स्याद् एतत्। ग्राह्यांश एवास्य ग्राहको भविष्यतीति। तन् न, कर्मणः कर्तृभावानुपपत्तेर् इत्य् अभिप्रायेणाह -- ग्राह्येति। अपि च ग्राह्यग्राहकभावम् एकस्य ज्ञानस्याभ्युपेत्य भवतोभयग्रहणम् आपाद्यते। यदि च ग्राह्यांशो ऽपि ग्राहको भवेद् द्वैरूप्यम् एव हीयेत। ग्राहकैकस्वभावत्वापत्तेर् इत्य् आह -- ग्राहकेति
syād etat. grāhyāṃśa evāsya grāhako bhaviṣyatīti. tan na, karmaṇaḥ kartṛbhāvānupapatter ity abhiprāyeṇāha -- grāhyeti. api ca grāhyagrāhakabhāvam ekasya jñānasyābhyupetya bhavatobhayagrahaṇam āpādyate. yadi ca grāhyāṃśo 'pi grāhako bhaved dvairūpyam eva hīyeta. grāhakaikasvabhāvatvāpatter ity āha -- grāhaketi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.