Library·Sucaritamisra: Mimamsaslokavarttikakasika·15

Sucaritamisra: Mimamsaslokavarttikakasika 15

यदि भाष्यकारः प्रमेयधियः प्रामाण्यं मन्यते, कथं तर्हि धूमादिप्रमाणत्वाभ्युपगमः अत आह -- प्रत्यक्षेति। उक्तम् अस्माभिर् विवक्षाधीनं प्रमाणत्वम् इति। तद् यदा धूमादीनाम् एव प्रकृष्टसाधनत्वम् अवगम्यते, तदा तद् एव प्रमाणम्। भाष्यकारेणापि बुद्धिर् वा जन्म वेत्यादिना प्रत्यक्षानियमं दर्शयता सर्वत्रैवानियमस् तुल्यया दर्शित एव। अतो न धूमादिप्रामाण्याभ्युपगमे भाष्यविरोध इति

yadi bhāṣyakāraḥ prameyadhiyaḥ prāmāṇyaṃ manyate, kathaṃ tarhi dhūmādipramāṇatvābhyupagamaḥ ata āha -- pratyakṣeti. uktam asmābhir vivakṣādhīnaṃ pramāṇatvam iti. tad yadā dhūmādīnām eva prakṛṣṭasādhanatvam avagamyate, tadā tad eva pramāṇam. bhāṣyakāreṇāpi buddhir vā janma vetyādinā pratyakṣāniyamaṃ darśayatā sarvatraivāniyamas tulyayā darśita eva. ato na dhūmādiprāmāṇyābhyupagame bhāṣyavirodha iti

Sanskrit only: no published translation is held for this verse.

तच् चेदम् अनुमानं द्वेधा बौद्धा विभजन्ते स्वार्थं परार्थं चेति। यदाहुः -- अनुमानं द्विधा स्वार्थं त्रिरूपाल् लिङ्गतो ऽर्थदृक् परार्थम् अनुमानं तु स्वदृष्टार्थप्रकाशकम् ॥ इति। तद् इदं द्वैविध्यम् अनुपपन्नम् इत्य् अभिप्रायेणाह -- अनुमानेति। अस्यार्थः -- गुरुशिष्यसहाध्यायिविरोधिप्रतिवादिभ्यः परेभ्यो ऽनुमानगृहीतस्यार्थस्य तेनैवानुमानेन प्रतिपादनं वाञ्छता यथा पूर्वम् अस्माभिः प्रतिपादितः पक्षो विशिष्टो धर्मी प्रमीयत इति स वक्तव्यः। इदम् अत्राकूतम्। स्वयम् अनुमानेन गृहीतम् अर्थं परं प्रतिपादयितुं साधनवाक्यम् एव प्रयुज्यते। परस् तु ततो वाक्यात् त्रिरूपं लिङ्गम् अनुसन्धाय स्वयम् एव साध्यं वस्तु ३,३८ बुध्यते, तद् अस्य स्वार्थम् एवानुमानम्। वक्तुर् अपि स्वयम् अर्थं प्रतिपन्नवतः स्वार्थानुमानम् एव, कतरद् अत्र परार्थानुमानम् इति न विद्मः। वचनं परार्थम् इति चेत्। न। अननुमानत्वात्। वचनं परार्थम् इति तु मृष्यामहे। यद् वदति दर्शनस्य परार्थत्वाद् इति, न तु तदनुमानम्, अत्रिरूपलिङ्गजनितत्वाद् अनर्थदृक् च। त्रिरूपाल् लिङ्गतो ऽर्थदृगनुमानम् इति वस् सिद्धान्तः, अतः कथं वचनम् अनुमानम्। अथानुमानगोचरीकृतार्थप्रतिपादनसमर्थवचनपारार्थ्याद् अनुमानं परार्थम् इत्य् उपचर्यते, ततः प्रत्यक्षप्रतिपन्नम् अप्य् अर्थं बोधयद् वचः परार्थम् इति प्रत्यक्षम् अपि परार्थम् आपद्येत। यदि तु स्वलक्षणविषयत्वात् प्रत्यक्षस्य तस्य चाशब्दगोचरत्वान् न प्रत्यक्षं परार्थम् इत्य् उच्यते। तद् अयुक्तम्। एवं हि प्रत्यक्षगृहीतार्थविपरीताभिधायिनां तद्विरोधोद्भावनवचनं न युज्यते। यो हि प्रत्यक्षविरुद्धम् अर्थं प्रतिजानीते नाग्निर् उष्ण इति, स वचनेन तं प्रत्यक्षविषयम् अर्थं प्रतिपाद्य निराक्रियते। प्रत्यक्षविषये तु शब्दागोचरे तन्नोपपद्येत, अतः प्रत्यक्षविषयम् अपि शब्दो वदतीत्य् अभ्युपगन्तव्यम्। एवं च प्रत्यक्षविषयवचनपरार्थतया कः प्रत्यक्षपरार्थतां वारयतीति द्वैविध्यानुपपत्तिः। अतो यथोदितः पक्ष एव वाच्य इत्य् उक्तवान्। इदं तु वक्तव्यम् -- को ऽयं पक्षो नाम, तद् उच्यते, प्रतिज्ञार्थः पक्षः। का प्रतिज्ञा। साध्यसमर्पकं वचनम्। यदाहुः -- साध्यनिर्देशः प्रतिज्ञेति। अतः साध्यः पक्ष इत्य् आचक्ष्मह इति वाच्यः पक्ष इत्य् उक्तम्। तद्वचनम् इदानीम् उपन्यस्यति -- तत्रेति। तत्र पक्षे धर्मिणं प्रथमम् उद्दिश्य साध्यधर्मो ऽग्न्यादिर् विधीयते। यो ऽयं पर्वतः सो ऽग्निमान् इत्य् उक्तं भवति। इदं तु पक्षवचनं प्रतिज्ञापरनामानम् एके नानुमन्यन्ते। वदन्ति च किम् अनेनानर्थकेन, अन्तरेणापि पक्षवचनम् अपेक्षितं सिध्यत्य् एव। हेतुर् हि साध्यसाधकः। न पक्षस्य वचनम्। न ह्य् अयम् आगमिको ऽर्थः, हेतुवचनानर्थक्यप्रसङ्गात्। आप्तानुसारेण पक्षवचनाद् अर्थनिश्चये हेत्वभिधानम् अनर्थकं स्यात्। वक्तृगुणदोषावधारणप्रवण एव प्रतिवादी भवेत्। हेत्वधीने तु निर्णये तच्छक्तिर् एव निरूपयितुम् उचिता, किं प्रतिज्ञावचनेन। हेतोश् च सामर्थ्यं साध्यान्वयप्रदर्शनेनैव सिद्धम्। अतो यत् कृतकं तद् अनित्यं शब्दश् च कृतक इत्य् उदाहरणोपनयमात्राद् एव साध्यसिद्धेर् अनर्थिका प्रतिज्ञा। हेतोर् एव तु त्रैरूप्यं दर्शयितव्यम्। तच् च दृष्टान्तद्वयेनोपनयेन च कथ्यत इति कृतम् अतिविस्तरेण। ३,३९ यदि तु विवादम् आवेदयितुं प्रतिज्ञावचनम् इत्य् उच्यते। तन् न। अव्यापकत्वात्। यो हि मन्यते -- यदा खल्व् अयं शब्दो नित्य इति प्रतिजानीते तदेतरो ऽनित्यवादी व्युत्थितो भवति ततो जल्पः प्रवर्तत इति। तच् च नैवम्, अव्यापकत्वात्। नेदं प्रतिज्ञावचनस्य व्यापकं प्रयोजनम्। वादे असम्भवात्। शिष्यविषयो हि सः। स च तत्त्वम् एव बोधयितव्यः, अतो हेतुशक्तिम् एव प्रतिपाद्य तत्त्वं बोध्यत इति युक्तम्, किं विवाद आद्रियते, न हि तेन सह विवदितव्यम्। जल्पे स्याद् इति चेद्, न। अन्यथासिद्धेः। तत्रैतत् स्यात् -- जल्पे खलु विवादम् आजिहीर्षुः प्रतिज्ञां प्रणयतीति, तच् च नैवम्। अन्यथासिद्धेः, असत्य् अपि हि पक्षवचने लक्ष्यत एव यथा ध्वनिम् अनित्यम् अनुमिनोतीति, यत् कारणं, यत् कृतकं तद् अनित्यं यथा घट इत्य् उक्त्वा कृतकत्वं ध्वनेर् उपनयति शब्दश् च कृतक इति। ततो जल्पः प्रवर्तिष्यत एव। वितण्डा तु यथा तथा वादे दर्शिते प्रवर्तत एव। न हि वैतण्डिकस्य किञ्चित् परनिग्रहाद् अन्यद् साध्यम् अस्ति। यद् असौ प्रतिज्ञावचनेन क्वचिद् अर्थे साध्यमाने स्वविपरीतसिद्धिं मन्वानो जातोद्वेगो विवदेत्। अतः प्रतिज्ञावचनं कथात्रये ऽप्य् अनुपयुज्यमानम् उपेक्षणीयम् इत्य् आक्षिपन्ति। अत्राभिधीयते -- स्वदृष्टार्थप्रकाशनं परार्थम् अनुमानम् इति भवद्भिर् एवोक्तम्। स्वयं च कुतश्चिद् धेतुविशेषात् किञ्चित् केनचिद् धर्मेण विशिष्टम् अवगतम् इति परस्मा अपि तथैव कथ्यत इति युक्तम्। असत्यां तु प्रतिज्ञायाम् अनाश्रयहेत्वादय आकाशपतिता इव भवेयुः। ननु नायं पक्षवचनपुरस्सरम् अज्ञासीत् साध्यम् इति कथं परस्मै तथा कथयति। मैवम्। यद्य् अपि शब्दो ऽनित्य इति स्वप्रतिपत्तौ नोच्चारितं तथापि सविकल्पकत्वाद् अस्या बुद्धेर् अस्त्य् एवात्र प्रमातुर् विशिष्टो विकल्पः, उच्चारणं तु परार्थम् इति तन्मात्रं स्वप्रतिपत्तौ नासीत्। परस् तु नानुच्चारितेन शब्देन प्रतिपादयितुं शक्यत इत्य् उच्चार्य प्रतिपाद्यत इति शब्दोच्चारणमात्रम् अधिकम्। यत् तु वादे ऽनुपयोग इत्य् उक्तम्, तन् न, सुतराम् उपयोगात्। जल्पवितण्डे हि विजिगीषमाणयोर् द्वयोः प्रवर्तत इति परं भ्रामयितुं प्रतिज्ञावचनं न प्रयुज्येत। अविवादे तु शिष्यो न व्यामोहनीय इति विशदतरम् एव ३,४० प्रतिज्ञावचनेन साध्यत इति युक्तम्। न हि न शब्ददारिद्र्यं, यद् एनं तत्त्वं बुभुत्समानम् उपसन्नम् अविशदवचनेन परिक्लेशयाम। न चैव जल्पे ऽनुपयोग इति। उक्तम् इदम् असति हि प्रतिज्ञावचने ऽनाश्रया हेत्वादयो न प्रवर्तेरन्न् इति। गुणभूता हि ते प्रधानभूतसाध्यापेक्षायां सम्बध्यन्ते। तच् च नासति साध्यनिर्देश उपपद्यते। निर्दिष्टे हि साध्ये कुत इत्य् अपेक्षायां हेतुः सम्बध्यते। ततः कथम् अयम् अव्याप्तो ऽस्य साधक इत्य् अपेक्षिते व्याप्तिवचनम्। इतरथा त्व् ऐकार्थ्याभावाद् एकवाक्यतैव न संवर्तेत। तथा हि -- यत् कृतकं तद् अनित्यम् इत्य् उक्ते कृतकत्वम् अनित्यतया सम्बद्धम् इत्य् अनूदितम्। पुनश् च शब्दः कृतक इति शब्दस्य कृतकतया सम्बन्धो ऽनूदितः। परस्परसम्बन्धे तु न प्रमाणम्। असम्बद्धम् इदं वाक्यद्वयम् इत्य् आशङ्क्येत, कृतकं तावद् अनित्यं शब्दो ऽपि कृतक इति स्वरूपानुवादमात्रम् उभयोर् इति शङ्का जायेत, अर्थान्तरं वापद्येत। यथा चानित्यत्वधर्मा कृतकस् तथा शब्दात्मको ऽपीति, तद् अत्र सर्वे कृतकाश् शब्दात्मान इति साधुसम्पादितम् आपद्येत। अतः प्रधानवाक्यावयवप्रतिज्ञा यद् अपह्नूयते तन् नास्तिकानाम् एव सर्वापलापवादिनां शोभते नेतरेषाम्। सा हि सर्वव्यवहाराणां सारः। यद् आहुः -- सारं तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥ इति सूक्तो वादिवचनप्रकारो धर्मिणम् उद्दिश्य साध्यधर्मो विधीयत इति ॥ ५३ --५४ ॥ नन्व् एवं साध्यविशिष्टे धर्मिणि विधीयमाने केवलसाध्यान्वयावगमाद् धर्मान्तरव्युदासो भवेत्। ततश् चानित्यश् शब्द इत्य् उक्ते ऽनित्य एवेत्य् अवधारणाद् अम्बरगुणत्वादयो ऽपि तद्धर्मा न भवेयुः। एवं च हेतोर् अपि प्रतिक्षेपात् साध्यसिद्धिर् अपि दुर्लभैव। असत्य् अवधारणे नित्यो ऽपि स्याद् इति नेष्टसिद्धः। अथ कथम् एको नित्यो ऽनित्यश् चेत्य् अर्थात् प्रतिपक्षप्रतिक्षेपः। सत्यम्, अत एव तन्निवृत्त्यर्थम् अवधारणे क्रियमाणे इतरनिवृत्तिर् अपि भवेद् अत आह -- नियम इति। साध्यधर्मविवक्षापेक्षयैव नियमः कल्प्यते, न ३,४१ पुनरविरोधिनो ऽपि धर्मान्तरात्। अतो ऽग्निमान् इति साध्यमाने ऽग्न्यभावमात्रम् एव निराकृतं भवति, न पुनः धर्मान्तरम्। यथा शुक्लः पट इत्य् उक्ते तद्विरोधिनस् तदभावस्यैव निवृत्तिर् भवति, नाविरोधिनां सूक्ष्मत्वादिधर्माणाम् इति। अत्र चासन्निकृष्टे ऽर्थ इत्य् उच्यते तस्य को ऽर्थः। यद्य् अनवगतपूर्वम् एवार्थम् अनुमानं गोचरयतीति, तन् न। सम्बन्धज्ञानकाल एव हि यावद्धूमादिभावितयाग्न्यादिसम्बन्धो ऽवगत एव। अन्यथा नियम एवावधारितो न स्यात्। न चात्र देशकालसम्बन्धो ऽधिक इति वक्तव्यम्। धूमस्य हि देशादिसम्बन्धो भासते नाग्नेः। धूमोपलक्षिताशेषदेशसम्बन्धस्य सम्बन्धसमधिगम एवावसायात्। अत एव कैश्चित् स्मरणाभिमाननिरासार्थम् असन्निकृष्टपदं व्याख्यातम्। स्मरणं हि सन्निकृष्टावमर्शोल्लिखितम् एव प्रायशो भवति, स इति हि तत् प्रवर्तते। न चैवम् अनुमानम्। अतो नेदं स्मरणम्। नन्व् असत्य् अपि तदुल्लेखे स्मरणम् उत्पद्यत एव। यथा प्रमोषे। मैवम्। ग्रहणकारणाभाषाद् धि तत्रानुभवाकारप्रवृत्तम् अपि ज्ञानं स्मृतिर् इत्य् आस्थितम्। न ह्य् असन्निहितरजताद्यवभासकारणत्वम् इन्द्रियाणां प्राप्यकारिणां सम्भवति। स्मृतिहेतुस् तु प्राचीनानुभवप्रभाविता भावना समस्तीति स्मृतिर् एव प्रमुषिततदवमर्शा सेत्य् आश्रितम्। इदं तु प्रत्युत्पन्नलिङ्गादिकारणबलाद् उत्पद्यमानं लैङ्गिकज्ञानम् अनुभवाकारप्रवृत्तं न तद्भावाद् उत्तारयितुं शक्यम्। अनुभूतिश् च नः प्रमाणम्। अतः प्रमाणम् अनुमानम् इत्य् आख्यायते। यद्य् एवम् अस्तु तर्हीदम् एवासन्निकृष्टपदस्य प्रयोजनम्। न। फलाभावेनाप्रामाण्यप्रसङ्गात्। अधिकपरिच्छेदफलं प्रमाणं भवति। परिच्छेदमात्रस्य तु फलत्वे स्मृताव् अपि प्रसङ्गः। सापि हि स्वगोचरपरिच्छेदात्मिकैव जायते। स्यान् मतम् -- अनपेक्षं हि नः प्रमाणम्। अपेक्षते च स्मरणं ग्रहणम्। अतो न प्रमाणम् इति। तन् न। लैङ्गिके प्रसङ्गात्। तद् अपि ह्य् एकदेशदर्शनादिसापेक्षम् एव। स्वविषयग्रहणापेक्षं स्मरणं नेदम् इति चेन् न। इहापि तदपेक्षणात्। लैङ्गिकम् अपि हि प्राचीनाग्निज्ञानसापेक्षम् एव। न ह्य् अनवगताग्नेर् अविदितसम्बन्धस्याग्निर् अत्रेति मतिराविर् अस्ति। न च ग्रहणं प्रमाणम् एवेति राजाज्ञा। भ्रान्ताव् अपि प्रसङ्गात्। विपरीतावग्रहो ऽपि ग्रहणम् एव। न च प्रमाणम्। न चासौ नास्तीति यथार्थायथार्थज्ञानविभागं व्याचक्षाणैर् अस्माभिर् उक्तम् एव। अपि च अर्थे ऽनुपलब्ध इति सूत्रयता सूत्रकारेण ३,४२ सर्वम् अनुपलब्धार्थविषयम् एव प्रमाणम् इति सूत्रितम्। एतद् अपि तद्व्याख्यानावसरे वर्णितम् एव। अतो व्याख्येयम् असन्निकृष्टार्थग्रहणम् अत आह -- असन्निकृष्टेति। अस्यार्थः -- द्वेधा हि सन्निकृष्टं भवति तद्रूपप्रमितं विपरीतनिरूपितं वा। तदुभयजिहासयेयम् असन्निकृष्टवाग् इति। किं पुनस् तन्निराकरणम् अत आह -- प्रमितस्येति। व्यवहारार्थं ह्य् अप्रमितपरिच्छेदाय प्रमाणम् अपेक्ष्यते न व्यसनेन। स च सकृत्प्रमाणव्यापाराद् एव सिद्ध इति न प्रमाणान्तरापेक्षेति ॥ ५५ -- ५६ ॥ किं पुनः प्रमितस्य प्रमाणान्तरापेक्षा न जायेत। अत आह -- ताद्रूप्येणेति। वर्णितम् इदं - द्वेधा हि प्रमितं भवति ताद्रूप्येण वैपरीत्येनेति। तत्र तावत् ताद्रूप्यपरिच्छेदे न परं प्रमाणं फलवत्। पूर्वपरिच्छेदाद् एव तदर्थसिद्धेः। वैपरीत्यपरिच्छेदे तु प्रमाणान्तरम् अनवकाशम् एवेति तदुभयनिराकरणार्थम् असन्निकृष्टग्रहणम् अर्थवत्। नन्व् एवम् अप्रमाणम् एवानुमानं सन्निकृष्टविषयत्वाद् इत्य् उक्तम् एव। न। अधिकारविषयत्वात्। यद्य् अपि पूर्वावगतो धर्मः स्मृतिविषयः। धर्मी च गिरिर् अनुभवसिद्धः, तथापि विशिष्टम् अनुमानेन विषयीक्रियत इति वर्णितम् असकृत्। नन्व् अग्निविशिष्टो ऽपि सम्बन्धसमय एव संविदितः। एवं ह्य् अनेन व्याप्तिग्रहणकाले ऽवगतं धूमवन्मात्रम् अग्निमद् इति। तद् अस्य धूमवन्मात्र एवापेक्षा। विदिते तु तस्मिन्न् अग्निमत्ता प्रमितपूर्वैवानुभूयते। सत्यम्। किन् तु धूमवान् अग्निमत्तया प्रमितपूर्वो ऽपि सम्प्रत्यनुमानेन प्रत्यभिज्ञायते। प्रत्यभिज्ञानं चेदं प्रमाणम् एव प्रत्यक्षप्रत्यभिज्ञानवत्। पूर्वं हि धूमवत्त्वोपलक्षितेन रूपेणाग्निमत्तया देशो निर्ज्ञातः। सम्प्रत्ययम् असाव् अग्निमान् इति विशेषतो ऽनुमानेन प्रत्यभिज्ञायत इति किम् अनुपपन्नम्। अवश्यं चैवम् अभ्युपगन्तव्यम्, अन्यथा कथम् अग्निमान् इति विदित्वा व्यवहाराय घटते। एष हि पक्तुकामो ऽग्निमत्ताम् अनुमायाग्नये धावतीति पश्यामः। ३,४३ तत् कस्य हेतोः, न यदि पूर्वानुभवाद् अद्य विशेषः, अवागमत् खल्व् अयं धूमवान् अग्निमान् इति, न चाग्नये धावतीति। कथम् अनाश्रयप्रतिपन्ने ऽग्नौ व्यवहरतीति चेत्। न। प्राग् अपि धूमवदाश्रयत्वेनावगमात्। पर्वतमधुना प्रत्यक्षेण विशेषतो ऽवगम्याग्नये व्यवहरतीति चेत्। किम् अस्याग्न्यर्थिनः पर्वतप्रत्यक्षेण। तद् अयम् अग्निमत्तया बोध एव पूर्वबोधाद् विलक्षणो ऽभ्युपगन्तव्यः। यत् कृतो व्यवहारविशेष इत्य् अगृहीतविषयत्वाद् अनुमानं प्रमाणम् इति वक्तव्यम्। तद् इदम् असन्निकृष्टग्रहणेनोक्तम्। ये तु स्मृत्याशङ्कानिराकरणम् अस्य प्रयोजनम् आहुः, तेषां बाधितविषयम् अप्य् अनुमानम् आपद्येत। न हि तन्निराकरणम् अवयवान्तरेण लक्षणग्रन्थे कृतम् उपलभ्यते। अतो ऽसन्निकृष्टग्रहणम् एवोभयविधसन्निकृष्टार्थनिराकरणार्थम् इति साध्वी व्याख्येति

tac cedam anumānaṃ dvedhā bauddhā vibhajante svārthaṃ parārthaṃ ceti. yadāhuḥ -- anumānaṃ dvidhā svārthaṃ trirūpāl liṅgato 'rthadṛk parārtham anumānaṃ tu svadṛṣṭārthaprakāśakam || iti. tad idaṃ dvaividhyam anupapannam ity abhiprāyeṇāha -- anumāneti. asyārthaḥ -- guruśiṣyasahādhyāyivirodhiprativādibhyaḥ parebhyo 'numānagṛhītasyārthasya tenaivānumānena pratipādanaṃ vāñchatā yathā pūrvam asmābhiḥ pratipāditaḥ pakṣo viśiṣṭo dharmī pramīyata iti sa vaktavyaḥ. idam atrākūtam. svayam anumānena gṛhītam arthaṃ paraṃ pratipādayituṃ sādhanavākyam eva prayujyate. paras tu tato vākyāt trirūpaṃ liṅgam anusandhāya svayam eva sādhyaṃ vastu 3,38 budhyate, tad asya svārtham evānumānam. vaktur api svayam arthaṃ pratipannavataḥ svārthānumānam eva, katarad atra parārthānumānam iti na vidmaḥ. vacanaṃ parārtham iti cet. na. ananumānatvāt. vacanaṃ parārtham iti tu mṛṣyāmahe. yad vadati darśanasya parārthatvād iti, na tu tadanumānam, atrirūpaliṅgajanitatvād anarthadṛk ca. trirūpāl liṅgato 'rthadṛganumānam iti vas siddhāntaḥ, ataḥ kathaṃ vacanam anumānam. athānumānagocarīkṛtārthapratipādanasamarthavacanapārārthyād anumānaṃ parārtham ity upacaryate, tataḥ pratyakṣapratipannam apy arthaṃ bodhayad vacaḥ parārtham iti pratyakṣam api parārtham āpadyeta. yadi tu svalakṣaṇaviṣayatvāt pratyakṣasya tasya cāśabdagocaratvān na pratyakṣaṃ parārtham ity ucyate. tad ayuktam. evaṃ hi pratyakṣagṛhītārthaviparītābhidhāyināṃ tadvirodhodbhāvanavacanaṃ na yujyate. yo hi pratyakṣaviruddham arthaṃ pratijānīte nāgnir uṣṇa iti, sa vacanena taṃ pratyakṣaviṣayam arthaṃ pratipādya nirākriyate. pratyakṣaviṣaye tu śabdāgocare tannopapadyeta, ataḥ pratyakṣaviṣayam api śabdo vadatīty abhyupagantavyam. evaṃ ca pratyakṣaviṣayavacanaparārthatayā kaḥ pratyakṣaparārthatāṃ vārayatīti dvaividhyānupapattiḥ. ato yathoditaḥ pakṣa eva vācya ity uktavān. idaṃ tu vaktavyam -- ko 'yaṃ pakṣo nāma, tad ucyate, pratijñārthaḥ pakṣaḥ. kā pratijñā. sādhyasamarpakaṃ vacanam. yadāhuḥ -- sādhyanirdeśaḥ pratijñeti. ataḥ sādhyaḥ pakṣa ity ācakṣmaha iti vācyaḥ pakṣa ity uktam. tadvacanam idānīm upanyasyati -- tatreti. tatra pakṣe dharmiṇaṃ prathamam uddiśya sādhyadharmo 'gnyādir vidhīyate. yo 'yaṃ parvataḥ so 'gnimān ity uktaṃ bhavati. idaṃ tu pakṣavacanaṃ pratijñāparanāmānam eke nānumanyante. vadanti ca kim anenānarthakena, antareṇāpi pakṣavacanam apekṣitaṃ sidhyaty eva. hetur hi sādhyasādhakaḥ. na pakṣasya vacanam. na hy ayam āgamiko 'rthaḥ, hetuvacanānarthakyaprasaṅgāt. āptānusāreṇa pakṣavacanād arthaniścaye hetvabhidhānam anarthakaṃ syāt. vaktṛguṇadoṣāvadhāraṇapravaṇa eva prativādī bhavet. hetvadhīne tu nirṇaye tacchaktir eva nirūpayitum ucitā, kiṃ pratijñāvacanena. hetoś ca sāmarthyaṃ sādhyānvayapradarśanenaiva siddham. ato yat kṛtakaṃ tad anityaṃ śabdaś ca kṛtaka ity udāharaṇopanayamātrād eva sādhyasiddher anarthikā pratijñā. hetor eva tu trairūpyaṃ darśayitavyam. tac ca dṛṣṭāntadvayenopanayena ca kathyata iti kṛtam ativistareṇa. 3,39 yadi tu vivādam āvedayituṃ pratijñāvacanam ity ucyate. tan na. avyāpakatvāt. yo hi manyate -- yadā khalv ayaṃ śabdo nitya iti pratijānīte tadetaro 'nityavādī vyutthito bhavati tato jalpaḥ pravartata iti. tac ca naivam, avyāpakatvāt. nedaṃ pratijñāvacanasya vyāpakaṃ prayojanam. vāde asambhavāt. śiṣyaviṣayo hi saḥ. sa ca tattvam eva bodhayitavyaḥ, ato hetuśaktim eva pratipādya tattvaṃ bodhyata iti yuktam, kiṃ vivāda ādriyate, na hi tena saha vivaditavyam. jalpe syād iti ced, na. anyathāsiddheḥ. tatraitat syāt -- jalpe khalu vivādam ājihīrṣuḥ pratijñāṃ praṇayatīti, tac ca naivam. anyathāsiddheḥ, asaty api hi pakṣavacane lakṣyata eva yathā dhvanim anityam anuminotīti, yat kāraṇaṃ, yat kṛtakaṃ tad anityaṃ yathā ghaṭa ity uktvā kṛtakatvaṃ dhvaner upanayati śabdaś ca kṛtaka iti. tato jalpaḥ pravartiṣyata eva. vitaṇḍā tu yathā tathā vāde darśite pravartata eva. na hi vaitaṇḍikasya kiñcit paranigrahād anyad sādhyam asti. yad asau pratijñāvacanena kvacid arthe sādhyamāne svaviparītasiddhiṃ manvāno jātodvego vivadet. ataḥ pratijñāvacanaṃ kathātraye 'py anupayujyamānam upekṣaṇīyam ity ākṣipanti. atrābhidhīyate -- svadṛṣṭārthaprakāśanaṃ parārtham anumānam iti bhavadbhir evoktam. svayaṃ ca kutaścid dhetuviśeṣāt kiñcit kenacid dharmeṇa viśiṣṭam avagatam iti parasmā api tathaiva kathyata iti yuktam. asatyāṃ tu pratijñāyām anāśrayahetvādaya ākāśapatitā iva bhaveyuḥ. nanu nāyaṃ pakṣavacanapurassaram ajñāsīt sādhyam iti kathaṃ parasmai tathā kathayati. maivam. yady api śabdo 'nitya iti svapratipattau noccāritaṃ tathāpi savikalpakatvād asyā buddher asty evātra pramātur viśiṣṭo vikalpaḥ, uccāraṇaṃ tu parārtham iti tanmātraṃ svapratipattau nāsīt. paras tu nānuccāritena śabdena pratipādayituṃ śakyata ity uccārya pratipādyata iti śabdoccāraṇamātram adhikam. yat tu vāde 'nupayoga ity uktam, tan na, sutarām upayogāt. jalpavitaṇḍe hi vijigīṣamāṇayor dvayoḥ pravartata iti paraṃ bhrāmayituṃ pratijñāvacanaṃ na prayujyeta. avivāde tu śiṣyo na vyāmohanīya iti viśadataram eva 3,40 pratijñāvacanena sādhyata iti yuktam. na hi na śabdadāridryaṃ, yad enaṃ tattvaṃ bubhutsamānam upasannam aviśadavacanena parikleśayāma. na caiva jalpe 'nupayoga iti. uktam idam asati hi pratijñāvacane 'nāśrayā hetvādayo na pravarterann iti. guṇabhūtā hi te pradhānabhūtasādhyāpekṣāyāṃ sambadhyante. tac ca nāsati sādhyanirdeśa upapadyate. nirdiṣṭe hi sādhye kuta ity apekṣāyāṃ hetuḥ sambadhyate. tataḥ katham ayam avyāpto 'sya sādhaka ity apekṣite vyāptivacanam. itarathā tv aikārthyābhāvād ekavākyataiva na saṃvarteta. tathā hi -- yat kṛtakaṃ tad anityam ity ukte kṛtakatvam anityatayā sambaddham ity anūditam. punaś ca śabdaḥ kṛtaka iti śabdasya kṛtakatayā sambandho 'nūditaḥ. parasparasambandhe tu na pramāṇam. asambaddham idaṃ vākyadvayam ity āśaṅkyeta, kṛtakaṃ tāvad anityaṃ śabdo 'pi kṛtaka iti svarūpānuvādamātram ubhayor iti śaṅkā jāyeta, arthāntaraṃ vāpadyeta. yathā cānityatvadharmā kṛtakas tathā śabdātmako 'pīti, tad atra sarve kṛtakāś śabdātmāna iti sādhusampāditam āpadyeta. ataḥ pradhānavākyāvayavapratijñā yad apahnūyate tan nāstikānām eva sarvāpalāpavādināṃ śobhate netareṣām. sā hi sarvavyavahārāṇāṃ sāraḥ. yad āhuḥ -- sāraṃ tu vyavahārāṇāṃ pratijñā samudāhṛtā | taddhānau hīyate vādī taraṃs tām uttaro bhavet || iti sūkto vādivacanaprakāro dharmiṇam uddiśya sādhyadharmo vidhīyata iti || 53 --54 || nanv evaṃ sādhyaviśiṣṭe dharmiṇi vidhīyamāne kevalasādhyānvayāvagamād dharmāntaravyudāso bhavet. tataś cānityaś śabda ity ukte 'nitya evety avadhāraṇād ambaraguṇatvādayo 'pi taddharmā na bhaveyuḥ. evaṃ ca hetor api pratikṣepāt sādhyasiddhir api durlabhaiva. asaty avadhāraṇe nityo 'pi syād iti neṣṭasiddhaḥ. atha katham eko nityo 'nityaś cety arthāt pratipakṣapratikṣepaḥ. satyam, ata eva tannivṛttyartham avadhāraṇe kriyamāṇe itaranivṛttir api bhaved ata āha -- niyama iti. sādhyadharmavivakṣāpekṣayaiva niyamaḥ kalpyate, na 3,41 punaravirodhino 'pi dharmāntarāt. ato 'gnimān iti sādhyamāne 'gnyabhāvamātram eva nirākṛtaṃ bhavati, na punaḥ dharmāntaram. yathā śuklaḥ paṭa ity ukte tadvirodhinas tadabhāvasyaiva nivṛttir bhavati, nāvirodhināṃ sūkṣmatvādidharmāṇām iti. atra cāsannikṛṣṭe 'rtha ity ucyate tasya ko 'rthaḥ. yady anavagatapūrvam evārtham anumānaṃ gocarayatīti, tan na. sambandhajñānakāla eva hi yāvaddhūmādibhāvitayāgnyādisambandho 'vagata eva. anyathā niyama evāvadhārito na syāt. na cātra deśakālasambandho 'dhika iti vaktavyam. dhūmasya hi deśādisambandho bhāsate nāgneḥ. dhūmopalakṣitāśeṣadeśasambandhasya sambandhasamadhigama evāvasāyāt. ata eva kaiścit smaraṇābhimānanirāsārtham asannikṛṣṭapadaṃ vyākhyātam. smaraṇaṃ hi sannikṛṣṭāvamarśollikhitam eva prāyaśo bhavati, sa iti hi tat pravartate. na caivam anumānam. ato nedaṃ smaraṇam. nanv asaty api tadullekhe smaraṇam utpadyata eva. yathā pramoṣe. maivam. grahaṇakāraṇābhāṣād dhi tatrānubhavākārapravṛttam api jñānaṃ smṛtir ity āsthitam. na hy asannihitarajatādyavabhāsakāraṇatvam indriyāṇāṃ prāpyakāriṇāṃ sambhavati. smṛtihetus tu prācīnānubhavaprabhāvitā bhāvanā samastīti smṛtir eva pramuṣitatadavamarśā sety āśritam. idaṃ tu pratyutpannaliṅgādikāraṇabalād utpadyamānaṃ laiṅgikajñānam anubhavākārapravṛttaṃ na tadbhāvād uttārayituṃ śakyam. anubhūtiś ca naḥ pramāṇam. ataḥ pramāṇam anumānam ity ākhyāyate. yady evam astu tarhīdam evāsannikṛṣṭapadasya prayojanam. na. phalābhāvenāprāmāṇyaprasaṅgāt. adhikaparicchedaphalaṃ pramāṇaṃ bhavati. paricchedamātrasya tu phalatve smṛtāv api prasaṅgaḥ. sāpi hi svagocaraparicchedātmikaiva jāyate. syān matam -- anapekṣaṃ hi naḥ pramāṇam. apekṣate ca smaraṇaṃ grahaṇam. ato na pramāṇam iti. tan na. laiṅgike prasaṅgāt. tad api hy ekadeśadarśanādisāpekṣam eva. svaviṣayagrahaṇāpekṣaṃ smaraṇaṃ nedam iti cen na. ihāpi tadapekṣaṇāt. laiṅgikam api hi prācīnāgnijñānasāpekṣam eva. na hy anavagatāgner aviditasambandhasyāgnir atreti matirāvir asti. na ca grahaṇaṃ pramāṇam eveti rājājñā. bhrāntāv api prasaṅgāt. viparītāvagraho 'pi grahaṇam eva. na ca pramāṇam. na cāsau nāstīti yathārthāyathārthajñānavibhāgaṃ vyācakṣāṇair asmābhir uktam eva. api ca arthe 'nupalabdha iti sūtrayatā sūtrakāreṇa 3,42 sarvam anupalabdhārthaviṣayam eva pramāṇam iti sūtritam. etad api tadvyākhyānāvasare varṇitam eva. ato vyākhyeyam asannikṛṣṭārthagrahaṇam ata āha -- asannikṛṣṭeti. asyārthaḥ -- dvedhā hi sannikṛṣṭaṃ bhavati tadrūpapramitaṃ viparītanirūpitaṃ vā. tadubhayajihāsayeyam asannikṛṣṭavāg iti. kiṃ punas tannirākaraṇam ata āha -- pramitasyeti. vyavahārārthaṃ hy apramitaparicchedāya pramāṇam apekṣyate na vyasanena. sa ca sakṛtpramāṇavyāpārād eva siddha iti na pramāṇāntarāpekṣeti || 55 -- 56 || kiṃ punaḥ pramitasya pramāṇāntarāpekṣā na jāyeta. ata āha -- tādrūpyeṇeti. varṇitam idaṃ - dvedhā hi pramitaṃ bhavati tādrūpyeṇa vaiparītyeneti. tatra tāvat tādrūpyaparicchede na paraṃ pramāṇaṃ phalavat. pūrvaparicchedād eva tadarthasiddheḥ. vaiparītyaparicchede tu pramāṇāntaram anavakāśam eveti tadubhayanirākaraṇārtham asannikṛṣṭagrahaṇam arthavat. nanv evam apramāṇam evānumānaṃ sannikṛṣṭaviṣayatvād ity uktam eva. na. adhikāraviṣayatvāt. yady api pūrvāvagato dharmaḥ smṛtiviṣayaḥ. dharmī ca girir anubhavasiddhaḥ, tathāpi viśiṣṭam anumānena viṣayīkriyata iti varṇitam asakṛt. nanv agniviśiṣṭo 'pi sambandhasamaya eva saṃviditaḥ. evaṃ hy anena vyāptigrahaṇakāle 'vagataṃ dhūmavanmātram agnimad iti. tad asya dhūmavanmātra evāpekṣā. vidite tu tasminn agnimattā pramitapūrvaivānubhūyate. satyam. kin tu dhūmavān agnimattayā pramitapūrvo 'pi sampratyanumānena pratyabhijñāyate. pratyabhijñānaṃ cedaṃ pramāṇam eva pratyakṣapratyabhijñānavat. pūrvaṃ hi dhūmavattvopalakṣitena rūpeṇāgnimattayā deśo nirjñātaḥ. sampratyayam asāv agnimān iti viśeṣato 'numānena pratyabhijñāyata iti kim anupapannam. avaśyaṃ caivam abhyupagantavyam, anyathā katham agnimān iti viditvā vyavahārāya ghaṭate. eṣa hi paktukāmo 'gnimattām anumāyāgnaye dhāvatīti paśyāmaḥ. 3,43 tat kasya hetoḥ, na yadi pūrvānubhavād adya viśeṣaḥ, avāgamat khalv ayaṃ dhūmavān agnimān iti, na cāgnaye dhāvatīti. katham anāśrayapratipanne 'gnau vyavaharatīti cet. na. prāg api dhūmavadāśrayatvenāvagamāt. parvatamadhunā pratyakṣeṇa viśeṣato 'vagamyāgnaye vyavaharatīti cet. kim asyāgnyarthinaḥ parvatapratyakṣeṇa. tad ayam agnimattayā bodha eva pūrvabodhād vilakṣaṇo 'bhyupagantavyaḥ. yat kṛto vyavahāraviśeṣa ity agṛhītaviṣayatvād anumānaṃ pramāṇam iti vaktavyam. tad idam asannikṛṣṭagrahaṇenoktam. ye tu smṛtyāśaṅkānirākaraṇam asya prayojanam āhuḥ, teṣāṃ bādhitaviṣayam apy anumānam āpadyeta. na hi tannirākaraṇam avayavāntareṇa lakṣaṇagranthe kṛtam upalabhyate. ato 'sannikṛṣṭagrahaṇam evobhayavidhasannikṛṣṭārthanirākaraṇārtham iti sādhvī vyākhyeti

Sanskrit only: no published translation is held for this verse.

वैपरीत्यपरिच्छिन्ने परम् अनवकाशम् इत्य् उक्तम्। तत्र कारणम् आह -- मूल इति। व्याप्तिस्मरणादि ह्य् अनुमानस्य मूलम्, तद् यावद् उत्तरं तत्तद्व्यापारव्यग्रतया विलम्बते तावच्छीघ्रभाविना पूर्वेण विषयापहाराद् विप्रकृष्टसाधनस्योत्पत्तिर् एव निरुध्यत इत्य् अनन्तरम् एव वक्ष्यत इति। कथं पुनर् अनुमानं बाध्यते। तद् अपि हि प्रमाणं कथं प्रमाणान्तरेण बाधितुं शक्यते। बाधे वा न क्वचिद् आश्वासो भवेत्। आभासो बाध्यत इति चेत्, कथम् आभासत्वम्। यदि बाधाद् एवेतराश्रयं तर्ह्य् अस्तु वा ज्येष्ठप्रमाणेन प्रत्यक्षेणानुमानबाधः। न तु ततो ऽपि जघन्यैर् अपरैर् बाध्यते, तत् कस्य हेतोः अत आह -- प्रत्यक्षादेर् इति स्यादन्तेन। अयम् अभिप्रायः -- न प्रमाणं नाम क्वचित् बाध्यते। अवधारणात्मकं ह्य् एवैतद् इति ज्ञानं प्रमाणम्। तद् यत्र कस्यचिद् अर्थस्य केनचिद् आत्मनावधारणं भवति तत्र तेनोत्पन्नस्योत्पत्स्यमानस्य वा ज्ञानस्य बाधो ऽभिधीयेत। तद्द्विविधो हि बाधः प्राप्तबाधश् चाप्राप्तबाधश् चेति। प्राप्तबाधो हि यथा -- शुक्तिकारजतज्ञाने। तत्र हि पूर्वोपमर्दनेनैवोत्तरम् ३,४४ आत्मानं लभत इति तत् तस्य बाधकम्। उत्तरं च देशादिभेदे ऽप्य् अबाधितं स्वभावतश् च प्रमाणं पूर्वम् आभासीकरोति। तद् एवं प्राप्तबाधे तावद् येनोत्तरेणार्थो ऽवधारितः। त्रिविधम् अप्य् अप्रामाण्यम् अवधारितपदेन व्युदस्यति। न ह्य् अज्ञातस् सन्दिग्धो विपर्यस्तो वार्थो ऽवधारितो भवतीति त्रिविधम् अप्य् अप्रामाण्यं यस्य नास्तीत्य् उक्तं भवति। तद् एवमात्मना ज्ञानेन पूर्वम् आभासीकृतम् इति तत्राभास एव बाध्यत इति नातिप्रसङ्गः। अप्राप्तबाधे तु यावत् क्लिष्टसाधनम् अनुमानं स्वगोचरे सामान्यशास्त्रं वा क्वचिद् विशेषविषये प्रवर्तितुम् आरभते तावत् प्रत्यक्षेणानुमानेन वा सिद्धसर्वाङ्गकेनागमेन वा विशेषविषयेण शीघ्रजन्मना येनैवार्थो ऽवधारितो भवति तेनैवोत्तरस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति। न हि बलवता शीघ्रभाविना प्रमाणेन निरुद्धमुखम् उत्पत्तुम् अर्हति। तद् एवमप्राप्तबाधे परम् अनुत्पन्नम् एव प्राप्तिसम्भावनया तु बाध्यत इत्य् उच्यते श्रुत्य् एव लिङ्गम् इति न क्वचित् प्रमाणबाधः। यत् तु जघन्येन मुख्यबाधो न युक्त इति। तन् न। न हि प्रत्यक्षादीनां विनियोगप्रमाणानाम् इव पारदौर्बल्यनियमः। यद् एव तु शीघ्रभावि पूर्वोपमर्देन वात्मानं लभते तद् एव बाधकम् अभिदध्महे। इतरच् च बाध्यम् अत एव तेनैव तस्य बाधं ब्रूमः। प्राप्तबाध इव प्रत्यक्षस्य तेनैवानुमानेन च सिद्धाङ्गकेन साध्याङ्गकस्य विशेषशास्त्रेण सामान्यशास्त्रस्य। अतस् सर्वप्रमाणाविरुद्धम् एव पक्षम् अभिधास्यामः। न चानाश्वासः। आभासबाधात्। स्वतः प्रमाणेन चावधारणात्मना ज्ञानेनेतराभासीकरणात्। तद् इदम् अवधारितपदेनोक्तम् इति। ननु च बलवतापि नावश्यं दुर्बलं बाध्यते। असति हि सम्भवे बाधस् सम्भवति। अतो विषयव्यवस्थाया विकल्पेन समुच्चयेन वोभयम् उपपादयिष्यते विनात्यन्तिकबाधाश्रयणेन, अत आह -- विकल्पादेर् इति। नात्रोक्ता विकल्पादयस् सम्भवन्ति। न तावत्परस्परविरुद्धं रूपद्वयम् एकत्र समुच्चीयते। न हि श्रावणो ऽश्रावणश् च नित्यो ऽनित्यश् चेति सम्भवति। न च विकल्पः। विधिनिषेधविषयत्वात् तस्य सिद्धे वस्तुन्य् असम्भवात्। न च विषयव्यवस्था, वर्णात्मनाम् एव नित्यानित्यत्वसाधनात्। अतो ऽसम्भवाद् एव बाधम् अभिदध्मह इति। एवम् उपपादितो बाध उदाहरणैर् दर्शयितव्यः। तत्र प्रत्यक्षबाधम् एव तावद् दर्शयति अग्राह्यतेति। इमं तु प्रत्यक्षबाधं न बुध्यामहे। स्वगोचरविपरीतार्थं हि प्रमाणं ३,४५ प्रत्यक्षेण बाध्यत इति युक्तम्। न च ग्राह्यता प्रत्यक्षविषया ग्राह्यग्रहणसम्बन्धविषयत्वात् तलः। तस्य च प्रत्यक्षागोचरत्वात्। शब्दो हि प्रत्यक्षः न ग्राह्यता। अत एव ह्य् अश्रावणतापक्षो ऽपि न प्रत्यक्षेण विरुध्यत इति वक्ष्यते। अत्रोच्यते। सत्यम्, नेन्द्रियविषयो ग्राह्यता, ग्राह्यस् तु तद्विषयः। तद् इह ग्राह्यापलापस्यैव प्रत्यक्षविरोधो दर्शितः। निरालम्बनानुमानस्येति यावत्। प्रत्ययस् त्व् अग्राह्यपदाद् उपपन्नस् तस्यैवाभावम् अभिधत्ते। कश् च ग्राह्यस्य भावो ऽन्यद् अतो भावात्। इयं हि शशविषाणस्याग्राह्यता यन् न भवति। तदभावाद् एव तत्राग्राह्यताभिधानप्रत्ययौ। तद् अनेन प्रकारेण शब्दाभावपक्षस्यैव प्रत्यक्षविरोध उपदिष्ट इति न किञ्चिद् अनुपपन्नम् इति ॥ ५८ -- ५९ ॥ अनुमानविरोधोदाहरणम् आह -- तेषाम् इति। तेषाम् एव शब्दादीनाम् अश्रावणत्वाद्यनुमानविरुद्धं यो ह्य् अश्रावणम् अनित्यं वा शब्दं पक्षम् इच्छति तस्यासौ शीघ्रभाविना विपर्ययानुमानेन बाध्यत इति। इदं तु प्रत्यक्षविरोधम् अन्ये मन्यन्ते। तान् निराकरोति -- न हीति। शब्दो हि प्रत्यक्षः न तच्छ्रावणता ग्राह्यग्राहकसम्बन्धो हि शब्दस्य श्रावणस्य च त्वतल्भ्याम् उच्यते। कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् इति स्मृतेः। स च न प्रत्यक्षेण समधिगम्यः। अपि च अतीन्द्रियं श्रोत्रं, कथं तत्सम्बन्धश् शब्दस्य प्रत्यक्षो भविष्यति। न ह्य् ऐन्द्रियानैन्द्रियाधारस् सम्बन्धः प्रत्यक्षो भवति वायुवनस्पत्योर् इव। अतो नायं प्रत्यक्षविरोध इति

vaiparītyaparicchinne param anavakāśam ity uktam. tatra kāraṇam āha -- mūla iti. vyāptismaraṇādi hy anumānasya mūlam, tad yāvad uttaraṃ tattadvyāpāravyagratayā vilambate tāvacchīghrabhāvinā pūrveṇa viṣayāpahārād viprakṛṣṭasādhanasyotpattir eva nirudhyata ity anantaram eva vakṣyata iti. kathaṃ punar anumānaṃ bādhyate. tad api hi pramāṇaṃ kathaṃ pramāṇāntareṇa bādhituṃ śakyate. bādhe vā na kvacid āśvāso bhavet. ābhāso bādhyata iti cet, katham ābhāsatvam. yadi bādhād evetarāśrayaṃ tarhy astu vā jyeṣṭhapramāṇena pratyakṣeṇānumānabādhaḥ. na tu tato 'pi jaghanyair aparair bādhyate, tat kasya hetoḥ ata āha -- pratyakṣāder iti syādantena. ayam abhiprāyaḥ -- na pramāṇaṃ nāma kvacit bādhyate. avadhāraṇātmakaṃ hy evaitad iti jñānaṃ pramāṇam. tad yatra kasyacid arthasya kenacid ātmanāvadhāraṇaṃ bhavati tatra tenotpannasyotpatsyamānasya vā jñānasya bādho 'bhidhīyeta. taddvividho hi bādhaḥ prāptabādhaś cāprāptabādhaś ceti. prāptabādho hi yathā -- śuktikārajatajñāne. tatra hi pūrvopamardanenaivottaram 3,44 ātmānaṃ labhata iti tat tasya bādhakam. uttaraṃ ca deśādibhede 'py abādhitaṃ svabhāvataś ca pramāṇaṃ pūrvam ābhāsīkaroti. tad evaṃ prāptabādhe tāvad yenottareṇārtho 'vadhāritaḥ. trividham apy aprāmāṇyam avadhāritapadena vyudasyati. na hy ajñātas sandigdho viparyasto vārtho 'vadhārito bhavatīti trividham apy aprāmāṇyaṃ yasya nāstīty uktaṃ bhavati. tad evamātmanā jñānena pūrvam ābhāsīkṛtam iti tatrābhāsa eva bādhyata iti nātiprasaṅgaḥ. aprāptabādhe tu yāvat kliṣṭasādhanam anumānaṃ svagocare sāmānyaśāstraṃ vā kvacid viśeṣaviṣaye pravartitum ārabhate tāvat pratyakṣeṇānumānena vā siddhasarvāṅgakenāgamena vā viśeṣaviṣayeṇa śīghrajanmanā yenaivārtho 'vadhārito bhavati tenaivottarasyotpattipratibandhalakṣaṇo bādho bhavati. na hi balavatā śīghrabhāvinā pramāṇena niruddhamukham utpattum arhati. tad evamaprāptabādhe param anutpannam eva prāptisambhāvanayā tu bādhyata ity ucyate śruty eva liṅgam iti na kvacit pramāṇabādhaḥ. yat tu jaghanyena mukhyabādho na yukta iti. tan na. na hi pratyakṣādīnāṃ viniyogapramāṇānām iva pāradaurbalyaniyamaḥ. yad eva tu śīghrabhāvi pūrvopamardena vātmānaṃ labhate tad eva bādhakam abhidadhmahe. itarac ca bādhyam ata eva tenaiva tasya bādhaṃ brūmaḥ. prāptabādha iva pratyakṣasya tenaivānumānena ca siddhāṅgakena sādhyāṅgakasya viśeṣaśāstreṇa sāmānyaśāstrasya. atas sarvapramāṇāviruddham eva pakṣam abhidhāsyāmaḥ. na cānāśvāsaḥ. ābhāsabādhāt. svataḥ pramāṇena cāvadhāraṇātmanā jñānenetarābhāsīkaraṇāt. tad idam avadhāritapadenoktam iti. nanu ca balavatāpi nāvaśyaṃ durbalaṃ bādhyate. asati hi sambhave bādhas sambhavati. ato viṣayavyavasthāyā vikalpena samuccayena vobhayam upapādayiṣyate vinātyantikabādhāśrayaṇena, ata āha -- vikalpāder iti. nātroktā vikalpādayas sambhavanti. na tāvatparasparaviruddhaṃ rūpadvayam ekatra samuccīyate. na hi śrāvaṇo 'śrāvaṇaś ca nityo 'nityaś ceti sambhavati. na ca vikalpaḥ. vidhiniṣedhaviṣayatvāt tasya siddhe vastuny asambhavāt. na ca viṣayavyavasthā, varṇātmanām eva nityānityatvasādhanāt. ato 'sambhavād eva bādham abhidadhmaha iti. evam upapādito bādha udāharaṇair darśayitavyaḥ. tatra pratyakṣabādham eva tāvad darśayati agrāhyateti. imaṃ tu pratyakṣabādhaṃ na budhyāmahe. svagocaraviparītārthaṃ hi pramāṇaṃ 3,45 pratyakṣeṇa bādhyata iti yuktam. na ca grāhyatā pratyakṣaviṣayā grāhyagrahaṇasambandhaviṣayatvāt talaḥ. tasya ca pratyakṣāgocaratvāt. śabdo hi pratyakṣaḥ na grāhyatā. ata eva hy aśrāvaṇatāpakṣo 'pi na pratyakṣeṇa virudhyata iti vakṣyate. atrocyate. satyam, nendriyaviṣayo grāhyatā, grāhyas tu tadviṣayaḥ. tad iha grāhyāpalāpasyaiva pratyakṣavirodho darśitaḥ. nirālambanānumānasyeti yāvat. pratyayas tv agrāhyapadād upapannas tasyaivābhāvam abhidhatte. kaś ca grāhyasya bhāvo 'nyad ato bhāvāt. iyaṃ hi śaśaviṣāṇasyāgrāhyatā yan na bhavati. tadabhāvād eva tatrāgrāhyatābhidhānapratyayau. tad anena prakāreṇa śabdābhāvapakṣasyaiva pratyakṣavirodha upadiṣṭa iti na kiñcid anupapannam iti || 58 -- 59 || anumānavirodhodāharaṇam āha -- teṣām iti. teṣām eva śabdādīnām aśrāvaṇatvādyanumānaviruddhaṃ yo hy aśrāvaṇam anityaṃ vā śabdaṃ pakṣam icchati tasyāsau śīghrabhāvinā viparyayānumānena bādhyata iti. idaṃ tu pratyakṣavirodham anye manyante. tān nirākaroti -- na hīti. śabdo hi pratyakṣaḥ na tacchrāvaṇatā grāhyagrāhakasambandho hi śabdasya śrāvaṇasya ca tvatalbhyām ucyate. kṛttaddhitasamāseṣu sambandhābhidhānaṃ tvatalbhyām iti smṛteḥ. sa ca na pratyakṣeṇa samadhigamyaḥ. api ca atīndriyaṃ śrotraṃ, kathaṃ tatsambandhaś śabdasya pratyakṣo bhaviṣyati. na hy aindriyānaindriyādhāras sambandhaḥ pratyakṣo bhavati vāyuvanaspatyor iva. ato nāyaṃ pratyakṣavirodha iti

Sanskrit only: no published translation is held for this verse.