परिहरति -- मा भूद् इति। यद्य् अपि ग्राह्यो ऽयं ग्राहको ऽयम् इति वा न विकल्प्यते, तथापि तावद् एकात्मनः सर्वेणैवात्मना गृहीतत्वाद् यद् एवापेक्षितं तद् एव लभ्यत इति युक्तम् एव वक्तुम्। अन्यो ऽयं ग्राह्यो ऽयं ग्राहको ऽयम् इति शब्दविकल्पः। अन्यच् च ज्ञानरूपम्। तच् चेत् समग्रं गृहीतं, किम् अपरम् अपेक्षणीयं यदग्रहणाद् उभयांशबोधो न भवेद् इति। एवम् अपि चेद् उभयात्मकं न गृह्यते, कथं द्व्यात्मकं भविष्यति। अतः सिद्धं न द्व्यात्मकं ज्ञानम् इत्य् अभिप्रायेणाह -- एवम् इति
pariharati -- mā bhūd iti. yady api grāhyo 'yaṃ grāhako 'yam iti vā na vikalpyate, tathāpi tāvad ekātmanaḥ sarveṇaivātmanā gṛhītatvād yad evāpekṣitaṃ tad eva labhyata iti yuktam eva vaktum. anyo 'yaṃ grāhyo 'yaṃ grāhako 'yam iti śabdavikalpaḥ. anyac ca jñānarūpam. tac cet samagraṃ gṛhītaṃ, kim aparam apekṣaṇīyaṃ yadagrahaṇād ubhayāṃśabodho na bhaved iti. evam api ced ubhayātmakaṃ na gṛhyate, kathaṃ dvyātmakaṃ bhaviṣyati. ataḥ siddhaṃ na dvyātmakaṃ jñānam ity abhiprāyeṇāha -- evam iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.