एवं च सत्य् अतिदेशशास्त्रम् अनर्थकं स्यात्, अशक्यार्थत्वात्। तस्मान् न शब्दस्यापि प्रदेशो युक्तः। वृत्तिकारस् तु मेने, गानशास्त्रम् औक्थिक्यम् अनर्थकं स्याद् इति। तस्याभिप्रायः, सत्यां गतौ नैतावान् प्रयासः शिष्टानाम् अफलो ऽभ्युपगन्तुं न्याय्य इति। स्वरस्येति चेत्
evaṃ ca saty atideśaśāstram anarthakaṃ syāt, aśakyārthatvāt. tasmān na śabdasyāpi pradeśo yuktaḥ. vṛttikāras tu mene, gānaśāstram aukthikyam anarthakaṃ syād iti. tasyābhiprāyaḥ, satyāṃ gatau naitāvān prayāsaḥ śiṣṭānām aphalo 'bhyupagantuṃ nyāyya iti. svarasyeti cet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.