Library·Jaimini: Mimamsasutra, with Sabara's Bhasya·4·4.4

Jaimini: Mimamsasutra, with Sabara's Bhasya 4.4

* ४।३६५: ए२: शौनःशेपम् * * ४।३६६: ए२,६: रूपवतां संनिधाव् * * ४।३६७: ए२: ५,८८; ए६: २,५३ * अपि वाङ्गम् अनिज्याः स्युस् ततो विशिष्टत्वात्

* 4/365: E2: śaunaḥśepam * * 4/366: E2,6: rūpavatāṃ saṃnidhāv * * 4/367: E2: 5,88; E6: 2,53 * api vāṅgam anijyāḥ syus tato viśiṣṭatvāt

Sanskrit only: no published translation is held for this verse.

अपि वेति पक्षव्यावृत्तिः। या अनिज्यास् ता अङ्गम्, यथा विदेवनादयः। राजसूयसंज्ञकेन यागेन स्वाराज्यं कुर्याद् इत्य् उच्यमाने यागेनैव स्वाराज्यं साध्यते, नायागेन। अयागाश् च विदेवनादयः। तस्माद् अङ्गं भवेयुः, इज्यानां फलवतीनां श्रूयमाना इति। मध्यस्थं यस्य तन्मध्ये

api veti pakṣavyāvṛttiḥ. yā anijyās tā aṅgam, yathā videvanādayaḥ. rājasūyasaṃjñakena yāgena svārājyaṃ kuryād ity ucyamāne yāgenaiva svārājyaṃ sādhyate, nāyāgena. ayāgāś ca videvanādayaḥ. tasmād aṅgaṃ bhaveyuḥ, ijyānāṃ phalavatīnāṃ śrūyamānā iti. madhyasthaṃ yasya tanmadhye

Sanskrit only: no published translation is held for this verse.

राजसूये ऽभिषेचनीयमध्ये, यष्टौहीं दीव्यतीति विदेवनादयः समाम्नाताः। ते किम् अभिषेचनीयस्याङ्गम्, उत कृत्स्नस्य राजसूयस्येति संशयः। उच्यते, मध्याम्नानाद् अभिषेचनीयस्येति, तथानन्तर्यम् अनुग्रहीष्यत इति। सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये

rājasūye 'bhiṣecanīyamadhye, yaṣṭauhīṃ dīvyatīti videvanādayaḥ samāmnātāḥ. te kim abhiṣecanīyasyāṅgam, uta kṛtsnasya rājasūyasyeti saṃśayaḥ. ucyate, madhyāmnānād abhiṣecanīyasyeti, tathānantaryam anugrahīṣyata iti. sarvāsāṃ vā samatvāc codanātaḥ syān na hi tasya prakaraṇaṃ deśārtham ucyate madhye

Sanskrit only: no published translation is held for this verse.

* ४।३६८: ए२: केवलस्य। कामाद् अभिषेचनीयस्य केवलस्य। कामाद्; ए६: केवलस्य। कामाद् * * ४।३६९: ए२: ५,८९; ए६: २,५४ * प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम्

* 4/368: E2: kevalasya. kāmād abhiṣecanīyasya kevalasya. kāmād; E6: kevalasya. kāmād * * 4/369: E2: 5,89; E6: 2,54 * prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam

Sanskrit only: no published translation is held for this verse.

* ४।३७०: तैत्ब्र्। १।८।१।२ * अपि वा कालमात्रं स्याद् अदर्शनाद् विशेषस्य

* 4/370: Tait.Br. 1.8.1.2 * api vā kālamātraṃ syād adarśanād viśeṣasya

Sanskrit only: no published translation is held for this verse.

* ४।३७१: ए२: ५,९०; ए६: २,५५ * फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात्

* 4/371: E2: 5,90; E6: 2,55 * phalavad voktahetutvād itarasya pradhānaṃ syāt

Sanskrit only: no published translation is held for this verse.

* ४।३७२: ए२, ए१ (फ़्न्।): आमनस्यामनस्य देवा इति * * ४।३७३: ए२: इत्य् एवानुपज्यते * * ४।३७४: ए२: आमनस्यामनस्य देवा इति * * ४।३७५: ए२: ५,९१; ए६: २,५५ * दधिग्रहो नैमित्तिकः श्रुतिसंयोगात्

* 4/372: E2, E1 (Fn.): āmanasyāmanasya devā iti * * 4/373: E2: ity evānupajyate * * 4/374: E2: āmanasyāmanasya devā iti * * 4/375: E2: 5,91; E6: 2,55 * dadhigraho naimittikaḥ śrutisaṃyogāt

Sanskrit only: no published translation is held for this verse.

* ४।३७६: तैत्स्। ३।५।९।१ * नित्यश् च ज्येष्ठशब्दात्

* 4/376: Tait.S. 3.5.9.1 * nityaś ca jyeṣṭhaśabdāt

Sanskrit only: no published translation is held for this verse.

* ४।३७७: तैत्स्। ३।५।९।१ * * ४।३७८: ए२: नैष * * ४।३७९: ए२ ओम्। हि * सार्वरूप्याच् च

* 4/377: Tait.S. 3.5.9.1 * * 4/378: E2: naiṣa * * 4/379: E2 om. hi * sārvarūpyāc ca

Sanskrit only: no published translation is held for this verse.

* ४।३८०: तैत्स्। ३।५।९।१ * नित्यो वा स्याद् अर्थवादस् तयोः कर्मण्य् असंबन्धाद् भङ्गित्वाच् चान्तरायस्य

* 4/380: Tait.S. 3.5.9.1 * nityo vā syād arthavādas tayoḥ karmaṇy asaṃbandhād bhaṅgitvāc cāntarāyasya

Sanskrit only: no published translation is held for this verse.

* ४।३८१: ए१ गिब्त् अध्वर्युयजमानयोः इन् क्लम्मेर्न् * वैश्वानरश् च नित्यः स्यान् नित्यैः समानसंख्यत्वात्

* 4/381: E1 gibt adhvaryuyajamānayoḥ in Klammern * vaiśvānaraś ca nityaḥ syān nityaiḥ samānasaṃkhyatvāt

Sanskrit only: no published translation is held for this verse.

* ४।३८२: तैत्स्। ५।५।२।१ * * ४।३८३: ए२: अभूत्वाग्निं * * ४।३८४: तैत्स्। ५।५।१।७ * पक्षे वोत्पन्नसंयोगात्

* 4/382: Tait.S. 5.5.2.1 * * 4/383: E2: abhūtvāgniṃ * * 4/384: Tait.S. 5.5.1.7 * pakṣe votpannasaṃyogāt

Sanskrit only: no published translation is held for this verse.

उत्पन्नस्य निमित्त उख्याभरणे निर्घातेन संयोगः। नासंयुक्तस्योत्पन्नस्य दोषनिर्घातप्रयोजनता। तस्माद् इह न दधिग्रहवद् विरोधो ऽस्ति। तेन नार्थवादः, नैमित्तिक इति। अथ यद् उक्तम्, लोकैः समानसंख्यत्वं नित्यत्वाद् उपपद्यते, नान्यथेति। तत्र ब्रूमः, त्रित्वाल् लोकानां हविषां च सामान्याद् अर्थवादो भविष्यतीति। षट्चितिः पूर्ववत्त्वात्

utpannasya nimitta ukhyābharaṇe nirghātena saṃyogaḥ. nāsaṃyuktasyotpannasya doṣanirghātaprayojanatā. tasmād iha na dadhigrahavad virodho 'sti. tena nārthavādaḥ, naimittika iti. atha yad uktam, lokaiḥ samānasaṃkhyatvaṃ nityatvād upapadyate, nānyatheti. tatra brūmaḥ, tritvāl lokānāṃ haviṣāṃ ca sāmānyād arthavādo bhaviṣyatīti. ṣaṭcitiḥ pūrvavattvāt

Sanskrit only: no published translation is held for this verse.

* ४।३८५: तैत्स्। ५।५।२।१ * * ४।३८६: ए२: ५,९४; ए६: २,५७ * * ४।३८७: तैत्स्। ५।४।२।२ * ताभिश् च तुल्यसंख्यानात्

* 4/385: Tait.S. 5.5.2.1 * * 4/386: E2: 5,94; E6: 2,57 * * 4/387: Tait.S. 5.4.2.2 * tābhiś ca tulyasaṃkhyānāt

Sanskrit only: no published translation is held for this verse.

* ४।३८८: ए२,६: चतुर्थी * * ४।३८९: तैत्स्। ५।६।१०।३ * * ४।३९०: तैत्स्। २।४।१।१ * * ४।३९१: ए२: ५,९४; ए६: २,५८ * अर्थवादोपपत्तेश् च

* 4/388: E2,6: caturthī * * 4/389: Tait.S. 5.6.10.3 * * 4/390: Tait.S. 2.4.1.1 * * 4/391: E2: 5,94; E6: 2,58 * arthavādopapatteś ca

Sanskrit only: no published translation is held for this verse.

* ४।३९२: तैत्स्। ५।६।१०।३ * एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन

* 4/392: Tait.S. 5.6.10.3 * ekacitir vā syād apavṛkte hi codyate nimittena

Sanskrit only: no published translation is held for this verse.

* ४।३९३: ए१ गिब्त् नैमित्तिकः इन् क्लम्मेर्न् * विप्रतिषेधात् ताभिः समानसंख्यत्वम्

* 4/393: E1 gibt naimittikaḥ in Klammern * vipratiṣedhāt tābhiḥ samānasaṃkhyatvam

Sanskrit only: no published translation is held for this verse.

* ४।३९४: ए२: ५,९५; ए६: २,५८ * * ४।३९५: ए१ गिब्त् द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, अर्थवादोपपत्तेश् चेति इन् क्लम्मेर्न् * * ४।३९६: ए१ गिब्त् नित्याभिः इन् क्लम्मेर्न् * * ४।३९७: तैत्स्। २।४।१।१ * पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात्

* 4/394: E2: 5,95; E6: 2,58 * * 4/395: E1 gibt dvayoḥ sūtrayor idam uttaram, tābhiś ca tulyasaṃkhyānāt, arthavādopapatteś ceti in Klammern * * 4/396: E1 gibt nityābhiḥ in Klammern * * 4/397: Tait.S. 2.4.1.1 * pitṛyajñaḥ svakālatvād anaṅgaṃ syāt

Sanskrit only: no published translation is held for this verse.

* ४।३९८: तैत्ब्र्। १।३।१०।२ * * ४।३९९: तैत्स्। १।३।१०।२ * * ४।४००: ए२: प्रतनितुं * * ४।४०१: ए२: अङ्गं * * ४।४०२: ए२: ५,९६; ए६: २,५९ * * ४।४०३: तैत्स्। २।५।६।१; दज़ु म्स् ४।३।३७ * * ४।४०४: ए२ ओम्। तद् एतत् * * ४।४०५: तैत्ब्र्। १।८।१।२; दज़ु म्स् ४।४।५-६ * * ४।४०६: ए२,६: अत्र काल * * ४।४०७: ए२ ओम्। कर्मणि * तुल्यवच् च प्रसंख्यानात्

* 4/398: Tait.Br. 1.3.10.2 * * 4/399: Tait.S. 1.3.10.2 * * 4/400: E2: pratanituṃ * * 4/401: E2: aṅgaṃ * * 4/402: E2: 5,96; E6: 2,59 * * 4/403: Tait.S. 2.5.6.1; dazu MS 4.3.37 * * 4/404: E2 om. tad etat * * 4/405: Tait.Br. 1.8.1.2; dazu MS 4.4.5-6 * * 4/406: E2,6: atra kāla * * 4/407: E2 om. karmaṇi * tulyavac ca prasaṃkhyānāt

Sanskrit only: no published translation is held for this verse.

तुल्यवच् चान्यैः प्रधानैः प्रसंख्यायते, चत्वारो वै महायज्ञाः, अग्निहोत्रम्, दर्शपूर्णमासौ, ज्योतिष्टोमः, पिण्डपितृयज्ञ इति, महायज्ञैस् तुल्यवत् प्रसंख्यायते। कास्य महायज्ञता स्यात्, अन्यतः फलवत्तायाः। तस्माद् अनङ्गम्। प्रतिषिद्धे च दर्शनात्

tulyavac cānyaiḥ pradhānaiḥ prasaṃkhyāyate, catvāro vai mahāyajñāḥ, agnihotram, darśapūrṇamāsau, jyotiṣṭomaḥ, piṇḍapitṛyajña iti, mahāyajñais tulyavat prasaṃkhyāyate. kāsya mahāyajñatā syāt, anyataḥ phalavattāyāḥ. tasmād anaṅgam. pratiṣiddhe ca darśanāt

Sanskrit only: no published translation is held for this verse.

* ४।४०८: ए२: प्रतिषिद्धे ह्य् * * ४।४०९: तैत्स्। २।५।४।३ * * ४।४१०: ए२: ५,९७; ए६: २,६० * * ४।४११: ए२: सत्रे च * पश्वङ्गं रशना स्यात् तदागमे विधानात्

* 4/408: E2: pratiṣiddhe hy * * 4/409: Tait.S. 2.5.4.3 * * 4/410: E2: 5,97; E6: 2,60 * * 4/411: E2: satre ca * paśvaṅgaṃ raśanā syāt tadāgame vidhānāt

Sanskrit only: no published translation is held for this verse.

ज्योतिष्टोमे श्रूयते, आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुम् उपाकरोतीति। तत्र संदेहः, किं पश्वङ्गं रशना, उत यूपाङ्गम् इति। किं प्राप्तम्? पश्वङ्गम्। कुतः? तदागमे विधानात्, पश्वागमे हि विधीयते। पशुनास्याः संबन्ध उत्पत्तिवाक्ये श्रूयते, परिव्याणं कृत्वोपाकरोति पशुं नान्यथेति। एवं श्रुतिर् भवति, कालवचने लक्षणा स्यात्, परिव्याणेन कालो लक्ष्येतेति। यूपाङ्गं वा तत्संस्कारात्

jyotiṣṭome śrūyate, āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ savanīyaṃ paśum upākarotīti. tatra saṃdehaḥ, kiṃ paśvaṅgaṃ raśanā, uta yūpāṅgam iti. kiṃ prāptam? paśvaṅgam. kutaḥ? tadāgame vidhānāt, paśvāgame hi vidhīyate. paśunāsyāḥ saṃbandha utpattivākye śrūyate, parivyāṇaṃ kṛtvopākaroti paśuṃ nānyatheti. evaṃ śrutir bhavati, kālavacane lakṣaṇā syāt, parivyāṇena kālo lakṣyeteti. yūpāṅgaṃ vā tatsaṃskārāt

Sanskrit only: no published translation is held for this verse.

* ४।४१२: ए२: ५,९८; ए६: २,६० * * ४।४१३: ए२: वाक्यात् * अर्थवादश् च तदर्थवत्

* 4/412: E2: 5,98; E6: 2,60 * * 4/413: E2: vākyāt * arthavādaś ca tadarthavat

Sanskrit only: no published translation is held for this verse.

* ४।४१४: ऋव् ३।८।४ * स्वरुश् चाप्य् एकदेशत्वात्

* 4/414: ṚV 3.8.4 * svaruś cāpy ekadeśatvāt

Sanskrit only: no published translation is held for this verse.

* ४।४१५: तैत्स्। ६।१।११।६ * * ४।४१६: ए१ गिब्त् स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः इन् क्लम्मेर्न् * * ४।४१७: ए२: ५,९९; ए६: २,६१ * निष्क्रयश् च तदङ्गवत्

* 4/415: Tait.S. 6.1.11.6 * * 4/416: E1 gibt svaruṃ karotīti svarum antaṃ yūpaṃ kuryād ity arthaḥ in Klammern * * 4/417: E2: 5,99; E6: 2,61 * niṣkrayaś ca tadaṅgavat

Sanskrit only: no published translation is held for this verse.

यूपाङ्गम् इव स्वरुं निष्क्रयवादो दर्शयति, अपश्यन् ह स्म वै पुरा ऋषयो ये यूपं प्रापयन्ति, संभज्य स्रुवन्ते मन्यन्ते, यज्ञवैशसाय वा इदं कर्मेति, ते प्रस्तरं स्रुवनिष्क्रयम् अपश्यन्, यूपस्य स्वरुम् अयज्ञवैशसायेति, निष्क्रयश्रवणात् तदङ्गता विज्ञायते। तस्माद् यूपाङ्गम् इति। पश्वङ्गं वार्थकर्मत्वात्

yūpāṅgam iva svaruṃ niṣkrayavādo darśayati, apaśyan ha sma vai purā ṛṣayo ye yūpaṃ prāpayanti, saṃbhajya sruvante manyante, yajñavaiśasāya vā idaṃ karmeti, te prastaraṃ sruvaniṣkrayam apaśyan, yūpasya svarum ayajñavaiśasāyeti, niṣkrayaśravaṇāt tadaṅgatā vijñāyate. tasmād yūpāṅgam iti. paśvaṅgaṃ vārthakarmatvāt

Sanskrit only: no published translation is held for this verse.

* ४।४१८: ए२ ओम्। प्रयोजनं * भक्त्या निष्क्रयवादः स्यात्

* 4/418: E2 om. prayojanaṃ * bhaktyā niṣkrayavādaḥ syāt

Sanskrit only: no published translation is held for this verse.

* ४।४१९: ए२: तेन तेन * * ४।४२०: ए२: ५,१००; ए६: २,६२ * दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात्

* 4/419: E2: tena tena * * 4/420: E2: 5,100; E6: 2,62 * darśapūrṇamāsayor ijyāḥ pradhānāny aviśeṣāt

Sanskrit only: no published translation is held for this verse.

स्तो दर्शपूर्णमासौ, तत्र श्रूयन्ते, आग्नेयाग्नीषोमीयोपांशुयाजैन्द्राग्नसांनाय्ययागाः। तथा, आघाराव् आज्यभागौ, प्रयाजानुयाजाः, पत्नीसंयाजाः, समिष्टयजुः, स्विष्टकृद् इति। तत्र संदेहः, किं सर्वे यागाः प्रधानभूताः, उत केचिद् गुणभूता इति। किं प्राप्तम्? दर्शपूर्णमासयोर् यावत्य इज्यास् ताः सर्वाः प्रधानभूता इति। यजेत स्वर्गकाम इत्य् अविशेषेण यागेभ्यः फलं श्रूयते, फलवच् च प्रधानम्, सर्वे चामी यागाः। तस्मात् सर्वे प्रधानभूता इति। अपि वाङ्गानि कानिचिद् येष्व् अङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः *४।४२१*

sto darśapūrṇamāsau, tatra śrūyante, āgneyāgnīṣomīyopāṃśuyājaindrāgnasāṃnāyyayāgāḥ. tathā, āghārāv ājyabhāgau, prayājānuyājāḥ, patnīsaṃyājāḥ, samiṣṭayajuḥ, sviṣṭakṛd iti. tatra saṃdehaḥ, kiṃ sarve yāgāḥ pradhānabhūtāḥ, uta kecid guṇabhūtā iti. kiṃ prāptam? darśapūrṇamāsayor yāvatya ijyās tāḥ sarvāḥ pradhānabhūtā iti. yajeta svargakāma ity aviśeṣeṇa yāgebhyaḥ phalaṃ śrūyate, phalavac ca pradhānam, sarve cāmī yāgāḥ. tasmāt sarve pradhānabhūtā iti. api vāṅgāni kānicid yeṣv aṅgatvena saṃstutiḥ sāmānyo hy abhisaṃstavaḥ *4/421*

Sanskrit only: no published translation is held for this verse.

* ४।४२१: ए१ (फ़्न्।): सामान्येष्व् अभिसंस्तवः * * ४।४२२: तैत्स्। २।६।२।१ * * ४।४२३: तैत्स्। २।६।१।५ * * ४।४२४: ए२: ५,१०१; ए६: २,६२ * तथा चान्यार्थदर्शनम्

* 4/421: E1 (Fn.): sāmānyeṣv abhisaṃstavaḥ * * 4/422: Tait.S. 2.6.2.1 * * 4/423: Tait.S. 2.6.1.5 * * 4/424: E2: 5,101; E6: 2,62 * tathā cānyārthadarśanam

Sanskrit only: no published translation is held for this verse.

* ४।४२५: तैत्स्। २।३।२।३ * अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात्

* 4/425: Tait.S. 2.3.2.3 * aviśiṣṭaṃ tu kāraṇaṃ pradhāneṣu guṇasya vidyamānatvāt

Sanskrit only: no published translation is held for this verse.

* ४।४२६: ए१ (फ़्न्।): तत्र * नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात्

* 4/426: E1 (Fn.): tatra * nānukte 'nyārthadarśanaṃ parārthatvāt

Sanskrit only: no published translation is held for this verse.

* ४।४२७: ए२: ५,१०१; ए६: २,६३ * पृथक्त्वे त्व् अभिधानयोर् निवेशः, श्रुतितो व्यपदेशाच् च, तत् पुनर् मुख्यलक्षणं यत् फलवत्त्वम्, तत् संनिधाव् असंयुक्तं तदङ्गं स्यात्, भागित्वात् कारणस्याश्रुतश् चान्यसंबन्धः

* 4/427: E2: 5,101; E6: 2,63 * pṛthaktve tv abhidhānayor niveśaḥ, śrutito vyapadeśāc ca, tat punar mukhyalakṣaṇaṃ yat phalavattvam, tat saṃnidhāv asaṃyuktaṃ tadaṅgaṃ syāt, bhāgitvāt kāraṇasyāśrutaś cānyasaṃbandhaḥ

Sanskrit only: no published translation is held for this verse.

* ४।४२८: तैत्स्। ३।५।१।४ * * ४।४२९: तैत्स्। ३।५।१।४ * * ४।४३०: ए२: ५,१०२; ए६: २,६४ * * ४।४३१: ए१ गिब्त् लोके श्रवणाद् इन् क्लम्मेर्न् * गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते

* 4/428: Tait.S. 3.5.1.4 * * 4/429: Tait.S. 3.5.1.4 * * 4/430: E2: 5,102; E6: 2,64 * * 4/431: E1 gibt loke śravaṇād in Klammern * guṇāś ca nāmasaṃyuktā vidhīyante nāṅgeṣūpapadyante

Sanskrit only: no published translation is held for this verse.

* ४।४३२: ए२: पौर्णमासीम् * * ४।४३३: ए२: ५,१०३; ए६: २,६४ * तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसंबन्धः

* 4/432: E2: paurṇamāsīm * * 4/433: E2: 5,103; E6: 2,64 * tulyā ca kāraṇaśrutir anyair aṅgāṅgisaṃbandhaḥ

Sanskrit only: no published translation is held for this verse.

अथ यद् उक्तम्, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अङ्गत्वं ख्यापयेद् इति। तत् परिहर्तव्यम्। उत्पत्ताव् अभिसंबन्धस् तस्माद् अङ्गोपदेशः स्यात्

atha yad uktam, āgneyādīnām apy aṅgatvena saṃstutir aṅgatvaṃ khyāpayed iti. tat parihartavyam. utpattāv abhisaṃbandhas tasmād aṅgopadeśaḥ syāt

Sanskrit only: no published translation is held for this verse.

* ४।४३४: ए२: प्रधानाम् * * ४।४३५: ए२: उत्पत्त्यपेक्षया * * ४।४३६: ए२ ओम्। इति * * ४।४३७: ए२: यथा जायमानस्य * तथा चान्यार्थदर्शनम्

* 4/434: E2: pradhānām * * 4/435: E2: utpattyapekṣayā * * 4/436: E2 om. iti * * 4/437: E2: yathā jāyamānasya * tathā cānyārthadarśanam

Sanskrit only: no published translation is held for this verse.

चतुर्दश पूर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति, इतरथा न चतुर्दश पौर्णमास्याम् आहुतयो भवेयुः, न वामावास्यायां त्रयोदशेति। तस्माद् आग्नेयादीनि प्रधानानि, आघारादीन्य् अङ्गानीति सिद्धम्। ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम्

caturdaśa pūrṇamāsyām āhutayo hūyante, trayodaśāmāvāsyāyām iti, itarathā na caturdaśa paurṇamāsyām āhutayo bhaveyuḥ, na vāmāvāsyāyāṃ trayodaśeti. tasmād āgneyādīni pradhānāni, āghārādīny aṅgānīti siddham. jyotiṣṭome tulyāny aviśiṣṭaṃ hi kāraṇam

Sanskrit only: no published translation is held for this verse.

* ४।४३८: ए२: ५,१०३; ए६: २,६५ * गुणानां तूत्पत्तिवाक्येन संबन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात्

* 4/438: E2: 5,103; E6: 2,65 * guṇānāṃ tūtpattivākyena saṃbandhāt kāraṇaśrutis tasmāt somaḥ pradhānaṃ syāt

Sanskrit only: no published translation is held for this verse.

* ४।४३९: तैत्ब्र्। १।५।११।२ * * ४।४४०: तैत्ब्र्। १।५।११।३ * * ४।४४१: ए२: ५,१०५; ए६: २,६५ * * ४।४४२: ए६ ओम्। ज्योतयतेर् वा * * ४।४४३: ए२: द्योत्यन्ते * * ४।४४४: ए२: स्तुत्यम् * तथा चान्यार्थदर्शनम्

* 4/439: Tait.Br. 1.5.11.2 * * 4/440: Tait.Br. 1.5.11.3 * * 4/441: E2: 5,105; E6: 2,65 * * 4/442: E6 om. jyotayater vā * * 4/443: E2: dyotyante * * 4/444: E2: stutyam * tathā cānyārthadarśanam

Sanskrit only: no published translation is held for this verse.