ननु स्वरूपमात्राभिधायिनाम् अपि क्षेपिष्ठादिवाक्यानां शास्त्रत्वम् इष्यते, किम् उच्यते प्रवृत्तिनिवृत्त्यङ्गं शास्त्रम् इति। अत आह -- स्वरूपेति। तदङ्गत्वेनेति। विधायकवाक्यैकदेशत्वेनेत्य् अर्थः। अस्ति हि तत्रापि वायव्यं श्वेतम् आलभेत भूतिकाम इति विध्युद्देशः। तेनैकवाक्यभूतो वायुर् वै क्षेपिष्ठेत्य् एवमादिः। अतो युक्तं तस्यापि शास्त्रत्वम् इति
nanu svarūpamātrābhidhāyinām api kṣepiṣṭhādivākyānāṃ śāstratvam iṣyate, kim ucyate pravṛttinivṛttyaṅgaṃ śāstram iti. ata āha -- svarūpeti. tadaṅgatveneti. vidhāyakavākyaikadeśatvenety arthaḥ. asti hi tatrāpi vāyavyaṃ śvetam ālabheta bhūtikāma iti vidhyuddeśaḥ. tenaikavākyabhūto vāyur vai kṣepiṣṭhety evamādiḥ. ato yuktaṃ tasyāpi śāstratvam iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.