इतश् च पश्यामः, इष्टदीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिर् इति। कस्मात्? समाख्यानं च तद्वद् इति यद्वन् न्याय उपदिष्टः। कथम्? दीक्षणीयेति तादर्थ्यकरी समाख्या भवति, यथा स्नानीयं भोजनीयं चेति। तस्माच् च पश्यामः, इष्टिर् दीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिर् इति। अङ्गवत् क्रतूनाम् आनुपूर्व्यम्
itaś ca paśyāmaḥ, iṣṭadīkṣaṇārthā, iṣṭyante ca pravṛttir iti. kasmāt? samākhyānaṃ ca tadvad iti yadvan nyāya upadiṣṭaḥ. katham? dīkṣaṇīyeti tādarthyakarī samākhyā bhavati, yathā snānīyaṃ bhojanīyaṃ ceti. tasmāc ca paśyāmaḥ, iṣṭir dīkṣaṇārthā, iṣṭyante ca pravṛttir iti. aṅgavat kratūnām ānupūrvyam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.