तथा केवलग्राहकसंवित्तिर् अपि सत्यम् पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायते इत्य् अत्रोक्तेत्य् आह -- नेति। अत्र हि पूर्वम् उत्पन्नापि बुद्धिर् न प्राग् अवगम्यते, किन् तु पश्चाद् इति वदता ग्राह्याकारविनिर्मुक्तस्यैव ग्राहकस्य संवित्तिर् उक्तेति
tathā kevalagrāhakasaṃvittir api satyam pūrvaṃ buddhir utpadyate na tu pūrvaṃ jñāyate ity atroktety āha -- neti. atra hi pūrvam utpannāpi buddhir na prāg avagamyate, kin tu paścād iti vadatā grāhyākāravinirmuktasyaiva grāhakasya saṃvittir ukteti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.