्रथमं मनःऽ इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा पश्चादिष्टकाभिरग्निश्चेतव्यः । अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात् । ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्, इत्यर्थः । अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः- इति चेत् । मैवम् । ऽयः पुमानभृत्वाग्निं चिनुते, स निवपेत्ऽ इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्टयोर्निमित्तनैमित्तिक भावाबभासात् । किंच दधिग्रहस्य नित्वस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम् । इह तु नित्यत्वे प्रमाणभावादेकमेव नैमित्तिकत्वमित्वविरोधः

------------------ agnicayane śrūyate-'yo vai saṃvatsaramukhyamabhṛtvāgniṃ cinute | yathā sāminarbho vipadyate, tādṛgeva tadārtimārchet | vaiśvānaraṃ dvādaśakapālaṃ purastānnirvapet' iti | ukhā piṭharaḥ | tāmukhām 'yañjānaḥ prathamaṃ manaḥ' ityādiprapāṭhakāmnātairmantraiḥ saṃpādya, tasyāmukhāyāmagniṃ nidhāya, ṣaḍudyāme dvādaśodyāme vā śikye tāmukhāmavasthāpya, tacchikyaṃ svakaṇṭhe baddhvā, tamukhyamagniṃ saṃvatsaraṃ bhṛtvā paścādiṣṭakābhiragniścetavyaḥ | abharaṇe tvapūrṇagarbhapātavadvināśaḥ syāt | tato vaiśvānareṣṭiṃ cayanātprāgeva kuryāt, ityarthaḥ | atrāpyantarāyavākyavadabharaṇavākyasyārthavādatvānnityā vaiśvānareṣṭiḥ- iti cet | maivam | 'yaḥ pumānabhṛtvāgniṃ cinute, sa nivapet' iti kartṛsamānādhikṛtayacchabdabalādabharaṇeṣṭayornimittanaimittika bhāvābabhāsāt | kiṃca dadhigrahasya nitvasya pākṣikatvarūpaṃ naimittikatvaṃ viruddham | iha tu nityatve pramāṇabhāvādekameva naimittikatvamitvavirodhaḥ

Sanskrit only: no published translation is held for this verse.

------------------ अग्नौ श्रूयते- ऽसंवत्सरो वा एनं प्रतिष्ठायै नुदते, यो अग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुतेऽ इति । लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टिकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः । तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते । ततः षष्ठी चितिः । तत्र ऽषण्णां पूरणी षष्ठीऽ इति व्युत्पत्तौ पूर्वाः पञ्च चितूरपेक्षत्रे । अन्यथा षट्संख्यापूरकत्वासंभवात् । तस्मात्- एकप्रयोगनियमादितरचितिवन्नित्या- इति चेत् । मैवम् । ऽअग्निं चित्वाऽ इति पूर्वाभिरेव पञ्चमिश्चित्यस्याग्निचयनस्य समाप्तौ स्त्रत्यां पश्चात्- ऽयो ऽत्र न प्रतितिष्ठति, असौ षष्ठीं चिनुतेऽ इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी । ततः- पञ्चचितिको नित्यो ऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम् । पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते । ऽपूर्वाः पञ्च चितयो ऽभिहिताः । अथाभिधास्यमानां षष्ठीं चितिं चिनुते, इति वचनव्यक्तिः

------------------ agnau śrūyate- 'saṃvatsaro vā enaṃ pratiṣṭhāyai nudate, yo agniṃ citvā na pratitiṣṭhati, pañca pūrvāścitayo bhavanti, atha ṣaṣṭhīṃ citiṃ cinute' iti | lāṅgalena kṛṣṭe vyāmamātre bhūpradeśe nānāvidhābhiriṣṭikābhiḥ pakṣyākāreṇa sthānaṃ niṣpādyate, seyaṃ citiḥ | tādṛśyaḥ pañca citayaḥ pūrvāḥ kriyante | tataḥ ṣaṣṭhī citiḥ | tatra 'ṣaṇṇāṃ pūraṇī ṣaṣṭhī' iti vyutpattau pūrvāḥ pañca citūrapekṣatre | anyathā ṣaṭsaṃkhyāpūrakatvāsaṃbhavāt | tasmāt- ekaprayoganiyamāditaracitivannityā- iti cet | maivam | 'agniṃ citvā' iti pūrvābhireva pañcamiścityasyāgnicayanasya samāptau stratyāṃ paścāt- 'yo 'tra na pratitiṣṭhati, asau ṣaṣṭhīṃ cinute' iti kartṛsamānādhikṛtena yacchabdenāpratiṣṭhāṃ nimittīkṛttya vidhānātṣaṣṭhī naimittikī | tataḥ- pañcacitiko nityo 'gniḥ, naimittikastvekacitikaḥ, iti prayogaikyam | pūraṇapratyayastvabhidhānāpekṣayopapadyate | 'pūrvāḥ pañca citayo 'bhihitāḥ | athābhidhāsyamānāṃ ṣaṣṭhīṃ citiṃ cinute, iti vacanavyaktiḥ

Sanskrit only: no published translation is held for this verse.

------------------ इदमाम्नायते- ऽअमावास्यायामपराह्णे पिण्डपितृयच्चेन चरन्तिऽ इति । तत्र-अमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गम्- इति चेत् । मैवम् । अमावास्याशब्दस्य कालवाचित्वात् । कर्मणि त्वयं शब्दो लाक्षणिकः । न च - वाक्येन क्तत्वङ्गत्वाभावे ऽपि प्रकरणेन तद्भेवत्- इति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मात्- अयं पुरुषार्थः

------------------ idamāmnāyate- 'amāvāsyāyāmaparāhṇe piṇḍapitṛyaccena caranti' iti | tatra-amāvāsyāśabdavācye karmaṇi vidhīyamānatvādayaṃ piṇḍapitṛyajñaḥ kratvaṅgam- iti cet | maivam | amāvāsyāśabdasya kālavācitvāt | karmaṇi tvayaṃ śabdo lākṣaṇikaḥ | na ca - vākyena ktatvaṅgatvābhāve 'pi prakaraṇena tadbhevat- iti vācyam | tasyānārabhyādhītatvāt | tasmāt- ayaṃ puruṣārthaḥ

Sanskrit only: no published translation is held for this verse.

------------------ ज्योतिष्टोमे श्रूयते- ऽआश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सबनयिं पशुमुपाकरोतिऽ इति । तत्र- सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते । ततो ऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततो ऽपक्रमणनिवारणरूपदृष्टार्थ लाभाच्च पश्वर्था रशना- इति चेत् । मैवम् । ऽत्रिवृताऽ इति तृतीयया ऽयूपम्ऽ इति द्वितीयया च शेषशेषिभावावनमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था । कालस्तु ऽआश्विनं ग्रहं गृहीत्वा ऽ इत्यनेनैवोपलक्षितः । पश्वनपक्रमणवद्यूपदार्ड्यमपि दृष्टमेव प्रयोजनम् । न च- परिव्याणेन दोर्ढ्य चोदकादेव सिद्धम् - इति वाच्यम् । तस्मिन्सिद्धिसति पुवर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात् । तस्मात् - इयं द्वितीया रशना यूपार्था

------------------ jyotiṣṭome śrūyate- 'āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyā'gneyaṃ sabanayiṃ paśumupākaroti' iti | tatra- savanīyapaśoragnīṣomīyavikṛtitvāccodakaprāptaṃ yūpaparivyāṇaṃ kālopalakṣaṇārthamanūdya parivyāṇottarakāle trivṛdraśanopalakṣitapaśorupākaraṇaṃ vidhīyate | tato 'tra raśanāyāḥ paśvanvayātpaśubandhanena paśoritastato 'pakramaṇanivāraṇarūpadṛṣṭārtha lābhācca paśvarthā raśanā- iti cet | maivam | 'trivṛtā' iti tṛtīyayā 'yūpam' iti dvitīyayā ca śeṣaśeṣibhāvāvanamāt, avyavahitānvayalābhācca raśanā yūpārthā | kālastu 'āśvinaṃ grahaṃ gṛhītvā ' ityanenaivopalakṣitaḥ | paśvanapakramaṇavadyūpadārḍyamapi dṛṣṭameva prayojanam | na ca- parivyāṇena dorḍhya codakādeva siddham - iti vācyam | tasminsiddhisati puvarvidhānādeva dvitīyayā raśanayā parivyāṇāntarāṅgīkārāt | tasmāt - iyaṃ dvitīyā raśanā yūpārthā

Sanskrit only: no published translation is held for this verse.

------------------ अग्नीषोमीयपशौ श्रूयते - ऽयूपस्य स्वरुं करोतिऽ ऽस्वरुणा पशुमनक्तिऽ इति । तत्र - स्वरोर्यूपसंबन्धभिधानाद्यूपाङ्गत्वम् - इति चेत् । मैवम् । ऽस्वरुणा पशुम्ऽ इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संवन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात् । तस्मात्- स्वरुः पश्वङ्गम्

------------------ agnīṣomīyapaśau śrūyate - 'yūpasya svaruṃ karoti' 'svaruṇā paśumanakti' iti | tatra - svaroryūpasaṃbandhabhidhānādyūpāṅgatvam - iti cet | maivam | 'svaruṇā paśum' iti tṛtīyayā dvitīyayā cāṅgāṅgibhāvāvagatau saṃvandhasāmānyavācinyāḥ ṣaṣṭhyā yūpīyacchedanajanyatvābhiprāyeṇāpi netuṃ śakyatvāt | tasmāt- svaruḥ paśvaṅgam

Sanskrit only: no published translation is held for this verse.

------------------ दर्शपूर्ण मासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाऽम्नाताः । आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः । तत्र - आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाऽघारादीनामप्यङ्गीकर्तव्यम् । यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत् । एकप्रकरणपाठश्चोभयत्रापि समानः । तस्मात् - आघारादीनामाग्नेयादीनां च समप्रधान्यम् - इति प्राप्ते - ब्रूमः- ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरण पठितानां सर्वेषां यागानां नामधेयं भवति । दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाऽग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते । ततः ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः । अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः । एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते । ऽचक्षुषी वा एते यज्ञस्य, यदाज्यभागौऽ इत्याज्यभागौ यज्ञशरीरस्याङ्गिनो ऽङ्गत्वेन स्तूयेते । ऽयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतश्चज्ञाय क्रियतेऽ इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते । एवमाघारादिषूदाहार्यम् । एतच्च सति सादृश्ये संभवति । तस्मात् - आधारादीनां नास्ति मुख्यत्वम्

------------------ darśapūrṇa māsayorāghārājyabhāgaprayājānuyājādayaḥ kālasaṃyogamantareṇā'mnātāḥ | āgneyādayaḥ ṣaḍyāgāḥ kālasaṃyogena coditāḥ | tatra - āgneyādīnāṃ yathā prādhānyamaṅgīkṛtam, tathaivā'ghārādīnāmapyaṅgīkartavyam | yathā rājasūye parasparavilakṣaṇānāmiṣṭipaśusomānāṃ bahūnāṃ samaprādhānyam, tadvat | ekaprakaraṇapāṭhaścobhayatrāpi samānaḥ | tasmāt - āghārādīnāmāgneyādīnāṃ ca samapradhānyam - iti prāpte - brūmaḥ- 'rājā svārājyakāmo rājasūyena yajeta' ityatra rājasūyaśabdo rājasaṃbandhātpravartamāno rājakartṛkāṇāmekaprakaraṇa paṭhitānāṃ sarveṣāṃ yāgānāṃ nāmadheyaṃ bhavati | darśapūrṇamāsaśabdau tu kālavācinau santau kālasaṃyogena vihitānāmevā'gneyādīnāṃ ṣaṇṇāṃ yāgānāṃ nāmadheyatāṃ pratipadyete | tataḥ 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti vākyena tannāmadheyavaśādāgneyādayaḥ ṣaḍeva yāgāḥ phalasaṃbandhitvena pratīyamānā mukhyāḥ | anye tvājyabhāgāghārādayastannāmarahitā niṣphalā āgneyādīnāṃ śeṣāḥ | evaṃ satyaṅgatvena stutirupapadyate | 'cakṣuṣī vā ete yajñasya, yadājyabhāgau' ityājyabhāgau yajñaśarīrasyāṅgino 'ṅgatvena stūyete | 'yatprayājānuyājā ijyante varma vā etaścajñāya kriyate' iti yajñaśarīropakārakavarmatvena prayājānuyājāḥ stūyante | evamāghārādiṣūdāhāryam | etacca sati sādṛśye saṃbhavati | tasmāt - ādhārādīnāṃ nāsti mukhyatvam

Sanskrit only: no published translation is held for this verse.

------------------ ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्यस्य प्रकरणे- ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोयादि पशवः, अग्नीषोयादिपशवः, आम्नाताः । तत्र - आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वम्- इति चेत् । मैवम् । सोमयागपक्षपाते हेतुसद्भावात् । ऽज्योर्तीषि स्तोमा यस्य यज्ञस्य सो ऽयं ज्योतिष्टोमःऽ इति हि तद्व्युत्पत्तिः । अत एव ब्राह्मणम् - ऽत्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाय तानि ज्योतिंषि य एतस्य स्तोमाःऽ इति । स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम् । न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते । तस्मात् - ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम्

------------------ 'jyotiṣṭomena svargakāmo yajeta' ityasya prakaraṇe- aindravāyavagrahādayaḥ somayāgāḥ, dīkṣaṇīyādīṣṭayaḥ, agnīṣoyādi paśavaḥ, agnīṣoyādipaśavaḥ, āmnātāḥ | tatra - āgneyādipakṣapātidarśapūrṇamāsanāmavajjyotiṣṭomanāmnaḥ somapakṣapāte hetvabhāvena rājasūyanāmavatprakṛtasarvayāgasādhāraṇatvāt, somasamānānāṃ dīkṣaṇīyādīnāmapyasti mukhyatvam- iti cet | maivam | somayāgapakṣapāte hetusadbhāvāt | 'jyortīṣi stomā yasya yajñasya so 'yaṃ jyotiṣṭomaḥ' iti hi tadvyutpattiḥ | ata eva brāhmaṇam - 'trivṛt, pañcadaśaḥ, saptadaśaḥ, ekaviṃśaḥ, etāni vāya tāni jyotiṃṣi ya etasya stomāḥ' iti | stomānāṃ jyotiṣṭvaṃ yajñaprakāśakatvam | na ceṣṭayaḥ paśavo vā trivṛdādistomayuktāḥ pratibhāsante | tasmāt - jyotiṣṭomanāmnā somayāgānāmeva phalasaṃbandhāvagamādaphalā iṣṭipaśavo na mukhyā iti somayāgānāmeva prādhānyam

Sanskrit only: no published translation is held for this verse.