अथार्थापत्तिपरिच्छेदः अत्र भाष्यम्। अर्थापत्तिर् अपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यत इत्य् अर्थकल्पना। यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति। अस्यार्थः -- अर्थापत्तिर् अपि न परीक्षितव्या, एवंलक्षणकत्वेनाव्यभिचाराद् इति। किं पुनर् अनेनार्थापत्तेर् लक्षणम् उक्तम्। अर्थो ऽन्यथानुपपद्यमानो यदर्थान्तरं कल्पयति सार्थापत्तिः। यथा जीवतो देवदत्तस्य गृहाभावो बहिर्भावेन विना नोपपद्यमानो यद् बहिर्भावं कल्पयति सार्थापत्तिर् इत्य् उक्तम्। यद्य् एवं केयम् अन्यथानुपपत्तिर् नाम। यदि तावद् अनेन विनास्य सद्भावो नोपपद्यत इति, तद् इदं कार्यतः कारणानुमानम् उपन्यस्तं, न प्रमाणान्तरम्। अथ ज्ञातसम्बन्धस्यानुमानम्, अर्थापत्तौ न सम्बन्धज्ञानम् अपेक्षत इत्य् उच्यते, तद् अयुक्तम्। न ह्य् अज्ञाते सम्बन्धे ऽनेन विना नोपपद्यत इति शक्यते वक्तुम्। ३,१५८ यद् एव ह्य् अस्येदं कार्यम् इत्यादिना रूपेण ज्ञातसम्बन्धनियमः, तद् एव स्वकारणेन विना नोपपद्यत इति शक्यम् अवसातुम्, धूम इवाग्निना विना। अतो ऽविनाभावसम्बन्धबलोत्थम् एवेदं ज्ञानम् इति शब्दान्तरेणोक्तम्। स्याद् एतत्। दृष्टस्वलक्षणविषयम् अनुमानम् अग्न्यादिषु दृष्टम्, अदृष्टस्वलक्षणविषयार्थापत्तिश् शक्त्यादिषूपजायत इति। तन् न। दृष्टम् अदृष्टं वा ज्ञातसम्बन्धम् अवगम्यते ऽन्यथानुपपत्त्या, कार्यसामान्यं हि कारणसामान्येन विनानुपपद्यमानं यत् तत् कल्पयति तद् अपि सम्बन्धज्ञानेन जायमानं कथम् अनुमानाद् भिद्यते। अदृष्टस्वलक्षणविषयता चानुमानस्य क्रियानुमाने वर्णितैव। अतः प्रमाणान्तरमृगतृष्णिकैवेयम्। सत्यम्, यदि यद् येन विना नोपपद्यते तद् तद्गमकं स्यात्। इह तु यन् नोपपद्यते तद् एव गम्यम्। किम् इदानीं बहिर्भावो गृहामावेन विना नोपपद्यते। बाढम्। न हि गृहे ऽपि भवन् देवदत्तो बहिर् अपि भवति, तद् अस्य बहिर्भावो गृहाभावदर्शनेनैवोपपद्यते। ननु भाष्यकारो दृष्टः श्रुतो वेत्यादि वदन् गमकस्यान्यथानुपपद्यमानतां दर्शयति। न गम्यस्य। अग्रन्थज्ञो देवानां प्रियः। दृष्टः श्रुतो वार्थो ऽर्थकल्पनेति हि सम्बन्धः। किम् उक्तं भवति, अर्थान्तरस्य प्रमाणम् इति। अन्यथा नोपपद्यत इति तर्हि केन सम्बध्यते, प्रमित्येति वदामः। अन्यथानुपपद्यमानताम् आपादयन्नर्थान्तरस्य गमक इति। कस्यार्थान्तरस्य। यदि बहिर्भावस्य, नास्यानुपपत्तिं गृहाभाव आपादयति, न हि गृहाभावदर्शिनो बहिर्भावो नोपपद्यत इति बुध्यन्ते लौकिकाः, किन् तु चैत्रो बहिर् अस्तीति। अपि च गम्यविशेषणम् अन्यथानुपपत्तिम् आचक्षाणैर् गमकस्य किम् अन्यथानुपपत्तिर् नेष्यत एव यद्य् एवं कथं ततो बहिर्भावसिद्धिः। अथ सो ऽपि नोपपद्यते, ततो ऽविनाभावबलेनैव ज्ञानम् इति पुनरनुमानत्वम्। किम् अर्थं चान्यथा नोपपद्यत इति गमकपरित्यागेनाश्रूयमाणया प्रतीत्या योज्यते। अथोच्यते -- अर्थान्तरस्य चैत्रसम्बन्धिनो विद्यमानत्वस्यान्यथानुपपत्तिम् आपादयन् गृहाभावो बहिर्भावं कल्पयतीति। संशयापादनं चान्यथानुपपद्यमानत्वापादनं, येन हि प्रायेण गृहे निवसंश् चैत्रो दृष्टः स गृहाभावदर्शनेनैव चैत्रस्य सद्भाव एव संशेते। प्रतीते ऽपि हि वस्तुनि ३,१५९ पूर्वप्रतिपन्नरूपान्तराभावावगमस् संशयम् आपादयति। देवदत्तस्य विद्यमानता गृहसम्बन्धावगतेति तदभावदर्शनाद् भवति विद्यमानत्वे संशयः -- किम् अस्ति चैत्रो न वेति। अयं च संशयो ऽनुपपत्तिर् इत्य् आख्यायते। ताम् इमां विद्यमानत्वस्य संशयरूपाम् अनुपपत्तिम् आपादयन् गृहाभावो बहिर्भावकल्पनया संशयम् उत्सारयंश् चैत्रस्य विद्यमानत्वम् उपपादयति। तद् इह गृहाभावो विद्यमानत्वस्यार्थान्तरस्य संशयापादनद्वारेण बहिर्भावेनानवगतसम्बन्धो ऽपि तं गमयति। विद्यमानत्वम् एव वा गृहाभावापादितानुपपत्तिकं स्वोपपादनाय बहिर्भावं कल्पयतीति द्वेधा दर्शनम्। अत एव चानुमानाद् भेदः। न ह्य् अनुमाने धूमादिः कस्याचित् संशयरूपाम् अनुपपत्तिम् आपादयंस् तदापादितानुपपत्तिकं वा किञ्चिद् अग्न्यादिकं गमयति। किन् तु असन्दिग्धाद् एव धूमाद् अग्निर् अनुमीयते। यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्। तथेह सन्दिग्धम् इति दर्शनबलाद् अभ्युपगन्तव्यम्। तद् एतद् असाम्प्रतम्। तथा हि -- यत् तावद् उक्तं गृहाभावस् संशयम् आपादयतीति। तद् अयुक्तम्। कथं हि तेन विद्यमानत्वे संशय आपाद्यते। गृहे चैत्रो दृष्टः कथम् इह न भवतीति चेद्, न तावद् एवं सर्वे प्रतियन्ति, येनापि हि स तत्र दृष्टः, सो ऽपि तं जीवन्तं तत्रासन्तम् अवगम्य सहसा बहिर्भावं कल्पयतीति। अपि च -- यदि वस्तुधर्मविसंवादात् सन्देहः, न तर्हि बहिर्भावकल्पनायां निमित्तं पश्यामः। यथा हि मृतजनिष्यमाणयोः गृहाभावो न बहिर्भावं सूचयति, एवं सन्दिग्धसद्भावस्यापि। यावद् धि चैत्रस्य विद्यमानता न निश्चीयते, न तावद् गृहाभावमात्रदर्शनेन बहिश् चैत्रो ऽवस्थापयितुं शक्यते। संशयनिराकरणार्थम् अपि चात्र प्रमाणान्तरम् अर्थनीयम्। न बहिर्भावः। निराकृते तु संशये निश्चितसद्भावो गृहाभावदर्शनेन बहिर् अस्तीति गम्यते। अथ निश्चितसद्भावस्यैव स्थितिप्रकारे सन्देहः कथम् अस्तीति। स तर्हि चैत्रम् अपश्यतो ऽपि भवतीति किं गृहाभावदर्शनेन। न चासौ बहिर्भावकल्पनाबीजम्। अतो बहिर्भावकल्पनाप्रत्यनीकम् एव संशयापादनं, यत् तत्सिद्धये द्वारम् आश्रितम्। साधु सम्पादितम्। अतो न विद्मः कीदृशो लक्षणार्थ इति। ३,१६० अत आह -- प्रमाणेति। अन्यथा नोपपद्यत इत्य् अन्यथानुपपद्यमानताम् आपादयन् गमयतीति व्याचक्ष्महे। अपि तर्हि दृष्टश्रुतविशेषणम् एवेदम्। य एव कश्चित् प्रमाणषट्कविज्ञातो ऽर्थो ऽन्यथानुपपद्यमानतया गृहीतः, स एव स्वोपपादनायान्यम् अर्थं कल्पयति तद्विषया कल्पनाबुद्धिर् अर्थापत्तिर् इति। नन्व् एवम् अविनाभावबलोत्था बुद्धिर् अनुमानम् इत्य् आपादितम्। मैवम्। न ह्य् अन्यथा नोपपद्यत इत्य् अविनाभावम् आचष्टे। स ह्य् अनेन विना न भवतीत्य् उक्ते गम्यते। किं नामानेनोच्यते, दृष्टः श्रुतः कल्पनाम् अन्तरेण नोपपद्यत इति। का पुनर् अस्यानुपपत्तिः, न हि दृष्टे ऽनुपपन्नं नाम। दृष्टम् अपि प्रमाणान्तरविरोधाद् यत् प्रतिहन्यते सानुपपत्तिः। दृष्टो हि गृहे चैत्राभावो ऽभावेन। आनुमानिकी च तस्य जीवतः क्वचित् सत्ता। सानिर्धारितदेशविशेषतया गृहम् अपि व्याप्नोति। सो ऽयम् अभावानुमानयोर् विरोधो ऽनुपपत्तिर् आख्यायते। संशयो ऽपि चात्र प्रमाणान्तरविप्रतिपत्तिर् एवानवस्थितोभयभानवस्तुलक्षणः। अथवायम् अनध्यवसाय एवैकस्मिन् बुद्धिम् उपसंहर्तुं युक्तिविशेषाद् अशक्नुवतः। अतो नेहान्यतरद् उपादातुं हातुं वा शक्यं प्रमाणत्वाविशेषात्। तद् इह सङ्कटे प्रामाणिको ऽनुमानस्य विषयं कल्पयति -- बहिर् अस्तीति, न हिंस्याद् इति सामान्यशास्त्रस्येव विहितवर्जितां हिंसाम्। एवं चोभयम् उपपादितं भवति अभावो ऽनुमानं चेति। सर्वत्र चैवम् एव दर्शयितव्यम्। त्रैरूप्यरहितत्वं चास्या उत्तरत्र वक्ष्यामः। अत्र च दृष्ट इत्य् उच्यते, तत्र न विद्मः, किम् इह चक्षुर्मात्रेण दृष्टो ऽभिप्रेतः, उत प्रत्यक्षमात्रदृष्टः। पूर्वस्मिन् पक्षे श्रोत्रादिपूर्विकार्थापत्तिर् न स्यात्, उत्तरस्मिन्न् अनुमानादिपूर्विका। अथ प्रमितमात्रपरिग्रहार्थो दृष्टशब्दः, श्रुतो वेति तर्हि किं भेदेनोपादीयते, शब्दावगतम् अपि हि प्रमितम् एव। अथोच्यते नेदम् अर्थान्तरविवक्षया श्रुतग्रहणम्, किन् तर्हि, अभिधानान्तरम् एवेदम् उपलब्धेर् वाचकम्। उपलब्धिमात्रविवक्षया ३,१६१ हि दृष्टश्रुतशब्दम् उपचरन्तो लौकिका दृश्यन्ते। न दृष्टो न श्रुतः कश्चित् स्वयं दत्तापहारक इति। यथा एतद् एवाभिप्रेत्य टीकाकारेणोक्तं दृष्टः श्रुतो वेति लौकिकम् अभिधानम् इति। शाब्दीम् उपलब्धिं प्रमाणान्तरेभ्यो भेदेन लौकिका उपाददाना दृश्यन्त इत्य् उक्तं भवति। इदम् अपि नोपपन्नम्। कथं हि लक्षणग्रन्थे सुनिपुणो भाष्यकारो ऽभिप्रायान्तरम् अन्तरेण श्रुतपदं प्रयुङ्क्त इत्य् उत्प्रेक्षितुम् अपि शक्यम् इति वाच्यम् उभयोपादानप्रयोजनम् अत आह -- दृष्ट इति। सत्यम्। पञ्चभिर् अपि प्रत्यक्षादिभिर् दृष्टो दृष्टो भवति। उपलब्धिपर्याय एव दृष्टशब्द इति यावत्। तथाप्य् अस्माद् दृष्टाद् भेदेन यच्छ्रुतोद्भवार्थापत्तिर् उपादीयते, तद् अस्याः प्रमाणग्राहितया पूर्वस्या दृष्टार्थापत्तेर् वैलक्षण्यं दर्शयितुम्। तच् चोपरिष्टाद् वक्ष्यते। प्रथमार्थापत्त्यपेक्षया च पञ्चभिर् इत्य् उक्तम् इति प्रमाणषट्कपूर्विकार्थापत्त्युदाहरणावसरे
athārthāpattiparicchedaḥ atra bhāṣyam. arthāpattir api dṛṣṭaḥ śruto vārtho 'nyathā nopapadyata ity arthakalpanā. yathā jīvato devadattasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya parikalpanā iti. asyārthaḥ -- arthāpattir api na parīkṣitavyā, evaṃlakṣaṇakatvenāvyabhicārād iti. kiṃ punar anenārthāpatter lakṣaṇam uktam. artho 'nyathānupapadyamāno yadarthāntaraṃ kalpayati sārthāpattiḥ. yathā jīvato devadattasya gṛhābhāvo bahirbhāvena vinā nopapadyamāno yad bahirbhāvaṃ kalpayati sārthāpattir ity uktam. yady evaṃ keyam anyathānupapattir nāma. yadi tāvad anena vināsya sadbhāvo nopapadyata iti, tad idaṃ kāryataḥ kāraṇānumānam upanyastaṃ, na pramāṇāntaram. atha jñātasambandhasyānumānam, arthāpattau na sambandhajñānam apekṣata ity ucyate, tad ayuktam. na hy ajñāte sambandhe 'nena vinā nopapadyata iti śakyate vaktum. 3,158 yad eva hy asyedaṃ kāryam ityādinā rūpeṇa jñātasambandhaniyamaḥ, tad eva svakāraṇena vinā nopapadyata iti śakyam avasātum, dhūma ivāgninā vinā. ato 'vinābhāvasambandhabalottham evedaṃ jñānam iti śabdāntareṇoktam. syād etat. dṛṣṭasvalakṣaṇaviṣayam anumānam agnyādiṣu dṛṣṭam, adṛṣṭasvalakṣaṇaviṣayārthāpattiś śaktyādiṣūpajāyata iti. tan na. dṛṣṭam adṛṣṭaṃ vā jñātasambandham avagamyate 'nyathānupapattyā, kāryasāmānyaṃ hi kāraṇasāmānyena vinānupapadyamānaṃ yat tat kalpayati tad api sambandhajñānena jāyamānaṃ katham anumānād bhidyate. adṛṣṭasvalakṣaṇaviṣayatā cānumānasya kriyānumāne varṇitaiva. ataḥ pramāṇāntaramṛgatṛṣṇikaiveyam. satyam, yadi yad yena vinā nopapadyate tad tadgamakaṃ syāt. iha tu yan nopapadyate tad eva gamyam. kim idānīṃ bahirbhāvo gṛhāmāvena vinā nopapadyate. bāḍham. na hi gṛhe 'pi bhavan devadatto bahir api bhavati, tad asya bahirbhāvo gṛhābhāvadarśanenaivopapadyate. nanu bhāṣyakāro dṛṣṭaḥ śruto vetyādi vadan gamakasyānyathānupapadyamānatāṃ darśayati. na gamyasya. agranthajño devānāṃ priyaḥ. dṛṣṭaḥ śruto vārtho 'rthakalpaneti hi sambandhaḥ. kim uktaṃ bhavati, arthāntarasya pramāṇam iti. anyathā nopapadyata iti tarhi kena sambadhyate, pramityeti vadāmaḥ. anyathānupapadyamānatām āpādayannarthāntarasya gamaka iti. kasyārthāntarasya. yadi bahirbhāvasya, nāsyānupapattiṃ gṛhābhāva āpādayati, na hi gṛhābhāvadarśino bahirbhāvo nopapadyata iti budhyante laukikāḥ, kin tu caitro bahir astīti. api ca gamyaviśeṣaṇam anyathānupapattim ācakṣāṇair gamakasya kim anyathānupapattir neṣyata eva yady evaṃ kathaṃ tato bahirbhāvasiddhiḥ. atha so 'pi nopapadyate, tato 'vinābhāvabalenaiva jñānam iti punaranumānatvam. kim arthaṃ cānyathā nopapadyata iti gamakaparityāgenāśrūyamāṇayā pratītyā yojyate. athocyate -- arthāntarasya caitrasambandhino vidyamānatvasyānyathānupapattim āpādayan gṛhābhāvo bahirbhāvaṃ kalpayatīti. saṃśayāpādanaṃ cānyathānupapadyamānatvāpādanaṃ, yena hi prāyeṇa gṛhe nivasaṃś caitro dṛṣṭaḥ sa gṛhābhāvadarśanenaiva caitrasya sadbhāva eva saṃśete. pratīte 'pi hi vastuni 3,159 pūrvapratipannarūpāntarābhāvāvagamas saṃśayam āpādayati. devadattasya vidyamānatā gṛhasambandhāvagateti tadabhāvadarśanād bhavati vidyamānatve saṃśayaḥ -- kim asti caitro na veti. ayaṃ ca saṃśayo 'nupapattir ity ākhyāyate. tām imāṃ vidyamānatvasya saṃśayarūpām anupapattim āpādayan gṛhābhāvo bahirbhāvakalpanayā saṃśayam utsārayaṃś caitrasya vidyamānatvam upapādayati. tad iha gṛhābhāvo vidyamānatvasyārthāntarasya saṃśayāpādanadvāreṇa bahirbhāvenānavagatasambandho 'pi taṃ gamayati. vidyamānatvam eva vā gṛhābhāvāpāditānupapattikaṃ svopapādanāya bahirbhāvaṃ kalpayatīti dvedhā darśanam. ata eva cānumānād bhedaḥ. na hy anumāne dhūmādiḥ kasyācit saṃśayarūpām anupapattim āpādayaṃs tadāpāditānupapattikaṃ vā kiñcid agnyādikaṃ gamayati. kin tu asandigdhād eva dhūmād agnir anumīyate. yathā cānumāne niścitarūpaṃ liṅgaṃ gamakam. tatheha sandigdham iti darśanabalād abhyupagantavyam. tad etad asāmpratam. tathā hi -- yat tāvad uktaṃ gṛhābhāvas saṃśayam āpādayatīti. tad ayuktam. kathaṃ hi tena vidyamānatve saṃśaya āpādyate. gṛhe caitro dṛṣṭaḥ katham iha na bhavatīti ced, na tāvad evaṃ sarve pratiyanti, yenāpi hi sa tatra dṛṣṭaḥ, so 'pi taṃ jīvantaṃ tatrāsantam avagamya sahasā bahirbhāvaṃ kalpayatīti. api ca -- yadi vastudharmavisaṃvādāt sandehaḥ, na tarhi bahirbhāvakalpanāyāṃ nimittaṃ paśyāmaḥ. yathā hi mṛtajaniṣyamāṇayoḥ gṛhābhāvo na bahirbhāvaṃ sūcayati, evaṃ sandigdhasadbhāvasyāpi. yāvad dhi caitrasya vidyamānatā na niścīyate, na tāvad gṛhābhāvamātradarśanena bahiś caitro 'vasthāpayituṃ śakyate. saṃśayanirākaraṇārtham api cātra pramāṇāntaram arthanīyam. na bahirbhāvaḥ. nirākṛte tu saṃśaye niścitasadbhāvo gṛhābhāvadarśanena bahir astīti gamyate. atha niścitasadbhāvasyaiva sthitiprakāre sandehaḥ katham astīti. sa tarhi caitram apaśyato 'pi bhavatīti kiṃ gṛhābhāvadarśanena. na cāsau bahirbhāvakalpanābījam. ato bahirbhāvakalpanāpratyanīkam eva saṃśayāpādanaṃ, yat tatsiddhaye dvāram āśritam. sādhu sampāditam. ato na vidmaḥ kīdṛśo lakṣaṇārtha iti. 3,160 ata āha -- pramāṇeti. anyathā nopapadyata ity anyathānupapadyamānatām āpādayan gamayatīti vyācakṣmahe. api tarhi dṛṣṭaśrutaviśeṣaṇam evedam. ya eva kaścit pramāṇaṣaṭkavijñāto 'rtho 'nyathānupapadyamānatayā gṛhītaḥ, sa eva svopapādanāyānyam arthaṃ kalpayati tadviṣayā kalpanābuddhir arthāpattir iti. nanv evam avinābhāvabalotthā buddhir anumānam ity āpāditam. maivam. na hy anyathā nopapadyata ity avinābhāvam ācaṣṭe. sa hy anena vinā na bhavatīty ukte gamyate. kiṃ nāmānenocyate, dṛṣṭaḥ śrutaḥ kalpanām antareṇa nopapadyata iti. kā punar asyānupapattiḥ, na hi dṛṣṭe 'nupapannaṃ nāma. dṛṣṭam api pramāṇāntaravirodhād yat pratihanyate sānupapattiḥ. dṛṣṭo hi gṛhe caitrābhāvo 'bhāvena. ānumānikī ca tasya jīvataḥ kvacit sattā. sānirdhāritadeśaviśeṣatayā gṛham api vyāpnoti. so 'yam abhāvānumānayor virodho 'nupapattir ākhyāyate. saṃśayo 'pi cātra pramāṇāntaravipratipattir evānavasthitobhayabhānavastulakṣaṇaḥ. athavāyam anadhyavasāya evaikasmin buddhim upasaṃhartuṃ yuktiviśeṣād aśaknuvataḥ. ato nehānyatarad upādātuṃ hātuṃ vā śakyaṃ pramāṇatvāviśeṣāt. tad iha saṅkaṭe prāmāṇiko 'numānasya viṣayaṃ kalpayati -- bahir astīti, na hiṃsyād iti sāmānyaśāstrasyeva vihitavarjitāṃ hiṃsām. evaṃ cobhayam upapāditaṃ bhavati abhāvo 'numānaṃ ceti. sarvatra caivam eva darśayitavyam. trairūpyarahitatvaṃ cāsyā uttaratra vakṣyāmaḥ. atra ca dṛṣṭa ity ucyate, tatra na vidmaḥ, kim iha cakṣurmātreṇa dṛṣṭo 'bhipretaḥ, uta pratyakṣamātradṛṣṭaḥ. pūrvasmin pakṣe śrotrādipūrvikārthāpattir na syāt, uttarasminn anumānādipūrvikā. atha pramitamātraparigrahārtho dṛṣṭaśabdaḥ, śruto veti tarhi kiṃ bhedenopādīyate, śabdāvagatam api hi pramitam eva. athocyate nedam arthāntaravivakṣayā śrutagrahaṇam, kin tarhi, abhidhānāntaram evedam upalabdher vācakam. upalabdhimātravivakṣayā 3,161 hi dṛṣṭaśrutaśabdam upacaranto laukikā dṛśyante. na dṛṣṭo na śrutaḥ kaścit svayaṃ dattāpahāraka iti. yathā etad evābhipretya ṭīkākāreṇoktaṃ dṛṣṭaḥ śruto veti laukikam abhidhānam iti. śābdīm upalabdhiṃ pramāṇāntarebhyo bhedena laukikā upādadānā dṛśyanta ity uktaṃ bhavati. idam api nopapannam. kathaṃ hi lakṣaṇagranthe sunipuṇo bhāṣyakāro 'bhiprāyāntaram antareṇa śrutapadaṃ prayuṅkta ity utprekṣitum api śakyam iti vācyam ubhayopādānaprayojanam ata āha -- dṛṣṭa iti. satyam. pañcabhir api pratyakṣādibhir dṛṣṭo dṛṣṭo bhavati. upalabdhiparyāya eva dṛṣṭaśabda iti yāvat. tathāpy asmād dṛṣṭād bhedena yacchrutodbhavārthāpattir upādīyate, tad asyāḥ pramāṇagrāhitayā pūrvasyā dṛṣṭārthāpatter vailakṣaṇyaṃ darśayitum. tac copariṣṭād vakṣyate. prathamārthāpattyapekṣayā ca pañcabhir ity uktam iti pramāṇaṣaṭkapūrvikārthāpattyudāharaṇāvasare
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.