अथ वा ग्राह्यांशस् तावद् ग्राह्य एव, यदि च ग्राहको गृह्येत, ततो ग्राह्यैकात्मत्वं भवेद् इत्य् आह -- ग्राहक इति। अत्यल्पं चेदम् अस्माभिर् उच्यते उभयग्रहणे एकरूपतेति। सापि तु न सिध्यत्य् एव। ग्राह्याभावे ग्राहकाभावात् तदभावे ग्राह्याभावाद् इत्य् आह -- न स्याद् इति
atha vā grāhyāṃśas tāvad grāhya eva, yadi ca grāhako gṛhyeta, tato grāhyaikātmatvaṃ bhaved ity āha -- grāhaka iti. atyalpaṃ cedam asmābhir ucyate ubhayagrahaṇe ekarūpateti. sāpi tu na sidhyaty eva. grāhyābhāve grāhakābhāvāt tadabhāve grāhyābhāvād ity āha -- na syād iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.