शतभिषं : ⟨ शतभिषज् समीची नामासि प्राची दिक् तस्यास् ते ऽग्निर् अधिपतिर् असितो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्म ओजस्या नामासि दक्षिणा दिक् तस्यास् ता इन्द्रो ऽधिपतिस् तिरश्चीनराजी रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः प्राची नामासि प्रतीची दिक् तस्यास् ते सोमो ऽधिपतिः स्वजो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः सुषदा नामास्य् उदीची दिक् तस्यास् ते वरुणो ऽधिपतिः सृदागू रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽवस्था नामास्य् अवाची दिक् तस्यास् ते विष्णुर् अधिपतिः कल्माषग्रीवो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽधिपत्नी नामास्य् ऊर्ध्वा दिक् तस्यास्ते बृहस्पतिर् अधिपतिश् चित्रो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः
śatabhiṣaṃ : ⟨ śatabhiṣaj samīcī nāmāsi prācī dik tasyās te 'gnir adhipatir asito rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhma ojasyā nāmāsi dakṣiṇā dik tasyās tā indro 'dhipatis tiraścīnarājī rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ prācī nāmāsi pratīcī dik tasyās te somo 'dhipatiḥ svajo rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ suṣadā nāmāsy udīcī dik tasyās te varuṇo 'dhipatiḥ sṛdāgū rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmo 'vasthā nāmāsy avācī dik tasyās te viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmo 'dhipatnī nāmāsy ūrdhvā dik tasyāste bṛhaspatir adhipatiś citro rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.