Library·Jaimini: Mimamsasutra, with Sabara's Bhasya·2·2.4

Jaimini: Mimamsasutra, with Sabara's Bhasya 2.4

* २।३६७: ए१,६; ए२,४,५: स्तुतिः * * २।३६८: ए१,६; ए२,४,५: स्तुतिमात्रं * * २।३६९: म्स् १।२।१ * * २।३७०: ए१,६; ए२,४,५: स्तुतश् चास्तुतश् * * २।३७१: ए१,६; ए२,४: स्तुता वास्तुता वा, ए५: स्तुता चास्तुता च * * २।३७२: ए२: ३,२०७; ए४: ३,४४६; ए५: २,६०७; ए६: १,१३३ * यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात्

* 2/367: E1,6; E2,4,5: stutiḥ * * 2/368: E1,6; E2,4,5: stutimātraṃ * * 2/369: MS 1.2.1 * * 2/370: E1,6; E2,4,5: stutaś cāstutaś * * 2/371: E1,6; E2,4: stutā vāstutā vā, E5: stutā cāstutā ca * * 2/372: E2: 3,207; E4: 3,446; E5: 2,607; E6: 1,133 * yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt

Sanskrit only: no published translation is held for this verse.

बह्वृचब्राह्मणे श्रूयते - यावज्जीवम् अग्निहोत्रं जुहोतीति, यावज्जीवं दर्शपूर्णमासाभ्याम् यजेतेति। अत्र सन्देहेः - किं कर्मधर्मो ऽभ्यासो यावज्जीविकता, उत कर्तृधर्मो नियमश् चोद्यते यावज्जीविकतेति। कथं कर्मधर्मो ऽभ्यासः, कथं वा कर्तृधर्मो नियम इति। यदि जुहोतिर् अनुवादः, यावज्जीवम् इति विधिः। ततः कर्मधर्मो ऽभ्यासः, यदि विपरीतम्, ततः कर्तृधर्मो नियम इति। किं तावत् प्राप्तम्, कर्मधर्मो ऽभ्यासः। कुतः? प्रकरणात्, यदीयं वचनव्यक्तिः, जुहोतियजतिशब्दाव् अनुवादौ, यावज्जीवम् इति च विधिः, ततः प्रकरणम् अनुगृह्यते, तस्माद् अभ्यासः। एवं कृत्वा सत्रसंस्तवो युक्तो भविष्यति, जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्, दर्शपूर्णमासौ चेति दीर्घकालसामान्यात्। तस्माद् अभ्यासः। कर्तुर् वा श्रुतिसंयोगात्

bahvṛcabrāhmaṇe śrūyate - yāvajjīvam agnihotraṃ juhotīti, yāvajjīvaṃ darśapūrṇamāsābhyām yajeteti. atra sandeheḥ - kiṃ karmadharmo 'bhyāso yāvajjīvikatā, uta kartṛdharmo niyamaś codyate yāvajjīvikateti. kathaṃ karmadharmo 'bhyāsaḥ, kathaṃ vā kartṛdharmo niyama iti. yadi juhotir anuvādaḥ, yāvajjīvam iti vidhiḥ. tataḥ karmadharmo 'bhyāsaḥ, yadi viparītam, tataḥ kartṛdharmo niyama iti. kiṃ tāvat prāptam, karmadharmo 'bhyāsaḥ. kutaḥ? prakaraṇāt, yadīyaṃ vacanavyaktiḥ, juhotiyajatiśabdāv anuvādau, yāvajjīvam iti ca vidhiḥ, tataḥ prakaraṇam anugṛhyate, tasmād abhyāsaḥ. evaṃ kṛtvā satrasaṃstavo yukto bhaviṣyati, jarāmaryaṃ vā etat satraṃ yad agnihotram, darśapūrṇamāsau ceti dīrghakālasāmānyāt. tasmād abhyāsaḥ. kartur vā śrutisaṃyogāt

Sanskrit only: no published translation is held for this verse.

* २।३७३: ए२: ३,२१०; ए४: ३,४५१; ए५: २,६०९; ए६: १,१३४ * लिङ्गदर्शनाच् च, कर्मधर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकम् अन्यत् स्यात्

* 2/373: E2: 3,210; E4: 3,451; E5: 2,609; E6: 1,134 * liṅgadarśanāc ca, karmadharme hi prakrameṇa niyamyeta, tatrānarthakam anyat syāt

Sanskrit only: no published translation is held for this verse.

लिङ्गं च भवत्य् अपि ह वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी पौर्णमासीम् अमावास्यां वातिपातयेतेति। कथं लिङ्गम्? कर्मधर्मे हि प्रक्रान्तं सत्रं यावज्जीवनकालेन परिसमाप्येत, न तत्र कालातिपातः स्यात्। तत्र चानर्थकम् अन्यत् स्यात् प्रायश्चित्तादि विधीयमानम्। व्यपवर्गं च दर्शयति, कालश् चेत् कर्मभेदः स्यात्

liṅgaṃ ca bhavaty api ha vā eṣa svargāl lokāc chidyate yo darśapūrṇamāsayājī paurṇamāsīm amāvāsyāṃ vātipātayeteti. kathaṃ liṅgam? karmadharme hi prakrāntaṃ satraṃ yāvajjīvanakālena parisamāpyeta, na tatra kālātipātaḥ syāt. tatra cānarthakam anyat syāt prāyaścittādi vidhīyamānam. vyapavargaṃ ca darśayati, kālaś cet karmabhedaḥ syāt

Sanskrit only: no published translation is held for this verse.

* २।३७४: ए२: ३,२१४; ए४: ३,४६२; ए५: २,६११; ए६: १,१३४ * * २।३७५: ए२,४,५: न तम् * अनित्यत्वात् तु नैवं स्यात्

* 2/374: E2: 3,214; E4: 3,462; E5: 2,611; E6: 1,134 * * 2/375: E2,4,5: na tam * anityatvāt tu naivaṃ syāt

Sanskrit only: no published translation is held for this verse.

तुशब्दो ऽन्वाचये, इतरश् च पश्यामः, कर्तुर् धर्मो नियमश् चोद्यत इति। यदि पूर्वस्य होमस्य गुणविधिर् भवेत् स एकैकः पूर्वो ऽग्निहोत्रहोमो ऽनित्यः स्यात्, कामसंयोगेन श्रुतो नान्यः कश्चिन् नित्यः, तत्र लिङ्गं विरुध्येत, जरामर्यं वैतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णमासौ, जरया वैताभ्यां निर्मुच्यते मृत्युना चेति। कथं विरुध्यते? जरामरणनिर्मोचनाधारणवचनं नियमपक्ष उपपद्यते, काम्यपक्षे ऽप्रयोगाद् अपि मुच्येत। विरोधश् चापि पूर्ववत्

tuśabdo 'nvācaye, itaraś ca paśyāmaḥ, kartur dharmo niyamaś codyata iti. yadi pūrvasya homasya guṇavidhir bhavet sa ekaikaḥ pūrvo 'gnihotrahomo 'nityaḥ syāt, kāmasaṃyogena śruto nānyaḥ kaścin nityaḥ, tatra liṅgaṃ virudhyeta, jarāmaryaṃ vaitat satraṃ yad agnihotraṃ darśapūrṇamāsau, jarayā vaitābhyāṃ nirmucyate mṛtyunā ceti. kathaṃ virudhyate? jarāmaraṇanirmocanādhāraṇavacanaṃ niyamapakṣa upapadyate, kāmyapakṣe 'prayogād api mucyeta. virodhaś cāpi pūrvavat

Sanskrit only: no published translation is held for this verse.

* २।३७६: ए२: ३,२१६; ए४: ३,४६७; ए५: २,६१२; ए६: १,१३५ * कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात्

* 2/376: E2: 3,216; E4: 3,467; E5: 2,612; E6: 1,135 * kartus tu dharmaniyamāt kālaśāstraṃ nimittaṃ syāt

Sanskrit only: no published translation is held for this verse.

यदि कर्तुर् धर्मो नियमश् चोद्येत, ततो जीवनं निमित्तम्, जीवने निमित्ते कर्म विधीयते। तत्र प्रयोगे परिसमाप्तं कर्म, तथा व्यपवर्गस्य दर्शनम् अकॢप्तं भवति, तस्मात् कर्तृधर्मो नियमश् चोद्यत इति सिद्धं भवति। नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात्

yadi kartur dharmo niyamaś codyeta, tato jīvanaṃ nimittam, jīvane nimitte karma vidhīyate. tatra prayoge parisamāptaṃ karma, tathā vyapavargasya darśanam akḷptaṃ bhavati, tasmāt kartṛdharmo niyamaś codyata iti siddhaṃ bhavati. nāmarūpadharmaviśeṣapunaruktinindāśaktisamāptivacanaprāyaścittānyārthadarśanāc chākhāntareṣu karmabhedaḥ syāt

Sanskrit only: no published translation is held for this verse.

* २।३७७: ए१,५; ए२,४,६: भिन्नरूपम् * * २।३७८: ए२: ३,२१९; ए४: ३,४६९; ए५: २,६१५; ए६: १,१३६ * * २।३७९: ए२,४,६: पुरोदयाज्; ए५: पुरोदयाजू जुह्वति * * २।३८०: शाङ्खाब्र्। २।९; तैत्ब्र्।२।१।२।१२ * * २।३८१: ए१,६; ए२,४,५: न हि तद् एव तत्र * * २।३८२: ए२: ३,२२०; ए४: ३,४७०; ए५: २,६२६; ए६: १,१३६ * * २।३८३: ए२,४,५,६: ताण्ड्यके * * २।३८४: ताब्र्। १६।१।२ * * २।३८५: मैत्स्। ३।४।८ * * २।३८६: तैत्स्। ६।६।४।१ * * २।३८७: ए१,६; ए२,४,५: ऽनिरुक्तः * * २।३८८: ए२: ३,२२१; ए४: ३,४७१; ए५: २,६१७; ए६: १,१३७ * * २।३८९: ए१,६; ए२,४,५: उक्थ्यो * एकं वा संयोगरूपचोदनाख्याविशेषात्

* 2/377: E1,5; E2,4,6: bhinnarūpam * * 2/378: E2: 3,219; E4: 3,469; E5: 2,615; E6: 1,136 * * 2/379: E2,4,6: purodayāj; E5: purodayājū juhvati * * 2/380: Śāṅkhā.Br. 2.9; Tait.Br.2.1.2.12 * * 2/381: E1,6; E2,4,5: na hi tad eva tatra * * 2/382: E2: 3,220; E4: 3,470; E5: 2,626; E6: 1,136 * * 2/383: E2,4,5,6: tāṇḍyake * * 2/384: Tā.Br. 16.1.2 * * 2/385: Mait.S. 3.4.8 * * 2/386: Tait.S. 6.6.4.1 * * 2/387: E1,6; E2,4,5: 'niruktaḥ * * 2/388: E2: 3,221; E4: 3,471; E5: 2,617; E6: 1,137 * * 2/389: E1,6; E2,4,5: ukthyo * ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt

Sanskrit only: no published translation is held for this verse.

न चैतद् अस्ति, यद् उक्तम् - शाखान्तरेषु कर्मभेद इति, सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म, अर्थसंयोगस्याविशेषात्, तद् एव प्रयोजनम् उद्दिश्य तद् एव विधीयमानं प्रत्यभिजानीमः। रूपम् अप्य् अस्य तद् एव द्रव्यदेवतम्, पुरुषप्रयत्नश् च तादृश एव चोद्यते, नामधेयं चाविशिष्टम्, तेन तद् एव कर्म सर्वशाखादिष्व् इति प्रत्ययः। न नाम्ना स्याद् अचोदनाभिधानत्वात्

na caitad asti, yad uktam - śākhāntareṣu karmabheda iti, sarvaśākhāpratyayaṃ sarvabrāhmaṇapratyayaṃ caikaṃ karma, arthasaṃyogasyāviśeṣāt, tad eva prayojanam uddiśya tad eva vidhīyamānaṃ pratyabhijānīmaḥ. rūpam apy asya tad eva dravyadevatam, puruṣaprayatnaś ca tādṛśa eva codyate, nāmadheyaṃ cāviśiṣṭam, tena tad eva karma sarvaśākhādiṣv iti pratyayaḥ. na nāmnā syād acodanābhidhānatvāt

Sanskrit only: no published translation is held for this verse.

* २।३९०: ए२: ३,२२४; ए४: ३,४९२; ए५: २,६१८; ए६: १,१३८ * सर्वेषां चैककर्म्यं स्यात्

* 2/390: E2: 3,224; E4: 3,492; E5: 2,618; E6: 1,138 * sarveṣāṃ caikakarmyaṃ syāt

Sanskrit only: no published translation is held for this verse.

यदि शब्दभेदाद् भेदो भवेत्, शब्दैक्यात् तर्हि कर्मैक्यं भवेत्। तत्र काठकशब्दाभिधानाद् ऐक्यं भवेद् अग्निहोत्रस्य दर्शपूर्णमासयोर् ज्योतिष्टोमस्य च, तच्छब्दत्वात्, न चैतद् एवम्। तस्माद् अप्य् अभेदः। कृतकं चाभिधानम्

yadi śabdabhedād bhedo bhavet, śabdaikyāt tarhi karmaikyaṃ bhavet. tatra kāṭhakaśabdābhidhānād aikyaṃ bhaved agnihotrasya darśapūrṇamāsayor jyotiṣṭomasya ca, tacchabdatvāt, na caitad evam. tasmād apy abhedaḥ. kṛtakaṃ cābhidhānam

Sanskrit only: no published translation is held for this verse.

इदानींतनं चैतद् अभिधानं भवेत्, अस्य न पूर्वम् आसीत्, यतः प्रभृति कठस्य प्रकृष्टं वचनम्, ततः प्रभृति प्रवृत्तम्, पूर्वं नासीद् भेदः, इदानीं भेद इति विरुद्धम्। एकत्वे ऽपि परम्

idānīṃtanaṃ caitad abhidhānaṃ bhavet, asya na pūrvam āsīt, yataḥ prabhṛti kaṭhasya prakṛṣṭaṃ vacanam, tataḥ prabhṛti pravṛttam, pūrvaṃ nāsīd bhedaḥ, idānīṃ bheda iti viruddham. ekatve 'pi param

Sanskrit only: no published translation is held for this verse.

एककर्मत्वे ऽपि रूपभेदो भवति वचनात्, न च, वाचनिके रूपभेदे, असत्याम् अपि भेदबुद्धौ कर्मणो भेदो ऽभ्यवसीयेत। विद्यायां धर्मशास्त्रम्

ekakarmatve 'pi rūpabhedo bhavati vacanāt, na ca, vācanike rūpabhede, asatyām api bhedabuddhau karmaṇo bhedo 'bhyavasīyeta. vidyāyāṃ dharmaśāstram

Sanskrit only: no published translation is held for this verse.

अथ यो धर्मविशेष उक्तः, विद्याग्रहणार्थः सः, न कर्मण उपकारकः। कथं गम्यते? श्रुत्यादीनाम् अभावात्, विद्यासंयोगाच् च न कर्मप्रयुक्त इति। आग्नेयवत् पुनर्वचनम्

atha yo dharmaviśeṣa uktaḥ, vidyāgrahaṇārthaḥ saḥ, na karmaṇa upakārakaḥ. kathaṃ gamyate? śrutyādīnām abhāvāt, vidyāsaṃyogāc ca na karmaprayukta iti. āgneyavat punarvacanam

Sanskrit only: no published translation is held for this verse.

* २।३९१: व्ग्ल्। म्स् २।३।२७-२९ * * २।३९२: इन् ए१ गेक्लम्मेर्त् * * २।३९३: ए२: ३,२२६; ए४: ३,४९७; ए५: २,६१९; ए६: १,१३९ * अद्विर्वचनं वा श्रुतिसंयोगाविशेषात्

* 2/391: Vgl. MS 2.3.27-29 * * 2/392: In E1 geklammert * * 2/393: E2: 3,226; E4: 3,497; E5: 2,619; E6: 1,139 * advirvacanaṃ vā śrutisaṃyogāviśeṣāt

Sanskrit only: no published translation is held for this verse.

* २।३९४: दिएसेस् सूत्र wउर्दे वोन् शबर निछ्त् कोम्मेन्तिएर्त्, एस् फ़िन्देत् सिछ् जेदोछ् बेइ कुमारिल। इन् ए२,४,५ इस्त् एस् औफ़्गेनोम्मेन् wओर्देन्। दिएस् बेदिन्ग्त् एइने वोन् ए१,६ अब्wएइछेन्दे ज़्äह्लुन्ग् देर् फ़ोल्गेन्देन् सूत्रस् * अर्थासन्निधेश् च

* 2/394: Dieses Sūtra wurde von Śabara nicht kommentiert, es findet sich jedoch bei Kumārila. In E2,4,5 ist es aufgenommen worden. Dies bedingt eine von E1,6 abweichende Zählung der folgenden Sūtras * arthāsannidheś ca

Sanskrit only: no published translation is held for this verse.

अर्थासन्निधेश् च शाखाशब्द उपपन्नो भविष्यति, शाखा इव होमाः शाखाः, तद् यथा वृक्षस्य शाखाः, एवम् इहापि वृक्षस्थानीयस्य वेदस्य शाखाः। किं शाखासारूप्यम्? यथा नानावस्थानम्, न चैकैकस्यां कृत्स्नं पुष्पं फलं सन्निहितम्, एवम् इहापि, नैकैकस्यां कृत्सं गुणकाण्डं सन्निहितम्, इत्य् अर्थासन्निधेः शाखाशब्दोपपत्तिः। तस्माद् अप्य् एकं कर्मेति। न चैकं प्रति शिष्यते

arthāsannidheś ca śākhāśabda upapanno bhaviṣyati, śākhā iva homāḥ śākhāḥ, tad yathā vṛkṣasya śākhāḥ, evam ihāpi vṛkṣasthānīyasya vedasya śākhāḥ. kiṃ śākhāsārūpyam? yathā nānāvasthānam, na caikaikasyāṃ kṛtsnaṃ puṣpaṃ phalaṃ sannihitam, evam ihāpi, naikaikasyāṃ kṛtsaṃ guṇakāṇḍaṃ sannihitam, ity arthāsannidheḥ śākhāśabdopapattiḥ. tasmād apy ekaṃ karmeti. na caikaṃ prati śiṣyate

Sanskrit only: no published translation is held for this verse.

* २।३९५: ए२: ३,२२९; ए४: ३,५०५; ए५: २,६२०; ए६: १,१३९ * समाप्तिवच् च संप्रेक्षा

* 2/395: E2: 3,229; E4: 3,505; E5: 2,620; E6: 1,139 * samāptivac ca saṃprekṣā

Sanskrit only: no published translation is held for this verse.

अत्रास्माकम् अग्निः परिसमाप्यत इत्य् उत्प्रेक्षितारो भवन्ति, अन्वारोहेषु मैत्रायणीयानाम् अग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत इति, यद्य् अन्यद् एव मैत्रायणीयानाम्, अन्यच् च तेषाम्, कथं ते ब्रूयुर् एष्व् अस्माकं न परिसमाप्यत इति, एकत्वम् उपपन्नम्, तेषाम् अपि हि ते सन्ति। एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि

atrāsmākam agniḥ parisamāpyata ity utprekṣitāro bhavanti, anvāroheṣu maitrāyaṇīyānām agniḥ parisamāpyate, asmākaṃ teṣu na parisamāpyata iti, yady anyad eva maitrāyaṇīyānām, anyac ca teṣām, kathaṃ te brūyur eṣv asmākaṃ na parisamāpyata iti, ekatvam upapannam, teṣām api hi te santi. ekatve 'pi parāṇi nindāśaktisamāptivacanāni

Sanskrit only: no published translation is held for this verse.

* २।३९६: ए२,४: विहितं कृत्स्नम् * प्रायश्चित्तं निमित्तेन

* 2/396: E2,4: vihitaṃ kṛtsnam * prāyaścittaṃ nimittena

Sanskrit only: no published translation is held for this verse.

* २।३९७: ए२: प्रायश्चिन्नानाद्; ए४: प्रायश्चिताम्नानाद्; ए५: प्रायश्चित्ताम्नानाद् * * २।३९८: ए२,४,५: व्यृद्धता * * २।३९९: ए२: ३,२३१; ए४: ३,५०९; ए५: २,६२१; ए६: १,१४० * * २।४००: इन् ए१ गेक्लम्मेर्त् * प्रक्रमाद् वा नियोगेन

* 2/397: E2: prāyaścinnānād; E4: prāyaścitāmnānād; E5: prāyaścittāmnānād * * 2/398: E2,4,5: vyṛddhatā * * 2/399: E2: 3,231; E4: 3,509; E5: 2,621; E6: 1,140 * * 2/400: In E1 geklammert * prakramād vā niyogena

Sanskrit only: no published translation is held for this verse.

वाशब्दः पक्षं व्यावर्तयति। नैष दोषः, उदिते होष्यामीति प्रकान्ते ऽन्यथा क्रियमाणे भवति दोषः, तत्र प्रायश्चित्तस्य विषयो भविष्यतीति कर्मैकत्वे ऽपि न दोषः। समाप्तिः पूर्वत्त्वाद् यथाज्ञाते प्रतीयेत

vāśabdaḥ pakṣaṃ vyāvartayati. naiṣa doṣaḥ, udite hoṣyāmīti prakānte 'nyathā kriyamāṇe bhavati doṣaḥ, tatra prāyaścittasya viṣayo bhaviṣyatīti karmaikatve 'pi na doṣaḥ. samāptiḥ pūrvattvād yathājñāte pratīyeta

Sanskrit only: no published translation is held for this verse.

* २।४०१: ए२,४,५,६: परिसमाप्यते। प्रारब्धश् चेत्य् अभिप्रायः * लिङ्गम् अविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात्

* 2/401: E2,4,5,6: parisamāpyate. prārabdhaś cety abhiprāyaḥ * liṅgam aviśiṣṭaṃ sarvaśeṣatvān na hi tatra karmacodanā tasmād dvādaśāhasyāhāravyapadeśaḥ syāt

Sanskrit only: no published translation is held for this verse.

* २।४०२: ए२: ३,२३२; ए४: ३,५१४; ए५: २,६२२; ए६: १,१४० * द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यवतिष्ठेत तस्मान् नित्यानुवादः स्यात्

* 2/402: E2: 3,232; E4: 3,514; E5: 2,622; E6: 1,140 * dravye cācoditatvād vidhīnām avyavasthā syān nirdeśād vyavatiṣṭheta tasmān nityānuvādaḥ syāt

Sanskrit only: no published translation is held for this verse.

* २।४०३: ए१,६; ए२,४,५: सङ्कटमध्यवसातुम् * विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात्

* 2/403: E1,6; E2,4,5: saṅkaṭamadhyavasātum * vihitapratiṣedhāt pakṣe 'tirekaḥ syāt

Sanskrit only: no published translation is held for this verse.

* २।४०४: ए२: ३,२३४; ए४: ३,५१७; ए५: २,६२३; ए६: १,२४१ * * २।४०५: ए२,४: स्तोत्रीया * * २।४०६: ए२,४: दशकाख्या * सारस्वते विप्रतिषेधाद् यदेति स्यात्

* 2/404: E2: 3,234; E4: 3,517; E5: 2,623; E6: 1,241 * * 2/405: E2,4: stotrīyā * * 2/406: E2,4: daśakākhyā * sārasvate vipratiṣedhād yadeti syāt

Sanskrit only: no published translation is held for this verse.

* २।४०७: ए१,५; ए२,४,६ ओम्। पुरोडाशिन * उपहव्ये ऽप्रतिप्रसवः

* 2/407: E1,5; E2,4,6 om. puroḍāśina * upahavye 'pratiprasavaḥ

Sanskrit only: no published translation is held for this verse.

* २।४०८: ए२: ३,२३५; ए४: ३,५२१; ए५: २,६२४; ए६: १,१४२ * गुणार्था वा पुनःश्रुतिः

* 2/408: E2: 3,235; E4: 3,521; E5: 2,624; E6: 1,142 * guṇārthā vā punaḥśrutiḥ

Sanskrit only: no published translation is held for this verse.

यदा रथन्तरसामा, तदाश्वः श्वेतो दक्षिणा, यदा बृहत्सामा तदा रुक्मललाट इति। प्रत्ययं चापि दर्शयति

yadā rathantarasāmā, tadāśvaḥ śveto dakṣiṇā, yadā bṛhatsāmā tadā rukmalalāṭa iti. pratyayaṃ cāpi darśayati

Sanskrit only: no published translation is held for this verse.

* २।४०९: मैत्स्। १।४।१२, व्ग्ल्। श्प्ब्र्। १।५।३१ * * २।४१०: मैत्स्। १।१।६ * अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत

* 2/409: Mait.S. 1.4.12, vgl. ŚPBr. 1.5.31 * * 2/410: Mait.S. 1.1.6 * api vā kramasaṃyogād vidhipṛthaktvam ekasyāṃ vyavatiṣṭheta

Sanskrit only: no published translation is held for this verse.

यो ह्य् अन्यशाखावस्थितान् विधीन् उपसंहरति, स स्वशाखाविहितं क्रमम् उपरुणद्धीति, तेन शाखान्तरेषु कर्मभेद इति। विरोधिना *२।४११* त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात्

yo hy anyaśākhāvasthitān vidhīn upasaṃharati, sa svaśākhāvihitaṃ kramam uparuṇaddhīti, tena śākhāntareṣu karmabheda iti. virodhinā *2/411* tv asaṃyogād aikakarmye tatsaṃyogād vidhīnāṃ sarvakarmapratyayaḥ syāt

Sanskrit only: no published translation is held for this verse.