अत्रास्माकम् अग्निः परिसमाप्यत इत्य् उत्प्रेक्षितारो भवन्ति, अन्वारोहेषु मैत्रायणीयानाम् अग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत इति, यद्य् अन्यद् एव मैत्रायणीयानाम्, अन्यच् च तेषाम्, कथं ते ब्रूयुर् एष्व् अस्माकं न परिसमाप्यत इति, एकत्वम् उपपन्नम्, तेषाम् अपि हि ते सन्ति। एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि
atrāsmākam agniḥ parisamāpyata ity utprekṣitāro bhavanti, anvāroheṣu maitrāyaṇīyānām agniḥ parisamāpyate, asmākaṃ teṣu na parisamāpyata iti, yady anyad eva maitrāyaṇīyānām, anyac ca teṣām, kathaṃ te brūyur eṣv asmākaṃ na parisamāpyata iti, ekatvam upapannam, teṣām api hi te santi. ekatve 'pi parāṇi nindāśaktisamāptivacanāni
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.