अभेदे तु ग्राह्यग्राहकयोर् ग्राहकवद् ग्राह्यस्यापि स्मरणं भवेद् इत्य् आह -- तस्माद् इति। तस्माद् ग्राहकाद् इत्य् अर्थः। यतस् तु ग्राहकमात्रस्यैव स्मृत्यात्मको निर्भासो भवति न ग्राह्यस्य, अतो ऽवगच्छामः यदनुभवकाले ऽप्य् एषा बुद्धिर् एव केवला गृहीता कथम् अन्यथा केवला स्मर्येत। तद् एतद् आह -- ग्राहकेति। ग्राहकमात्रस्य स्मृतिनिर्भासात् कारणात् तत्र ग्राहकग्रहणकाले केवला बुद्धिर् गृह्यते इत्य् अर्थः
abhede tu grāhyagrāhakayor grāhakavad grāhyasyāpi smaraṇaṃ bhaved ity āha -- tasmād iti. tasmād grāhakād ity arthaḥ. yatas tu grāhakamātrasyaiva smṛtyātmako nirbhāso bhavati na grāhyasya, ato 'vagacchāmaḥ yadanubhavakāle 'py eṣā buddhir eva kevalā gṛhītā katham anyathā kevalā smaryeta. tad etad āha -- grāhaketi. grāhakamātrasya smṛtinirbhāsāt kāraṇāt tatra grāhakagrahaṇakāle kevalā buddhir gṛhyate ity arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.