इति चेत् पश्यसि - संस्थास्व् अप्य् अर्थवादो ऽवकल्पते प्रदेयविवृद्ध्येति, नैतद् एवम्, व्यर्थैव हि स्तुतिर् भवेत्। कुतः? सोमाविशेषात्, यावान् एवाग्निष्टोमे सोमः, तावान् एवोक्थ्यादिष्व् अपि संस्थासु, उक्थ्यादिष्व् अपि दशमुष्टिर् एव सोमो ग्रहीतव्यः। नन्व् अर्थात् प्रदेयं विवर्त्स्यतीति। दशमुष्टिः स कथं शक्येत विवर्धयितुम्? त्रिपर्वेति च पर्वसंख्यानियमान् न शक्यो बहुपर्वा ग्रहीतुम्, तस्माद् धारणाविशेषाद् अर्थवादानुपपत्तिः संस्थासु स्यात्, तस्माद् उत्कर्षः। स्याद् अनित्यत्वात्
iti cet paśyasi - saṃsthāsv apy arthavādo 'vakalpate pradeyavivṛddhyeti, naitad evam, vyarthaiva hi stutir bhavet. kutaḥ? somāviśeṣāt, yāvān evāgniṣṭome somaḥ, tāvān evokthyādiṣv api saṃsthāsu, ukthyādiṣv api daśamuṣṭir eva somo grahītavyaḥ. nanv arthāt pradeyaṃ vivartsyatīti. daśamuṣṭiḥ sa kathaṃ śakyeta vivardhayitum? triparveti ca parvasaṃkhyāniyamān na śakyo bahuparvā grahītum, tasmād dhāraṇāviśeṣād arthavādānupapattiḥ saṃsthāsu syāt, tasmād utkarṣaḥ. syād anityatvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.