ज्ञानं ज्ञानम् इत्य् अनुगतं तु रूपं न द्वयोर् ग्राह्यग्राहकयोर् अवगम्यत इत्य् आह -- ज्ञानम् इति। अक्षादिवत् साधारणशब्दताम् अभ्युपगच्छामः न त्व् आकृतिशब्दताम् इति। उपेत्यापि ब्रूमः। तत् खलु सामान्यं पूर्वोत्तरयोर् अनुयायि ताभ्यां भिन्नम् अभिन्नं वा। न तावद् भिन्नं तैर् उपेयत इत्य् आह -- व्यतिरिक्तम् इति
jñānaṃ jñānam ity anugataṃ tu rūpaṃ na dvayor grāhyagrāhakayor avagamyata ity āha -- jñānam iti. akṣādivat sādhāraṇaśabdatām abhyupagacchāmaḥ na tv ākṛtiśabdatām iti. upetyāpi brūmaḥ. tat khalu sāmānyaṃ pūrvottarayor anuyāyi tābhyāṃ bhinnam abhinnaṃ vā. na tāvad bhinnaṃ tair upeyata ity āha -- vyatiriktam iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.