Library·Sucaritamisra: Mimamsaslokavarttikakasika·29

Sucaritamisra: Mimamsaslokavarttikakasika 29

अथार्थापत्तिपरिच्छेदः अत्र भाष्यम्। अर्थापत्तिर् अपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यत इत्य् अर्थकल्पना। यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति। अस्यार्थः -- अर्थापत्तिर् अपि न परीक्षितव्या, एवंलक्षणकत्वेनाव्यभिचाराद् इति। किं पुनर् अनेनार्थापत्तेर् लक्षणम् उक्तम्। अर्थो ऽन्यथानुपपद्यमानो यदर्थान्तरं कल्पयति सार्थापत्तिः। यथा जीवतो देवदत्तस्य गृहाभावो बहिर्भावेन विना नोपपद्यमानो यद् बहिर्भावं कल्पयति सार्थापत्तिर् इत्य् उक्तम्। यद्य् एवं केयम् अन्यथानुपपत्तिर् नाम। यदि तावद् अनेन विनास्य सद्भावो नोपपद्यत इति, तद् इदं कार्यतः कारणानुमानम् उपन्यस्तं, न प्रमाणान्तरम्। अथ ज्ञातसम्बन्धस्यानुमानम्, अर्थापत्तौ न सम्बन्धज्ञानम् अपेक्षत इत्य् उच्यते, तद् अयुक्तम्। न ह्य् अज्ञाते सम्बन्धे ऽनेन विना नोपपद्यत इति शक्यते वक्तुम्। ३,१५८ यद् एव ह्य् अस्येदं कार्यम् इत्यादिना रूपेण ज्ञातसम्बन्धनियमः, तद् एव स्वकारणेन विना नोपपद्यत इति शक्यम् अवसातुम्, धूम इवाग्निना विना। अतो ऽविनाभावसम्बन्धबलोत्थम् एवेदं ज्ञानम् इति शब्दान्तरेणोक्तम्। स्याद् एतत्। दृष्टस्वलक्षणविषयम् अनुमानम् अग्न्यादिषु दृष्टम्, अदृष्टस्वलक्षणविषयार्थापत्तिश् शक्त्यादिषूपजायत इति। तन् न। दृष्टम् अदृष्टं वा ज्ञातसम्बन्धम् अवगम्यते ऽन्यथानुपपत्त्या, कार्यसामान्यं हि कारणसामान्येन विनानुपपद्यमानं यत् तत् कल्पयति तद् अपि सम्बन्धज्ञानेन जायमानं कथम् अनुमानाद् भिद्यते। अदृष्टस्वलक्षणविषयता चानुमानस्य क्रियानुमाने वर्णितैव। अतः प्रमाणान्तरमृगतृष्णिकैवेयम्। सत्यम्, यदि यद् येन विना नोपपद्यते तद् तद्गमकं स्यात्। इह तु यन् नोपपद्यते तद् एव गम्यम्। किम् इदानीं बहिर्भावो गृहामावेन विना नोपपद्यते। बाढम्। न हि गृहे ऽपि भवन् देवदत्तो बहिर् अपि भवति, तद् अस्य बहिर्भावो गृहाभावदर्शनेनैवोपपद्यते। ननु भाष्यकारो दृष्टः श्रुतो वेत्यादि वदन् गमकस्यान्यथानुपपद्यमानतां दर्शयति। न गम्यस्य। अग्रन्थज्ञो देवानां प्रियः। दृष्टः श्रुतो वार्थो ऽर्थकल्पनेति हि सम्बन्धः। किम् उक्तं भवति, अर्थान्तरस्य प्रमाणम् इति। अन्यथा नोपपद्यत इति तर्हि केन सम्बध्यते, प्रमित्येति वदामः। अन्यथानुपपद्यमानताम् आपादयन्नर्थान्तरस्य गमक इति। कस्यार्थान्तरस्य। यदि बहिर्भावस्य, नास्यानुपपत्तिं गृहाभाव आपादयति, न हि गृहाभावदर्शिनो बहिर्भावो नोपपद्यत इति बुध्यन्ते लौकिकाः, किन् तु चैत्रो बहिर् अस्तीति। अपि च गम्यविशेषणम् अन्यथानुपपत्तिम् आचक्षाणैर् गमकस्य किम् अन्यथानुपपत्तिर् नेष्यत एव यद्य् एवं कथं ततो बहिर्भावसिद्धिः। अथ सो ऽपि नोपपद्यते, ततो ऽविनाभावबलेनैव ज्ञानम् इति पुनरनुमानत्वम्। किम् अर्थं चान्यथा नोपपद्यत इति गमकपरित्यागेनाश्रूयमाणया प्रतीत्या योज्यते। अथोच्यते -- अर्थान्तरस्य चैत्रसम्बन्धिनो विद्यमानत्वस्यान्यथानुपपत्तिम् आपादयन् गृहाभावो बहिर्भावं कल्पयतीति। संशयापादनं चान्यथानुपपद्यमानत्वापादनं, येन हि प्रायेण गृहे निवसंश् चैत्रो दृष्टः स गृहाभावदर्शनेनैव चैत्रस्य सद्भाव एव संशेते। प्रतीते ऽपि हि वस्तुनि ३,१५९ पूर्वप्रतिपन्नरूपान्तराभावावगमस् संशयम् आपादयति। देवदत्तस्य विद्यमानता गृहसम्बन्धावगतेति तदभावदर्शनाद् भवति विद्यमानत्वे संशयः -- किम् अस्ति चैत्रो न वेति। अयं च संशयो ऽनुपपत्तिर् इत्य् आख्यायते। ताम् इमां विद्यमानत्वस्य संशयरूपाम् अनुपपत्तिम् आपादयन् गृहाभावो बहिर्भावकल्पनया संशयम् उत्सारयंश् चैत्रस्य विद्यमानत्वम् उपपादयति। तद् इह गृहाभावो विद्यमानत्वस्यार्थान्तरस्य संशयापादनद्वारेण बहिर्भावेनानवगतसम्बन्धो ऽपि तं गमयति। विद्यमानत्वम् एव वा गृहाभावापादितानुपपत्तिकं स्वोपपादनाय बहिर्भावं कल्पयतीति द्वेधा दर्शनम्। अत एव चानुमानाद् भेदः। न ह्य् अनुमाने धूमादिः कस्याचित् संशयरूपाम् अनुपपत्तिम् आपादयंस् तदापादितानुपपत्तिकं वा किञ्चिद् अग्न्यादिकं गमयति। किन् तु असन्दिग्धाद् एव धूमाद् अग्निर् अनुमीयते। यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्। तथेह सन्दिग्धम् इति दर्शनबलाद् अभ्युपगन्तव्यम्। तद् एतद् असाम्प्रतम्। तथा हि -- यत् तावद् उक्तं गृहाभावस् संशयम् आपादयतीति। तद् अयुक्तम्। कथं हि तेन विद्यमानत्वे संशय आपाद्यते। गृहे चैत्रो दृष्टः कथम् इह न भवतीति चेद्, न तावद् एवं सर्वे प्रतियन्ति, येनापि हि स तत्र दृष्टः, सो ऽपि तं जीवन्तं तत्रासन्तम् अवगम्य सहसा बहिर्भावं कल्पयतीति। अपि च -- यदि वस्तुधर्मविसंवादात् सन्देहः, न तर्हि बहिर्भावकल्पनायां निमित्तं पश्यामः। यथा हि मृतजनिष्यमाणयोः गृहाभावो न बहिर्भावं सूचयति, एवं सन्दिग्धसद्भावस्यापि। यावद् धि चैत्रस्य विद्यमानता न निश्चीयते, न तावद् गृहाभावमात्रदर्शनेन बहिश् चैत्रो ऽवस्थापयितुं शक्यते। संशयनिराकरणार्थम् अपि चात्र प्रमाणान्तरम् अर्थनीयम्। न बहिर्भावः। निराकृते तु संशये निश्चितसद्भावो गृहाभावदर्शनेन बहिर् अस्तीति गम्यते। अथ निश्चितसद्भावस्यैव स्थितिप्रकारे सन्देहः कथम् अस्तीति। स तर्हि चैत्रम् अपश्यतो ऽपि भवतीति किं गृहाभावदर्शनेन। न चासौ बहिर्भावकल्पनाबीजम्। अतो बहिर्भावकल्पनाप्रत्यनीकम् एव संशयापादनं, यत् तत्सिद्धये द्वारम् आश्रितम्। साधु सम्पादितम्। अतो न विद्मः कीदृशो लक्षणार्थ इति। ३,१६० अत आह -- प्रमाणेति। अन्यथा नोपपद्यत इत्य् अन्यथानुपपद्यमानताम् आपादयन् गमयतीति व्याचक्ष्महे। अपि तर्हि दृष्टश्रुतविशेषणम् एवेदम्। य एव कश्चित् प्रमाणषट्कविज्ञातो ऽर्थो ऽन्यथानुपपद्यमानतया गृहीतः, स एव स्वोपपादनायान्यम् अर्थं कल्पयति तद्विषया कल्पनाबुद्धिर् अर्थापत्तिर् इति। नन्व् एवम् अविनाभावबलोत्था बुद्धिर् अनुमानम् इत्य् आपादितम्। मैवम्। न ह्य् अन्यथा नोपपद्यत इत्य् अविनाभावम् आचष्टे। स ह्य् अनेन विना न भवतीत्य् उक्ते गम्यते। किं नामानेनोच्यते, दृष्टः श्रुतः कल्पनाम् अन्तरेण नोपपद्यत इति। का पुनर् अस्यानुपपत्तिः, न हि दृष्टे ऽनुपपन्नं नाम। दृष्टम् अपि प्रमाणान्तरविरोधाद् यत् प्रतिहन्यते सानुपपत्तिः। दृष्टो हि गृहे चैत्राभावो ऽभावेन। आनुमानिकी च तस्य जीवतः क्वचित् सत्ता। सानिर्धारितदेशविशेषतया गृहम् अपि व्याप्नोति। सो ऽयम् अभावानुमानयोर् विरोधो ऽनुपपत्तिर् आख्यायते। संशयो ऽपि चात्र प्रमाणान्तरविप्रतिपत्तिर् एवानवस्थितोभयभानवस्तुलक्षणः। अथवायम् अनध्यवसाय एवैकस्मिन् बुद्धिम् उपसंहर्तुं युक्तिविशेषाद् अशक्नुवतः। अतो नेहान्यतरद् उपादातुं हातुं वा शक्यं प्रमाणत्वाविशेषात्। तद् इह सङ्कटे प्रामाणिको ऽनुमानस्य विषयं कल्पयति -- बहिर् अस्तीति, न हिंस्याद् इति सामान्यशास्त्रस्येव विहितवर्जितां हिंसाम्। एवं चोभयम् उपपादितं भवति अभावो ऽनुमानं चेति। सर्वत्र चैवम् एव दर्शयितव्यम्। त्रैरूप्यरहितत्वं चास्या उत्तरत्र वक्ष्यामः। अत्र च दृष्ट इत्य् उच्यते, तत्र न विद्मः, किम् इह चक्षुर्मात्रेण दृष्टो ऽभिप्रेतः, उत प्रत्यक्षमात्रदृष्टः। पूर्वस्मिन् पक्षे श्रोत्रादिपूर्विकार्थापत्तिर् न स्यात्, उत्तरस्मिन्न् अनुमानादिपूर्विका। अथ प्रमितमात्रपरिग्रहार्थो दृष्टशब्दः, श्रुतो वेति तर्हि किं भेदेनोपादीयते, शब्दावगतम् अपि हि प्रमितम् एव। अथोच्यते नेदम् अर्थान्तरविवक्षया श्रुतग्रहणम्, किन् तर्हि, अभिधानान्तरम् एवेदम् उपलब्धेर् वाचकम्। उपलब्धिमात्रविवक्षया ३,१६१ हि दृष्टश्रुतशब्दम् उपचरन्तो लौकिका दृश्यन्ते। न दृष्टो न श्रुतः कश्चित् स्वयं दत्तापहारक इति। यथा एतद् एवाभिप्रेत्य टीकाकारेणोक्तं दृष्टः श्रुतो वेति लौकिकम् अभिधानम् इति। शाब्दीम् उपलब्धिं प्रमाणान्तरेभ्यो भेदेन लौकिका उपाददाना दृश्यन्त इत्य् उक्तं भवति। इदम् अपि नोपपन्नम्। कथं हि लक्षणग्रन्थे सुनिपुणो भाष्यकारो ऽभिप्रायान्तरम् अन्तरेण श्रुतपदं प्रयुङ्क्त इत्य् उत्प्रेक्षितुम् अपि शक्यम् इति वाच्यम् उभयोपादानप्रयोजनम् अत आह -- दृष्ट इति। सत्यम्। पञ्चभिर् अपि प्रत्यक्षादिभिर् दृष्टो दृष्टो भवति। उपलब्धिपर्याय एव दृष्टशब्द इति यावत्। तथाप्य् अस्माद् दृष्टाद् भेदेन यच्छ्रुतोद्भवार्थापत्तिर् उपादीयते, तद् अस्याः प्रमाणग्राहितया पूर्वस्या दृष्टार्थापत्तेर् वैलक्षण्यं दर्शयितुम्। तच् चोपरिष्टाद् वक्ष्यते। प्रथमार्थापत्त्यपेक्षया च पञ्चभिर् इत्य् उक्तम् इति प्रमाणषट्कपूर्विकार्थापत्त्युदाहरणावसरे

athārthāpattiparicchedaḥ atra bhāṣyam. arthāpattir api dṛṣṭaḥ śruto vārtho 'nyathā nopapadyata ity arthakalpanā. yathā jīvato devadattasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya parikalpanā iti. asyārthaḥ -- arthāpattir api na parīkṣitavyā, evaṃlakṣaṇakatvenāvyabhicārād iti. kiṃ punar anenārthāpatter lakṣaṇam uktam. artho 'nyathānupapadyamāno yadarthāntaraṃ kalpayati sārthāpattiḥ. yathā jīvato devadattasya gṛhābhāvo bahirbhāvena vinā nopapadyamāno yad bahirbhāvaṃ kalpayati sārthāpattir ity uktam. yady evaṃ keyam anyathānupapattir nāma. yadi tāvad anena vināsya sadbhāvo nopapadyata iti, tad idaṃ kāryataḥ kāraṇānumānam upanyastaṃ, na pramāṇāntaram. atha jñātasambandhasyānumānam, arthāpattau na sambandhajñānam apekṣata ity ucyate, tad ayuktam. na hy ajñāte sambandhe 'nena vinā nopapadyata iti śakyate vaktum. 3,158 yad eva hy asyedaṃ kāryam ityādinā rūpeṇa jñātasambandhaniyamaḥ, tad eva svakāraṇena vinā nopapadyata iti śakyam avasātum, dhūma ivāgninā vinā. ato 'vinābhāvasambandhabalottham evedaṃ jñānam iti śabdāntareṇoktam. syād etat. dṛṣṭasvalakṣaṇaviṣayam anumānam agnyādiṣu dṛṣṭam, adṛṣṭasvalakṣaṇaviṣayārthāpattiś śaktyādiṣūpajāyata iti. tan na. dṛṣṭam adṛṣṭaṃ vā jñātasambandham avagamyate 'nyathānupapattyā, kāryasāmānyaṃ hi kāraṇasāmānyena vinānupapadyamānaṃ yat tat kalpayati tad api sambandhajñānena jāyamānaṃ katham anumānād bhidyate. adṛṣṭasvalakṣaṇaviṣayatā cānumānasya kriyānumāne varṇitaiva. ataḥ pramāṇāntaramṛgatṛṣṇikaiveyam. satyam, yadi yad yena vinā nopapadyate tad tadgamakaṃ syāt. iha tu yan nopapadyate tad eva gamyam. kim idānīṃ bahirbhāvo gṛhāmāvena vinā nopapadyate. bāḍham. na hi gṛhe 'pi bhavan devadatto bahir api bhavati, tad asya bahirbhāvo gṛhābhāvadarśanenaivopapadyate. nanu bhāṣyakāro dṛṣṭaḥ śruto vetyādi vadan gamakasyānyathānupapadyamānatāṃ darśayati. na gamyasya. agranthajño devānāṃ priyaḥ. dṛṣṭaḥ śruto vārtho 'rthakalpaneti hi sambandhaḥ. kim uktaṃ bhavati, arthāntarasya pramāṇam iti. anyathā nopapadyata iti tarhi kena sambadhyate, pramityeti vadāmaḥ. anyathānupapadyamānatām āpādayannarthāntarasya gamaka iti. kasyārthāntarasya. yadi bahirbhāvasya, nāsyānupapattiṃ gṛhābhāva āpādayati, na hi gṛhābhāvadarśino bahirbhāvo nopapadyata iti budhyante laukikāḥ, kin tu caitro bahir astīti. api ca gamyaviśeṣaṇam anyathānupapattim ācakṣāṇair gamakasya kim anyathānupapattir neṣyata eva yady evaṃ kathaṃ tato bahirbhāvasiddhiḥ. atha so 'pi nopapadyate, tato 'vinābhāvabalenaiva jñānam iti punaranumānatvam. kim arthaṃ cānyathā nopapadyata iti gamakaparityāgenāśrūyamāṇayā pratītyā yojyate. athocyate -- arthāntarasya caitrasambandhino vidyamānatvasyānyathānupapattim āpādayan gṛhābhāvo bahirbhāvaṃ kalpayatīti. saṃśayāpādanaṃ cānyathānupapadyamānatvāpādanaṃ, yena hi prāyeṇa gṛhe nivasaṃś caitro dṛṣṭaḥ sa gṛhābhāvadarśanenaiva caitrasya sadbhāva eva saṃśete. pratīte 'pi hi vastuni 3,159 pūrvapratipannarūpāntarābhāvāvagamas saṃśayam āpādayati. devadattasya vidyamānatā gṛhasambandhāvagateti tadabhāvadarśanād bhavati vidyamānatve saṃśayaḥ -- kim asti caitro na veti. ayaṃ ca saṃśayo 'nupapattir ity ākhyāyate. tām imāṃ vidyamānatvasya saṃśayarūpām anupapattim āpādayan gṛhābhāvo bahirbhāvakalpanayā saṃśayam utsārayaṃś caitrasya vidyamānatvam upapādayati. tad iha gṛhābhāvo vidyamānatvasyārthāntarasya saṃśayāpādanadvāreṇa bahirbhāvenānavagatasambandho 'pi taṃ gamayati. vidyamānatvam eva vā gṛhābhāvāpāditānupapattikaṃ svopapādanāya bahirbhāvaṃ kalpayatīti dvedhā darśanam. ata eva cānumānād bhedaḥ. na hy anumāne dhūmādiḥ kasyācit saṃśayarūpām anupapattim āpādayaṃs tadāpāditānupapattikaṃ vā kiñcid agnyādikaṃ gamayati. kin tu asandigdhād eva dhūmād agnir anumīyate. yathā cānumāne niścitarūpaṃ liṅgaṃ gamakam. tatheha sandigdham iti darśanabalād abhyupagantavyam. tad etad asāmpratam. tathā hi -- yat tāvad uktaṃ gṛhābhāvas saṃśayam āpādayatīti. tad ayuktam. kathaṃ hi tena vidyamānatve saṃśaya āpādyate. gṛhe caitro dṛṣṭaḥ katham iha na bhavatīti ced, na tāvad evaṃ sarve pratiyanti, yenāpi hi sa tatra dṛṣṭaḥ, so 'pi taṃ jīvantaṃ tatrāsantam avagamya sahasā bahirbhāvaṃ kalpayatīti. api ca -- yadi vastudharmavisaṃvādāt sandehaḥ, na tarhi bahirbhāvakalpanāyāṃ nimittaṃ paśyāmaḥ. yathā hi mṛtajaniṣyamāṇayoḥ gṛhābhāvo na bahirbhāvaṃ sūcayati, evaṃ sandigdhasadbhāvasyāpi. yāvad dhi caitrasya vidyamānatā na niścīyate, na tāvad gṛhābhāvamātradarśanena bahiś caitro 'vasthāpayituṃ śakyate. saṃśayanirākaraṇārtham api cātra pramāṇāntaram arthanīyam. na bahirbhāvaḥ. nirākṛte tu saṃśaye niścitasadbhāvo gṛhābhāvadarśanena bahir astīti gamyate. atha niścitasadbhāvasyaiva sthitiprakāre sandehaḥ katham astīti. sa tarhi caitram apaśyato 'pi bhavatīti kiṃ gṛhābhāvadarśanena. na cāsau bahirbhāvakalpanābījam. ato bahirbhāvakalpanāpratyanīkam eva saṃśayāpādanaṃ, yat tatsiddhaye dvāram āśritam. sādhu sampāditam. ato na vidmaḥ kīdṛśo lakṣaṇārtha iti. 3,160 ata āha -- pramāṇeti. anyathā nopapadyata ity anyathānupapadyamānatām āpādayan gamayatīti vyācakṣmahe. api tarhi dṛṣṭaśrutaviśeṣaṇam evedam. ya eva kaścit pramāṇaṣaṭkavijñāto 'rtho 'nyathānupapadyamānatayā gṛhītaḥ, sa eva svopapādanāyānyam arthaṃ kalpayati tadviṣayā kalpanābuddhir arthāpattir iti. nanv evam avinābhāvabalotthā buddhir anumānam ity āpāditam. maivam. na hy anyathā nopapadyata ity avinābhāvam ācaṣṭe. sa hy anena vinā na bhavatīty ukte gamyate. kiṃ nāmānenocyate, dṛṣṭaḥ śrutaḥ kalpanām antareṇa nopapadyata iti. kā punar asyānupapattiḥ, na hi dṛṣṭe 'nupapannaṃ nāma. dṛṣṭam api pramāṇāntaravirodhād yat pratihanyate sānupapattiḥ. dṛṣṭo hi gṛhe caitrābhāvo 'bhāvena. ānumānikī ca tasya jīvataḥ kvacit sattā. sānirdhāritadeśaviśeṣatayā gṛham api vyāpnoti. so 'yam abhāvānumānayor virodho 'nupapattir ākhyāyate. saṃśayo 'pi cātra pramāṇāntaravipratipattir evānavasthitobhayabhānavastulakṣaṇaḥ. athavāyam anadhyavasāya evaikasmin buddhim upasaṃhartuṃ yuktiviśeṣād aśaknuvataḥ. ato nehānyatarad upādātuṃ hātuṃ vā śakyaṃ pramāṇatvāviśeṣāt. tad iha saṅkaṭe prāmāṇiko 'numānasya viṣayaṃ kalpayati -- bahir astīti, na hiṃsyād iti sāmānyaśāstrasyeva vihitavarjitāṃ hiṃsām. evaṃ cobhayam upapāditaṃ bhavati abhāvo 'numānaṃ ceti. sarvatra caivam eva darśayitavyam. trairūpyarahitatvaṃ cāsyā uttaratra vakṣyāmaḥ. atra ca dṛṣṭa ity ucyate, tatra na vidmaḥ, kim iha cakṣurmātreṇa dṛṣṭo 'bhipretaḥ, uta pratyakṣamātradṛṣṭaḥ. pūrvasmin pakṣe śrotrādipūrvikārthāpattir na syāt, uttarasminn anumānādipūrvikā. atha pramitamātraparigrahārtho dṛṣṭaśabdaḥ, śruto veti tarhi kiṃ bhedenopādīyate, śabdāvagatam api hi pramitam eva. athocyate nedam arthāntaravivakṣayā śrutagrahaṇam, kin tarhi, abhidhānāntaram evedam upalabdher vācakam. upalabdhimātravivakṣayā 3,161 hi dṛṣṭaśrutaśabdam upacaranto laukikā dṛśyante. na dṛṣṭo na śrutaḥ kaścit svayaṃ dattāpahāraka iti. yathā etad evābhipretya ṭīkākāreṇoktaṃ dṛṣṭaḥ śruto veti laukikam abhidhānam iti. śābdīm upalabdhiṃ pramāṇāntarebhyo bhedena laukikā upādadānā dṛśyanta ity uktaṃ bhavati. idam api nopapannam. kathaṃ hi lakṣaṇagranthe sunipuṇo bhāṣyakāro 'bhiprāyāntaram antareṇa śrutapadaṃ prayuṅkta ity utprekṣitum api śakyam iti vācyam ubhayopādānaprayojanam ata āha -- dṛṣṭa iti. satyam. pañcabhir api pratyakṣādibhir dṛṣṭo dṛṣṭo bhavati. upalabdhiparyāya eva dṛṣṭaśabda iti yāvat. tathāpy asmād dṛṣṭād bhedena yacchrutodbhavārthāpattir upādīyate, tad asyāḥ pramāṇagrāhitayā pūrvasyā dṛṣṭārthāpatter vailakṣaṇyaṃ darśayitum. tac copariṣṭād vakṣyate. prathamārthāpattyapekṣayā ca pañcabhir ity uktam iti pramāṇaṣaṭkapūrvikārthāpattyudāharaṇāvasare

Sanskrit only: no published translation is held for this verse.

इदानीं प्रत्यक्षपूर्विकाम् एव तावन्मुख्यतयोदाहरति -- तत्रेति वह्नेरन्तेन। का पुनर् इयं शक्तिः। नेयम् अतीन्द्रियेदन्तया निर्देष्टुं शक्यते। ननु यद्भावाभावनिबन्धनौ कार्यभावाभावौ इयं शक्तिः, ईदृशी च प्रत्यक्षवेद्यैव। तथा हि -- वह्निसंयोगानन्तरं दाहो दृश्यते असति च न दृश्यत इति तत्संयोग एव शक्तिर् इति गीयते, न तत्त्वान्तरम्। स च प्रत्यक्ष इति किम् अर्थापत्त्या। न। व्यभिचारात्। यथा खलु स्वरूपमात्रम् अग्नेर् व्यभिचरति, एवं संयोगो ऽपि। भवति हि कदाचिद् औषधादिसन्निकर्षे संयुज्यते वग्निर् अथ च न दहतीति। तद् इहार्थापत्त्या तत्त्वान्तरं शक्तिरूपं कल्प्यते। कयानुपपत्त्या, प्रमाणान्तरविरोधेन। तथा हि -- प्रत्यक्षेण दाहो ऽवस्थाप्यते। हेत्वभावेन च प्रतिक्षिप्यते। स हि कार्याभावेन विदितप्रतिबन्धस् तं गमयति। तथा हि -- न स्वरूपम् अग्नेः कारणम्, न तत्संयोगो व्यभिचारात्, नान्यत् किञ्चित्। न चाकस्माद् एव भवतीति साम्प्रतम्। एवं हि कदाचिन् न स्यात्, अपेक्षा हि कदाचिद् भावे निबन्धनम्, अनपेक्षं तु नित्यं सदसद् वा भवेत्। अतः कार्यदर्शनादर्शनबलाद् अग्नेः स्वरूपाद् व्यतिरिक्तं किञ्चिद् रूपम् उन्नीयते, ३,१६२ यद्भावाभावनिबन्धनौ कार्यभावाभावाव् इति। स्वरूपमात्रायत्ते तु कार्यभावे तदभेदात् सदापत्तिर् इति। स्वरूपमात्रम् अप्रतिबन्धम् अग्नेर् दाहस्य कारणम् औषधादीनां तु प्रतिबन्धृतेति चेत्, कः प्रतिबन्धार्थः। स्वरूपं तावदविनष्टम्। तद् एव प्रत्यभिजानीमः। न हि बीजस्योपरि त(?ना।दा)नीते प्रदीपे किञ्चिद् रूपापचयम् उपलभामहे। न च तेनाङ्कुरो जन्यते। अथ वस्त्वन्तरसन्निधौ सामग्र्यन्तरम् एव जातम्, अतः पूर्वसामग्रीकार्यं नोत्पद्यत इति चेन् नैवम्। न हि मन्त्रादिसन्निकर्षे पूर्वसामग्रीनाशो दृश्यते। न च तत् कार्यम् उपलभ्यते। अथ मन्त्रादिरहितम् एव कारणं कार्यस्य जनकम्। न तु तत्र तेन किञ्चित् क्रियत इत्य् उच्यते। तन् न। न ह्य् अकिञ्चित्करस्य सन्निधिः कार्यं प्रतिबध्नाति। अन्यद् अपि हि तत्रोदासीनं सन्निहितं भवति। न च कार्यं न जायते। न च मन्त्रादिसन्निधाव् अर्थान्तरम् एव जातं पूर्वकारणनाशेनेति मतिर् आविरस्ति। सकला हि सामग्री प्रत्यभिज्ञायते। अस्ति च तत्र कारणम् इत्य् उक्तम्। न च मन्त्रादिप्रागभाव एव वा तद्विशिष्टा वा सामग्री जनिकेति युक्तम्। अभावस्य भावान्तरसिद्धौ व्यापारादर्शनात्। विहिताकरणे ऽपि तत्काले ऽन्यक्रिया प्रत्यवायहेतुर् ना(?का।क)रणम्। यदाह -- स्वकाले यद् अकुर्वस् तु करोत्य् अन्यद् अचेतनः । प्रत्यवायो ऽस्य तेनैव नाभावेन स जन्यते ॥ इति। यदि तु -- कर्मणः प्रागभावश् च विहिताकरणेषु यः । स चानर्थकरत्वेन वस्तुत्वान् नापनीयते ॥ इति दर्शनात् मन्त्रादिप्रागभावः कारणम् इष्यते। तथापि परस्तात् कार्यदर्शनं नोपपद्यत इति। मन्त्रादिप्रध्वंसो ऽपि कारणम् इति चेत्, स तर्हि प्राङ् नासीद् इति प्राङ्मन्त्रादिप्रयोगात् कार्यं न जायेत। न हि क्षितिजलबीजानाम् अन्यतमापाये ऽप्य् अङ्कुरो जायमानो दृश्यते। अपि च सत्य् एव प्राच्यमन्त्रादिसन्निधाने तद्विपरीतमन्त्राद्यागमे कार्यभावम् ईक्षमाणा न तदभावस्य कारणभावम् अवस्थापयामः। न हि विहिताकरणकारणकः प्रत्यवायः सत्य् अपि विहितकरणे दृष्टः। भवति चात्र प्रयोगः -- यद्यदभावकारणकं तत्तद्भावे न भवति विहिताभावभाव्य इव प्रत्यवायो ३,१६३ विहितभावेन। न चैवं मन्त्रादिभावे कार्यम् इति। एवं चाकिञ्चित्करो मन्त्रादिभावो न कदाचित् कार्यं प्रतिबध्नीयात्। अतः कारणशक्तेर् एव प्रतिबन्धको मन्त्रः, न तदभावः कारणम्। बलवत्तरोपनिपातापहृतशक्तिस् तु सो ऽपि न किञ्चित् प्रतिबध्नाति। न च यद् बलवद्रुद्धम् आत्मानं नैव विन्दति, अविरोधे ऽपि तेनात्मा न लब्धव्यः। कदाचन माभूत् श्रौतपरिपन्थिविनियोगाभावे ऽपि लैङ्गिकविनियोगाभाव इति। अतो ऽस्ति कश्चिद् अतिशयः कारणानाम्, यन्नाशतिरोधानाभ्यां कार्यं नारभन्त इति सिद्धं प्रत्यक्षावगताद् दाहाद् दहनशक्तिकल्पनम्। अनुमेयत्वं तु शक्तेर् उपरिष्टान्निराकरिष्यत इति। अनुमानपूर्विकार्थापत्तिम् उदाहरति अनुमिताद् इति। देशान्तरप्राप्त्या सूर्ये यानम् अनुमीयते, ततो ऽर्थापत्त्या तच्छक्तिः। अत्रापि प्रमाणान्तरविरोध एवानुपपत्तिः। गमनं हि प्राणिनां विशिष्टपदादिसाधनकम् अवगतम्। अयं चानुमिततद्विधर्मगमनसाधनो ऽपि तथैव न गन्तुम् अर्हतीति वितर्कः। सो ऽयं शक्तिकल्पनया निवार्यते। अस्ति नाम सा काचिद् अस्य शक्तिः, यया गन्त्रन्तरविधर्मगमनो विपातनिपातयोस् समम् उपसर्पतीति

idānīṃ pratyakṣapūrvikām eva tāvanmukhyatayodāharati -- tatreti vahnerantena. kā punar iyaṃ śaktiḥ. neyam atīndriyedantayā nirdeṣṭuṃ śakyate. nanu yadbhāvābhāvanibandhanau kāryabhāvābhāvau iyaṃ śaktiḥ, īdṛśī ca pratyakṣavedyaiva. tathā hi -- vahnisaṃyogānantaraṃ dāho dṛśyate asati ca na dṛśyata iti tatsaṃyoga eva śaktir iti gīyate, na tattvāntaram. sa ca pratyakṣa iti kim arthāpattyā. na. vyabhicārāt. yathā khalu svarūpamātram agner vyabhicarati, evaṃ saṃyogo 'pi. bhavati hi kadācid auṣadhādisannikarṣe saṃyujyate vagnir atha ca na dahatīti. tad ihārthāpattyā tattvāntaraṃ śaktirūpaṃ kalpyate. kayānupapattyā, pramāṇāntaravirodhena. tathā hi -- pratyakṣeṇa dāho 'vasthāpyate. hetvabhāvena ca pratikṣipyate. sa hi kāryābhāvena viditapratibandhas taṃ gamayati. tathā hi -- na svarūpam agneḥ kāraṇam, na tatsaṃyogo vyabhicārāt, nānyat kiñcit. na cākasmād eva bhavatīti sāmpratam. evaṃ hi kadācin na syāt, apekṣā hi kadācid bhāve nibandhanam, anapekṣaṃ tu nityaṃ sadasad vā bhavet. ataḥ kāryadarśanādarśanabalād agneḥ svarūpād vyatiriktaṃ kiñcid rūpam unnīyate, 3,162 yadbhāvābhāvanibandhanau kāryabhāvābhāvāv iti. svarūpamātrāyatte tu kāryabhāve tadabhedāt sadāpattir iti. svarūpamātram apratibandham agner dāhasya kāraṇam auṣadhādīnāṃ tu pratibandhṛteti cet, kaḥ pratibandhārthaḥ. svarūpaṃ tāvadavinaṣṭam. tad eva pratyabhijānīmaḥ. na hi bījasyopari ta(?nā/dā)nīte pradīpe kiñcid rūpāpacayam upalabhāmahe. na ca tenāṅkuro janyate. atha vastvantarasannidhau sāmagryantaram eva jātam, ataḥ pūrvasāmagrīkāryaṃ notpadyata iti cen naivam. na hi mantrādisannikarṣe pūrvasāmagrīnāśo dṛśyate. na ca tat kāryam upalabhyate. atha mantrādirahitam eva kāraṇaṃ kāryasya janakam. na tu tatra tena kiñcit kriyata ity ucyate. tan na. na hy akiñcitkarasya sannidhiḥ kāryaṃ pratibadhnāti. anyad api hi tatrodāsīnaṃ sannihitaṃ bhavati. na ca kāryaṃ na jāyate. na ca mantrādisannidhāv arthāntaram eva jātaṃ pūrvakāraṇanāśeneti matir āvirasti. sakalā hi sāmagrī pratyabhijñāyate. asti ca tatra kāraṇam ity uktam. na ca mantrādiprāgabhāva eva vā tadviśiṣṭā vā sāmagrī janiketi yuktam. abhāvasya bhāvāntarasiddhau vyāpārādarśanāt. vihitākaraṇe 'pi tatkāle 'nyakriyā pratyavāyahetur nā(?kā/ka)raṇam. yadāha -- svakāle yad akurvas tu karoty anyad acetanaḥ | pratyavāyo 'sya tenaiva nābhāvena sa janyate || iti. yadi tu -- karmaṇaḥ prāgabhāvaś ca vihitākaraṇeṣu yaḥ | sa cānarthakaratvena vastutvān nāpanīyate || iti darśanāt mantrādiprāgabhāvaḥ kāraṇam iṣyate. tathāpi parastāt kāryadarśanaṃ nopapadyata iti. mantrādipradhvaṃso 'pi kāraṇam iti cet, sa tarhi prāṅ nāsīd iti prāṅmantrādiprayogāt kāryaṃ na jāyeta. na hi kṣitijalabījānām anyatamāpāye 'py aṅkuro jāyamāno dṛśyate. api ca saty eva prācyamantrādisannidhāne tadviparītamantrādyāgame kāryabhāvam īkṣamāṇā na tadabhāvasya kāraṇabhāvam avasthāpayāmaḥ. na hi vihitākaraṇakāraṇakaḥ pratyavāyaḥ saty api vihitakaraṇe dṛṣṭaḥ. bhavati cātra prayogaḥ -- yadyadabhāvakāraṇakaṃ tattadbhāve na bhavati vihitābhāvabhāvya iva pratyavāyo 3,163 vihitabhāvena. na caivaṃ mantrādibhāve kāryam iti. evaṃ cākiñcitkaro mantrādibhāvo na kadācit kāryaṃ pratibadhnīyāt. ataḥ kāraṇaśakter eva pratibandhako mantraḥ, na tadabhāvaḥ kāraṇam. balavattaropanipātāpahṛtaśaktis tu so 'pi na kiñcit pratibadhnāti. na ca yad balavadruddham ātmānaṃ naiva vindati, avirodhe 'pi tenātmā na labdhavyaḥ. kadācana mābhūt śrautaparipanthiviniyogābhāve 'pi laiṅgikaviniyogābhāva iti. ato 'sti kaścid atiśayaḥ kāraṇānām, yannāśatirodhānābhyāṃ kāryaṃ nārabhanta iti siddhaṃ pratyakṣāvagatād dāhād dahanaśaktikalpanam. anumeyatvaṃ tu śakter upariṣṭānnirākariṣyata iti. anumānapūrvikārthāpattim udāharati anumitād iti. deśāntaraprāptyā sūrye yānam anumīyate, tato 'rthāpattyā tacchaktiḥ. atrāpi pramāṇāntaravirodha evānupapattiḥ. gamanaṃ hi prāṇināṃ viśiṣṭapadādisādhanakam avagatam. ayaṃ cānumitatadvidharmagamanasādhano 'pi tathaiva na gantum arhatīti vitarkaḥ. so 'yaṃ śaktikalpanayā nivāryate. asti nāma sā kācid asya śaktiḥ, yayā gantrantaravidharmagamano vipātanipātayos samam upasarpatīti

Sanskrit only: no published translation is held for this verse.

श्रुतार्थापत्तिस् तु भिन्नविषया दृष्टार्थापत्तिभ्यो विविच्य पश्चाद् एवाभिधास्यत इत्य् आह -- श्रुतेति। उपमानपूर्विकां दर्शयति -- गवयेति। गवयसदृशो गौर् इत्य् उपमिते सदृशज्ञानग्राह्यशक्तिर् अर्थापत्त्या कल्प्यते। ईदृशी च तत्रानुपपत्तिर् भवति -- कथं गवि सुसदृशज्ञानं जन्यते, यदि हि जनयेत् प्रथमदर्शने ऽपि किं न जनयेत्, सन्ति हि तदापि गवि गवयावयवसामान्यानि, तद् एवं जातम् अपि गव्युपमानम् अनुपत्त्यावसीदति। शक्तिकल्पनयोपपाद्यते। अस्तिनाम को ऽपि गोर् अतिशयो यः प्रतियोगिदर्शनप्रतिलब्धाभिव्यक्तिर् गवयसदृशीं धियम् उपजनयति। यच् चेदं समाने पशुत्वे गौर् एव गवयसदृश इत्य् उपमीयते तद् अपि तस्य शक्तिविशेषाभ्युपगमाद् विना नोपपद्यत इति

śrutārthāpattis tu bhinnaviṣayā dṛṣṭārthāpattibhyo vivicya paścād evābhidhāsyata ity āha -- śruteti. upamānapūrvikāṃ darśayati -- gavayeti. gavayasadṛśo gaur ity upamite sadṛśajñānagrāhyaśaktir arthāpattyā kalpyate. īdṛśī ca tatrānupapattir bhavati -- kathaṃ gavi susadṛśajñānaṃ janyate, yadi hi janayet prathamadarśane 'pi kiṃ na janayet, santi hi tadāpi gavi gavayāvayavasāmānyāni, tad evaṃ jātam api gavyupamānam anupattyāvasīdati. śaktikalpanayopapādyate. astināma ko 'pi gor atiśayo yaḥ pratiyogidarśanapratilabdhābhivyaktir gavayasadṛśīṃ dhiyam upajanayati. yac cedaṃ samāne paśutve gaur eva gavayasadṛśa ity upamīyate tad api tasya śaktiviśeṣābhyupagamād vinā nopapadyata iti

Sanskrit only: no published translation is held for this verse.

अर्थापत्तिपूर्विकाम् उदाहरति -- अभिधानेति। शब्दाद् अनन्तरम् अर्थप्रतिपत्तिं दृष्ट्वा तस्य तत्कारणत्वम् अवसीयते। न च व्यापारम् अन्तरेण ३,१६४ कारणत्वम् उपपद्यत इति शब्दसमवायी व्यापारो ऽनुमीयते। स चाभिधेति प्रसिद्धम्। तत्सिद्ध्यर्थं च शब्दे वाचकसामर्थ्यम् अर्थापत्त्या प्रमीयते। अभिधायकत्वे ह्य् अनुमिते भवत्य् अनुपपत्तिः, नायम् अस्याभिधायकः। प्राग् इव सम्बन्धज्ञानाद् गृहीतसम्बन्धः प्रत्यायक इति चेद् न। तदभावात्। न ह्य् अस्यार्थेन संयोगादीनाम् अन्यतमस् सम्बन्धो दृश्यते। तद् अस्यानुपपत्तौ शक्तिकल्पनोपपादिका भवति। अस्ति खल्व् अनयोर् वाच्यवाचकशक्तिरूपस् सम्बन्धः। यदग्रहान् नार्थो ऽवगम्यत इति। एवं च शक्तिकल्पनोत्तरकालं शक्तेर् अपि नित्यत्वम् अन्तरेणानुपपत्तेर् अर्थापत्त्यन्तरेण शब्दस्य नित्यता प्रतीयत इति

arthāpattipūrvikām udāharati -- abhidhāneti. śabdād anantaram arthapratipattiṃ dṛṣṭvā tasya tatkāraṇatvam avasīyate. na ca vyāpāram antareṇa 3,164 kāraṇatvam upapadyata iti śabdasamavāyī vyāpāro 'numīyate. sa cābhidheti prasiddham. tatsiddhyarthaṃ ca śabde vācakasāmarthyam arthāpattyā pramīyate. abhidhāyakatve hy anumite bhavaty anupapattiḥ, nāyam asyābhidhāyakaḥ. prāg iva sambandhajñānād gṛhītasambandhaḥ pratyāyaka iti ced na. tadabhāvāt. na hy asyārthena saṃyogādīnām anyatamas sambandho dṛśyate. tad asyānupapattau śaktikalpanopapādikā bhavati. asti khalv anayor vācyavācakaśaktirūpas sambandhaḥ. yadagrahān nārtho 'vagamyata iti. evaṃ ca śaktikalpanottarakālaṃ śakter api nityatvam antareṇānupapatter arthāpattyantareṇa śabdasya nityatā pratīyata iti

Sanskrit only: no published translation is held for this verse.

एतद् एव विवृणोति -- अभिधेति सार्धेन। एतच् च स्वयं जैमिनिनैव शब्दाधिकरणे ऽभिधास्यत इत्य् आह -- दर्शनस्येति ॥ ६ -- ७ ॥ अभावपूर्विका तु भाष्यकारेण स्वयम् उदाहृतेति न पृथगुदाह्रियत इत्य् आह -- प्रमाणाभावेति सार्धेन। अस्यार्थः -- यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति भाष्ये य। चैत्रस्य बहिर्भावसिद्धिर् दर्शिता ताम् एव प्रकृताभ्यो ऽन्याम् अभावपूर्विकाम् अर्थापत्तिं भाष्यकार उदाहरत् उदाहृतवान् इति। प्रपञ्चस् त्व् अर्थापत्त्युदाहरणानां पक्षदोषाभिधानावसरे ज्ञात्रादिनास्तितायाम् इत्यादिनानुमाने वर्णित इत्य् आह -- पक्षदोषेष्व् इति ॥ ८ -- ९ ॥ ३,१६५ इदानीम् अर्थापत्तेर् अनुमानाद् भेदे वेदितव्ये भाष्योक्तत्वाद् अभावपूर्विकाया एव भेदं तावद् आह -- अभावेति। येयम् अभावप्रमाणेन गृहे नास्तीत्य् अनेन रूपेणावगताच् चैत्राद् बहिर्भावसूचनात्मिकार्थापत्तिः सापि पक्षधर्मादीनाम् अनङ्गत्वाच् छब्दवदुपमानवदनुमानाद् भिद्यत इति

etad eva vivṛṇoti -- abhidheti sārdhena. etac ca svayaṃ jaimininaiva śabdādhikaraṇe 'bhidhāsyata ity āha -- darśanasyeti || 6 -- 7 || abhāvapūrvikā tu bhāṣyakāreṇa svayam udāhṛteti na pṛthagudāhriyata ity āha -- pramāṇābhāveti sārdhena. asyārthaḥ -- yathā jīvati devadatte gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya parikalpanā iti bhāṣye ya. caitrasya bahirbhāvasiddhir darśitā tām eva prakṛtābhyo 'nyām abhāvapūrvikām arthāpattiṃ bhāṣyakāra udāharat udāhṛtavān iti. prapañcas tv arthāpattyudāharaṇānāṃ pakṣadoṣābhidhānāvasare jñātrādināstitāyām ityādinānumāne varṇita ity āha -- pakṣadoṣeṣv iti || 8 -- 9 || 3,165 idānīm arthāpatter anumānād bhede veditavye bhāṣyoktatvād abhāvapūrvikāyā eva bhedaṃ tāvad āha -- abhāveti. yeyam abhāvapramāṇena gṛhe nāstīty anena rūpeṇāvagatāc caitrād bahirbhāvasūcanātmikārthāpattiḥ sāpi pakṣadharmādīnām anaṅgatvāc chabdavadupamānavadanumānād bhidyata iti

Sanskrit only: no published translation is held for this verse.

पक्षधर्माद्यनङ्गत्वम् एव दर्शयति -- बहिर्देशेति। इह हि बहिर्देशविशिष्टश् चैत्रः पक्षस् तद्विशिष्टो वा बहिर्देशः। न चोभयस्यापि गृहगतो ऽभावो धर्म इत्य् (अस्य) पक्षधर्मत्वं कथम्, न कथञ्चिद् इत्य् अर्थः

pakṣadharmādyanaṅgatvam eva darśayati -- bahirdeśeti. iha hi bahirdeśaviśiṣṭaś caitraḥ pakṣas tadviśiṣṭo vā bahirdeśaḥ. na cobhayasyāpi gṛhagato 'bhāvo dharma ity (asya) pakṣadharmatvaṃ katham, na kathañcid ity arthaḥ

Sanskrit only: no published translation is held for this verse.

नाभावमात्रम् अविशेषितं चैत्रस्य बहिर्भावे लिङ्गम्। न चास्य गृहं विशेषणं भवति, परतन्त्रं हि विशेषणम्, यथा नीलिमोत्पलद्रव्यस्य। एवम् इहापि द्रव्यभूतं गृहम् एव तत्परतन्त्रेणाभावेन विशेष्यत इति युक्तम्, व्यापकत्वाच् चाभावो गृहस्य विशेषणम्, शक्यते हि तेन चैत्राधिष्ठितैकदेशव्यतिरिक्तजगद्व्यापिना गृहं व्याप्तुम्। अल्पं तु गृहं न महाविषयम् अभावं व्याप्तुं शक्नोति। अतो यथा व्याप्यस्य धूमस्याग्निविशिष्टत्वम् अवगम्यते, अनेनापि प्रकारेण गृहम् एवाभावविशिष्टं बहिर्भावस्य लिङ्गम् इत्य् आपतति। तच् च तदभावविशिष्टगृहं न कथञ्चिच् चैत्रबहिर्देशाभ्यां सम्बध्यते। अभावस्य तावत् कथञ्चिद् अस्ति चैत्रान्वयः। चैत्राभाव इति हि स प्रतीयते। गृहं तु न कथञ्चिच् चैत्रसम्बद्धम् अवगम्यते इत्य् अपक्षधर्म इत्य् आह -- तदभावेति। इतश् च गृहाभावो न पक्षधर्म इत्य् आह -- गृहाभावेति। गृहीते हि पक्षे तद्धर्मप्रत्ययो भवति। न च चैत्रबहिर्देशौ गृहे ऽसत्तया गम्येते इति

nābhāvamātram aviśeṣitaṃ caitrasya bahirbhāve liṅgam. na cāsya gṛhaṃ viśeṣaṇaṃ bhavati, paratantraṃ hi viśeṣaṇam, yathā nīlimotpaladravyasya. evam ihāpi dravyabhūtaṃ gṛham eva tatparatantreṇābhāvena viśeṣyata iti yuktam, vyāpakatvāc cābhāvo gṛhasya viśeṣaṇam, śakyate hi tena caitrādhiṣṭhitaikadeśavyatiriktajagadvyāpinā gṛhaṃ vyāptum. alpaṃ tu gṛhaṃ na mahāviṣayam abhāvaṃ vyāptuṃ śaknoti. ato yathā vyāpyasya dhūmasyāgniviśiṣṭatvam avagamyate, anenāpi prakāreṇa gṛham evābhāvaviśiṣṭaṃ bahirbhāvasya liṅgam ity āpatati. tac ca tadabhāvaviśiṣṭagṛhaṃ na kathañcic caitrabahirdeśābhyāṃ sambadhyate. abhāvasya tāvat kathañcid asti caitrānvayaḥ. caitrābhāva iti hi sa pratīyate. gṛhaṃ tu na kathañcic caitrasambaddham avagamyate ity apakṣadharma ity āha -- tadabhāveti. itaś ca gṛhābhāvo na pakṣadharma ity āha -- gṛhābhāveti. gṛhīte hi pakṣe taddharmapratyayo bhavati. na ca caitrabahirdeśau gṛhe 'sattayā gamyete iti

Sanskrit only: no published translation is held for this verse.

३,१६६ गृहम् एव तु तत्र प्रत्यक्षावगतम् इति तद्धर्मप्रतीतिर् एवाभावे भवतीत्य् आह -- गम्यते तु गृहम् इति। न हि तत्र गृह एव चैत्रो ऽनुमीयते, अभावविरोधाद् इत्य् अभिप्रायेणाह -- तत्रेति। अदर्शनं हि चैत्रसम्बद्धम् अवगतम् इति तल्लिङ्गं भविष्यतीत्य् अत आह -- न चात्रेति। न च दर्शनाभावो बहिर्भावे लिङ्गम्, एतदभावे ऽभिधास्यत इति

3,166 gṛham eva tu tatra pratyakṣāvagatam iti taddharmapratītir evābhāve bhavatīty āha -- gamyate tu gṛham iti. na hi tatra gṛha eva caitro 'numīyate, abhāvavirodhād ity abhiprāyeṇāha -- tatreti. adarśanaṃ hi caitrasambaddham avagatam iti talliṅgaṃ bhaviṣyatīty ata āha -- na cātreti. na ca darśanābhāvo bahirbhāve liṅgam, etadabhāve 'bhidhāsyata iti

Sanskrit only: no published translation is held for this verse.

अतो गृहे ऽदर्शनम् अपि न हेतुर् इत्य् आह -- तेनेति। किञ् च गृहाभावावधारणोपक्षीणे ऽदर्शने बहिर्भावमतिर् भवति, कथम् असौ तद्धेतुका भवियिष्यतीत्य् अभिप्रायेणाह -- अदर्शनाद् इति। अभिप्रायं विवृणोति -- नासाव् इति। अदर्शनावधारितस्य चैत्रभावस्यैवान्यत्रानुपयुक्तस्य हेतुत्वं सम्भवति। तच्चापक्षधर्मतया निराकृतम् इत्य् आह -- चैत्राभावस्येति ॥ १४ -- १५ ॥ एवं तावत् पक्षधर्मता निराकृता पक्षो ऽप्य् अत्रानुमानात् पूर्वं नोपलक्ष्यत इत्य् आह -- पूर्वं न चेति

ato gṛhe 'darśanam api na hetur ity āha -- teneti. kiñ ca gṛhābhāvāvadhāraṇopakṣīṇe 'darśane bahirbhāvamatir bhavati, katham asau taddhetukā bhaviyiṣyatīty abhiprāyeṇāha -- adarśanād iti. abhiprāyaṃ vivṛṇoti -- nāsāv iti. adarśanāvadhāritasya caitrabhāvasyaivānyatrānupayuktasya hetutvaṃ sambhavati. taccāpakṣadharmatayā nirākṛtam ity āha -- caitrābhāvasyeti || 14 -- 15 || evaṃ tāvat pakṣadharmatā nirākṛtā pakṣo 'py atrānumānāt pūrvaṃ nopalakṣyata ity āha -- pūrvaṃ na ceti

Sanskrit only: no published translation is held for this verse.

३,१६७ अत्र चोदयति -- नदीति। अत्र ह्य् अप्रतिपन्न एवोपरिदेशे पक्षे ऽतद्धर्मः पूरो लिङ्गं तद्वद् इहापि भविष्यतीति

3,167 atra codayati -- nadīti. atra hy apratipanna evoparideśe pakṣe 'taddharmaḥ pūro liṅgaṃ tadvad ihāpi bhaviṣyatīti

Sanskrit only: no published translation is held for this verse.

परिहरति -- वृष्टिमद् इति। एवं त्व् अनुमीयमाने लोकविरोधः। न ह्य् एवं लौकिका बुध्यन्ते। अत आह -- यद् वेति। दृष्टस्य नदीपूरस्य कारणाभावानुपपत्त्योपरिष्टाद् वृष्टिः कल्प्यते। इदम् अपि चान्वारूढेनोक्तम्, परमार्थेन तु व्याप्तिबलोत्थम् इदम् अनुमानम् एव। न चापक्षधर्मतादोषः। उपरिदेशस्य पूरसम्बद्धदेशसम्बन्धात्, असम्बद्धो हि न हेतुर् भविष्यतीति

pariharati -- vṛṣṭimad iti. evaṃ tv anumīyamāne lokavirodhaḥ. na hy evaṃ laukikā budhyante. ata āha -- yad veti. dṛṣṭasya nadīpūrasya kāraṇābhāvānupapattyopariṣṭād vṛṣṭiḥ kalpyate. idam api cānvārūḍhenoktam, paramārthena tu vyāptibalottham idam anumānam eva. na cāpakṣadharmatādoṣaḥ. uparideśasya pūrasambaddhadeśasambandhāt, asambaddho hi na hetur bhaviṣyatīti

Sanskrit only: no published translation is held for this verse.

इतश् च गृहाभावो न बहिर्भावे लिङ्गम् इत्य् आह -- जीवतश् चेति। निश्चितरूपं हि लिङ्गम् अनुमाने गमकम्। इह च यो ऽयं जीवतो गृहाभावः स प्रमाणान्तरविरोधान् निश्चेतुम् एव न शक्यते। एवं हि तत्र भवति वितर्कः। जीवता हि क्वचिद् भवितव्यम्, कथम् इह न स्यात्। एवं चानध्यवसायाद् अप्रतिष्ठितो गृहाभावो ऽसिद्धत्वाद् अलिङ्गम्। सिद्धिस् तु नानन्तर्भाव्य बहिर्भावम् अस्य भवति, तदन्तर्भावे च परस्तात् प्रमेयाभाव इति भावः

itaś ca gṛhābhāvo na bahirbhāve liṅgam ity āha -- jīvataś ceti. niścitarūpaṃ hi liṅgam anumāne gamakam. iha ca yo 'yaṃ jīvato gṛhābhāvaḥ sa pramāṇāntaravirodhān niścetum eva na śakyate. evaṃ hi tatra bhavati vitarkaḥ. jīvatā hi kvacid bhavitavyam, katham iha na syāt. evaṃ cānadhyavasāyād apratiṣṭhito gṛhābhāvo 'siddhatvād aliṅgam. siddhis tu nānantarbhāvya bahirbhāvam asya bhavati, tadantarbhāve ca parastāt prameyābhāva iti bhāvaḥ

Sanskrit only: no published translation is held for this verse.

अनुमाने त्व् अनपेक्षितप्रमेयम् एव धूमादिलिङ्गस्य स्वरूपं सिद्धम् अवगम्यत इत्य् आह -- अग्निमत्तेति

anumāne tv anapekṣitaprameyam eva dhūmādiliṅgasya svarūpaṃ siddham avagamyata ity āha -- agnimatteti

Sanskrit only: no published translation is held for this verse.

यदि त्व् इहापि हेतोर् अनपेक्षत्वसिद्ध्यर्थं गृहाभावमात्रम् अविशेषितं जीवनेन हेतुर् इष्यते ततो नैकान्तिक इत्य् आह -- गेहेति

yadi tv ihāpi hetor anapekṣatvasiddhyarthaṃ gṛhābhāvamātram aviśeṣitaṃ jīvanena hetur iṣyate tato naikāntika ity āha -- geheti

Sanskrit only: no published translation is held for this verse.

३,१६८ कथं च विद्यमानत्वविशिष्टो गृहाभावो बहिर्भावं साधयति कथं च शुद्धो नेत्य् उभयत्र कारणम् आह -- विद्यमानत्वेति द्वयेन। विद्यमानत्वविशेषणविशिष्टगृहाभावबुद्धौ हि यावद् विद्यमानत्वस्य विषयो नावस्थाप्यते तावदभावः प्रत्येतुम् एव न शक्यते, तद् यदा भावप्रतिपक्षेणाभावेन गृहम् अवरुद्धं तदा तत्र तावच् चैत्रस्य भावो भवितुं न प्रभवतीत्य् आश्रयापेक्षया पारिशेष्याद् बहिर् एव भवतीति। शुद्धाभावप्रतीतौ त्व् आश्रयापेक्षैव नास्तीति किं बहिर्भावकल्पनयेति ॥ २२ -- २३ ॥ ननु च निश्चितसद्भावस्य चैत्रस्य गृहाभावो बहिर्भावम् अन्तर्भाव्य सिद्ध्येत्। सन्दिग्धसद्भावस्य त्व् अनपेक्षितबहिर्भाव एव तं गमयिष्यतीत्य् अत आह -- सिद्ध इति। यदि चैत्रसद्भावे सन्देहः, न तर्हि तद्बहिर्भावावगतिः प्रसिध्येत्। असन्दिग्ध एव तु सद्भावविज्ञाने ऽभावेन गेहाद् उत्कालिता -- उत्सारिता तत्सत्ता बहिर्भवति नियमेन, इतरथा तत्रापि सन्देह एव भवेत्। एतेन गृहाभावापादितसन्देहं विद्यमानत्वम् एव बहिर्भावं कल्पयतीति यैर् उक्तं तन्निराकृतम् इति वेदितव्यम्। इदं च प्रायेवोक्तम् अस्माभिर् इति

3,168 kathaṃ ca vidyamānatvaviśiṣṭo gṛhābhāvo bahirbhāvaṃ sādhayati kathaṃ ca śuddho nety ubhayatra kāraṇam āha -- vidyamānatveti dvayena. vidyamānatvaviśeṣaṇaviśiṣṭagṛhābhāvabuddhau hi yāvad vidyamānatvasya viṣayo nāvasthāpyate tāvadabhāvaḥ pratyetum eva na śakyate, tad yadā bhāvapratipakṣeṇābhāvena gṛham avaruddhaṃ tadā tatra tāvac caitrasya bhāvo bhavituṃ na prabhavatīty āśrayāpekṣayā pāriśeṣyād bahir eva bhavatīti. śuddhābhāvapratītau tv āśrayāpekṣaiva nāstīti kiṃ bahirbhāvakalpanayeti || 22 -- 23 || nanu ca niścitasadbhāvasya caitrasya gṛhābhāvo bahirbhāvam antarbhāvya siddhyet. sandigdhasadbhāvasya tv anapekṣitabahirbhāva eva taṃ gamayiṣyatīty ata āha -- siddha iti. yadi caitrasadbhāve sandehaḥ, na tarhi tadbahirbhāvāvagatiḥ prasidhyet. asandigdha eva tu sadbhāvavijñāne 'bhāvena gehād utkālitā -- utsāritā tatsattā bahirbhavati niyamena, itarathā tatrāpi sandeha eva bhavet. etena gṛhābhāvāpāditasandehaṃ vidyamānatvam eva bahirbhāvaṃ kalpayatīti yair uktaṃ tannirākṛtam iti veditavyam. idaṃ ca prāyevoktam asmābhir iti

Sanskrit only: no published translation is held for this verse.

अतः सिद्धं जीवननिरपेक्षस्याभावस्य व्यभिचारः अव्यभिचारिणश् च प्रमेयानुप्रवेशद्वारणैव समर्थनम् इति धूमाद् इवैलक्षण्यान् न लिङ्गत्वम् इत्य् आह -- तेनेति

ataḥ siddhaṃ jīvananirapekṣasyābhāvasya vyabhicāraḥ avyabhicāriṇaś ca prameyānupraveśadvāraṇaiva samarthanam iti dhūmād ivailakṣaṇyān na liṅgatvam ity āha -- teneti

Sanskrit only: no published translation is held for this verse.

३,१६९ एवम् अनुमानाद् भेदं प्रसाधितुम् उपसंहरति -- तस्माद् इति। अनुमानाद् बहिर्भूतम् इदं प्रमाणं स्थितम् इति

3,169 evam anumānād bhedaṃ prasādhitum upasaṃharati -- tasmād iti. anumānād bahirbhūtam idaṃ pramāṇaṃ sthitam iti

Sanskrit only: no published translation is held for this verse.

तद् एवं गृहाभावस्य प्रमेयानुप्रवेशनसिद्धौ यदि तल्लिङ्गम् इष्यते ततो दुरुत्तरम् इतरेतराश्रयत्वम् आपद्यत इत्य् आह -- पक्षेति द्वयेन ॥ २७ -- २८ ॥ नन्व् एवम् अर्थापत्ताव् अपि प्रमेयानुप्रवेशिता, कथं हि प्रमाणान्तरापादितानुपपत्तिर् अनवस्थितो गृहाभावो बहिर्भावं गमयिष्यत्य् अत आह -- अन्यथेति। द्वेधा ह्य् अनुपपन्नम् -- किञ्चिद् अनुपपन्नम् एव यन् न कथञ्चिद् उपपादयितुं शक्यम्, किञ्चिच् चासति कल्पने ऽनुपपन्नम्। तत्र यद् एकान्तम् अनुपपन्नं तदुपेक्ष्यत एव। यत् तु कल्पिते कस्मिंश्चिद् उपपद्यते अन्यथा नोपपद्यते तदुपपत्तिर् अन्यकल्पनयावसीयते। एवम् एव हि सर्वलौकिकपरीक्षका बुध्यन्ते। न च विपर्ययो देशान्तरादिषु दृष्टः। अतः प्रमाणम् एवेदम्। यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्, एवम् इहापि केनचित् प्रमाणेनावगतं प्रमाणान्तरेणोत्थापितवितर्कम्। न चात्रान्यतरत्रापि प्रामाण्ये संशयः, किन् तु निश्चितप्रामाण्ययोर् एव द्वयोस् समर्थनापेक्षामात्रं कथम् इदम् उभयम् उपपद्यताम् इति। षोडशिन इव ग्रहणाग्रहणशास्त्रयोः। न तत्रैकपरित्यागेनेतरद् उपपादयितुं शक्यते। अतो यथा तत्र कथम् इदम् उभयम् उपपद्यताम् इत्य् अपेक्षिते प्रयोगभेदेनोभयम् उपपाद्यते, एवम् इहापि प्रमाणप्रतिपन्नम् उभयं निश्चितसद्भावम् अर्थान्तरपरिकल्पनया ३,१७० समर्थ्यते। ताद्रूप्येणैव प्रतिभानात्। विलक्षणानि हि प्रमाणानि विलक्षणसामग्रीकाणि। अत एव परस्परतो भिद्यन्ते। अप्रामाण्यकारणानि च संशयविपर्ययावज्ञानं वा, तच् चार्थापत्ताव् अपि नास्तीति कथम् अप्रमाणता। कथम् अज्ञातसम्बन्धात् प्रतीतिः प्रमाणम् इति चेत्। न सम्बन्धः प्रामाण्ये कारणम्, अपि तु बाधविरहः। स चेहाप्य् अविशिष्ट इति न कश्चिद् दोषो ऽर्थापत्ताव् अस्माकं प्रतिभातीति

tad evaṃ gṛhābhāvasya prameyānupraveśanasiddhau yadi talliṅgam iṣyate tato duruttaram itaretarāśrayatvam āpadyata ity āha -- pakṣeti dvayena || 27 -- 28 || nanv evam arthāpattāv api prameyānupraveśitā, kathaṃ hi pramāṇāntarāpāditānupapattir anavasthito gṛhābhāvo bahirbhāvaṃ gamayiṣyaty ata āha -- anyatheti. dvedhā hy anupapannam -- kiñcid anupapannam eva yan na kathañcid upapādayituṃ śakyam, kiñcic cāsati kalpane 'nupapannam. tatra yad ekāntam anupapannaṃ tadupekṣyata eva. yat tu kalpite kasmiṃścid upapadyate anyathā nopapadyate tadupapattir anyakalpanayāvasīyate. evam eva hi sarvalaukikaparīkṣakā budhyante. na ca viparyayo deśāntarādiṣu dṛṣṭaḥ. ataḥ pramāṇam evedam. yathā cānumāne niścitarūpaṃ liṅgaṃ gamakam, evam ihāpi kenacit pramāṇenāvagataṃ pramāṇāntareṇotthāpitavitarkam. na cātrānyataratrāpi prāmāṇye saṃśayaḥ, kin tu niścitaprāmāṇyayor eva dvayos samarthanāpekṣāmātraṃ katham idam ubhayam upapadyatām iti. ṣoḍaśina iva grahaṇāgrahaṇaśāstrayoḥ. na tatraikaparityāgenetarad upapādayituṃ śakyate. ato yathā tatra katham idam ubhayam upapadyatām ity apekṣite prayogabhedenobhayam upapādyate, evam ihāpi pramāṇapratipannam ubhayaṃ niścitasadbhāvam arthāntaraparikalpanayā 3,170 samarthyate. tādrūpyeṇaiva pratibhānāt. vilakṣaṇāni hi pramāṇāni vilakṣaṇasāmagrīkāṇi. ata eva parasparato bhidyante. aprāmāṇyakāraṇāni ca saṃśayaviparyayāvajñānaṃ vā, tac cārthāpattāv api nāstīti katham apramāṇatā. katham ajñātasambandhāt pratītiḥ pramāṇam iti cet. na sambandhaḥ prāmāṇye kāraṇam, api tu bādhavirahaḥ. sa cehāpy aviśiṣṭa iti na kaścid doṣo 'rthāpattāv asmākaṃ pratibhātīti

Sanskrit only: no published translation is held for this verse.

ननु गृहाभावो नान्तरेण बहिर्भावम् उपपद्यते अतो नान्तरीयकः, नान्तरीयकाच् च यदर्थान्तरज्ञानं तदनुमानम्, अतो ऽनुमानम् एवेदं बहिर्भावज्ञानम् अत आह -- अविनेति। अयम् अभिप्रायः -- नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति केचित् पठन्ति, तेषाम् अपि तद्विदो नान्तरीयकताविद एव नान्तरीयकदर्शनम् अनुमानम् अभिप्रेतम्, न चेह नान्तरेण बहिर्भावं गृहाभावो भवतीति प्रागवगतम्, तदैव ह्य् अर्थापत्त्या बहिर्भावं परिकल्प्यायमनेन विना न भवतीत्य् अविनाभाविता कल्प्यते। अतस् सा स्वरूपसत्य् अपि न पूर्वम् अवगतेति न ज्ञानोत्पत्तौ कारणम् इति

nanu gṛhābhāvo nāntareṇa bahirbhāvam upapadyate ato nāntarīyakaḥ, nāntarīyakāc ca yadarthāntarajñānaṃ tadanumānam, ato 'numānam evedaṃ bahirbhāvajñānam ata āha -- avineti. ayam abhiprāyaḥ -- nāntarīyakārthadarśanaṃ tadvido 'numānam iti kecit paṭhanti, teṣām api tadvido nāntarīyakatāvida eva nāntarīyakadarśanam anumānam abhipretam, na ceha nāntareṇa bahirbhāvaṃ gṛhābhāvo bhavatīti prāgavagatam, tadaiva hy arthāpattyā bahirbhāvaṃ parikalpyāyamanena vinā na bhavatīty avinābhāvitā kalpyate. atas sā svarūpasaty api na pūrvam avagateti na jñānotpattau kāraṇam iti

Sanskrit only: no published translation is held for this verse.

नन्व् अवगतसम्बन्धस्य तर्ह्य् अनुमानं स्याद् अत आह -- गृहाभावेति तान्तेन। न तावन्नियमेन सर्वैर् एव द्वयोस् साहित्यम् अवगतम्, अविदितसाहित्यस्य तावत् सिद्धं प्रमाणान्तरम् इत्य् अभिप्रायः। येनापि तयोस् साहित्यम् अवगतं तस्यापि नागृहीतयोस् तयोस् साहित्यग्रहः सम्भवति, न च तयोर् एकग्रहणे ऽपरदर्शनम् अर्थापत्त्या विना सम्भवति। अन्यथानुपपत्त्यैव त्व् एकेन गृहाभावेन ३,१७१ बहिर्भावेन वा तयोर् एकः प्रत्येतव्यः। एवं चाकल्प्यमाने न्यतरस्य सम्बन्धिनो ऽगृहीतत्वात् साहित्यप्रतीतिर् एव न स्यात्, अतस् साहित्यार्थम् अर्थापत्तिर् अर्थनीयेति सिद्धं प्रमाणान्तरम् इत्य् अभिप्रायेणाह -- प्रमाणं चेति प्रतीयते ऽन्तेन। अभिप्रायं विवृणोति -- तेनेति ॥ ३१ -- ३३ ॥ ननु च नावश्यम् अर्थापत्त्यैवान्यतरस् सम्बन्धी ग्रहीतव्यः, शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्याम् उभयं विदित्वा सम्बन्धो ऽनुभवितुम्, तथा विदितसम्बन्धाच् च गृहाभावाद् बहिर्भावानुमानम् इत्य् आशङ्कते तावत् -- गृहद्वारीति

nanv avagatasambandhasya tarhy anumānaṃ syād ata āha -- gṛhābhāveti tāntena. na tāvanniyamena sarvair eva dvayos sāhityam avagatam, aviditasāhityasya tāvat siddhaṃ pramāṇāntaram ity abhiprāyaḥ. yenāpi tayos sāhityam avagataṃ tasyāpi nāgṛhītayos tayos sāhityagrahaḥ sambhavati, na ca tayor ekagrahaṇe 'paradarśanam arthāpattyā vinā sambhavati. anyathānupapattyaiva tv ekena gṛhābhāvena 3,171 bahirbhāvena vā tayor ekaḥ pratyetavyaḥ. evaṃ cākalpyamāne nyatarasya sambandhino 'gṛhītatvāt sāhityapratītir eva na syāt, atas sāhityārtham arthāpattir arthanīyeti siddhaṃ pramāṇāntaram ity abhiprāyeṇāha -- pramāṇaṃ ceti pratīyate 'ntena. abhiprāyaṃ vivṛṇoti -- teneti || 31 -- 33 || nanu ca nāvaśyam arthāpattyaivānyataras sambandhī grahītavyaḥ, śakyate hi gṛhadvārāvasthitenābhāvapratyakṣābhyām ubhayaṃ viditvā sambandho 'nubhavitum, tathā viditasambandhāc ca gṛhābhāvād bahirbhāvānumānam ity āśaṅkate tāvat -- gṛhadvārīti

Sanskrit only: no published translation is held for this verse.

अत्रोत्तरम् आह -- तदापीति। अयम् अभिप्रायः -- सिध्यत्य् एवं गृहाभावाद् बहिर्भावानुमानम्, न पुनर् एवम् एव सर्वेषाम् अवगतिः, अगृहीतसम्बन्धानाम् अपि प्रतीतिभावात्। एषो ऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावो ऽन्वितश् शक्यो ऽवगन्तुम्। जगदभावस्य प्रत्येतुम् अशक्यत्वाद् इत्य् अभिप्रायः। नन्व् एवं तदावगतं यदायम् एकत्र भवति तदा परत्र तत्समीपे न भवतीति। एवं च विदितव्याप्तेर् एकदेशभाने सर्वत्राभावानुमानं भविष्यति। अत आह -- न चेति। न ह्य् एकदेशनास्तितया त्रैलोक्याभावेन हेतोर् व्याप्तिस् सिध्यतीति

atrottaram āha -- tadāpīti. ayam abhiprāyaḥ -- sidhyaty evaṃ gṛhābhāvād bahirbhāvānumānam, na punar evam eva sarveṣām avagatiḥ, agṛhītasambandhānām api pratītibhāvāt. eṣo 'pi ca prakāro naikatra bhāvena sarvatrābhāvāvagame sambhavati, na hi jagadabhāvenaikatra bhāvo 'nvitaś śakyo 'vagantum. jagadabhāvasya pratyetum aśakyatvād ity abhiprāyaḥ. nanv evaṃ tadāvagataṃ yadāyam ekatra bhavati tadā paratra tatsamīpe na bhavatīti. evaṃ ca viditavyāpter ekadeśabhāne sarvatrābhāvānumānaṃ bhaviṣyati. ata āha -- na ceti. na hy ekadeśanāstitayā trailokyābhāvena hetor vyāptis sidhyatīti

Sanskrit only: no published translation is held for this verse.

किं पुनर् जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेर् इति चेद्, नन्व् अनुपलब्धिर् अभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे ३,१७२ नुपलभ्यमानो नास्तीति निश्चीयते। एवम् एकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यम् अवगन्तुम्। न हि दर्शनवददर्शनम् अपि प्रयत्नम् अपेक्षते, दर्शनं हि कार्यं स्वकारणम् अर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणम् एकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस् तु न किञ्चिद् अपेक्षत इति चोदयति -- नन्व् अत्रेति। अत्रेत्य् एकदेशं परामृशति। अत्र खल्व् एकदेशे ऽनुपलब्धितो ऽविद्यमानत्वम् अवगम्यते। तच् च सर्वत्रापि समानम् इति

kiṃ punar jagadabhāvena sambandho nāvagamyate, tasyānavagater iti ced, nanv anupalabdhir abhāvāvagame kāraṇam, yathā caikatra san devadatto deśāntare 3,172 nupalabhyamāno nāstīti niścīyate. evam ekatra san sarvatra nopalabhyata iti sarvatraiva nāstīti śakyam avagantum. na hi darśanavadadarśanam api prayatnam apekṣate, darśanaṃ hi kāryaṃ svakāraṇam arthendriyasannikarṣādyapekṣamāṇam ekatra sato na sarvatra sambhavati, darśanābhāvas tu na kiñcid apekṣata iti codayati -- nanv atreti. atrety ekadeśaṃ parāmṛśati. atra khalv ekadeśe 'nupalabdhito 'vidyamānatvam avagamyate. tac ca sarvatrāpi samānam iti

Sanskrit only: no published translation is held for this verse.

अत्र परिहारम् आह -- नैतयेति। किम् इति न प्रतीयते अत आह -- तद्देशेति। उपलब्धियोग्यस्य ह्य् अनुपलब्धिर् अभावं व्यवस्थापयति, दूरस्थेषु त्वयोग्यत्वाद् एव सत्स्व् अप्य् अनुपलब्धिस् सम्भवतीति नाभावनिश्चय इति

atra parihāram āha -- naitayeti. kim iti na pratīyate ata āha -- taddeśeti. upalabdhiyogyasya hy anupalabdhir abhāvaṃ vyavasthāpayati, dūrastheṣu tvayogyatvād eva satsv apy anupalabdhis sambhavatīti nābhāvaniścaya iti

Sanskrit only: no published translation is held for this verse.

यदि तु सर्वग्रामनगरसरित्कान्तारादिदेशाः प्राप्ता भवेयुः, एवं चैत्रस्य तेष्व् अभावश् शक्यावगमः, न चेदं शक्यकरणम् इत्य् अभिप्रायेणाह -- गत्वा गत्वेति

yadi tu sarvagrāmanagarasaritkāntārādideśāḥ prāptā bhaveyuḥ, evaṃ caitrasya teṣv abhāvaś śakyāvagamaḥ, na cedaṃ śakyakaraṇam ity abhiprāyeṇāha -- gatvā gatveti

Sanskrit only: no published translation is held for this verse.

अत्र चोदयति -- ननु चेति। अयम् अभिप्रायः -- न तावद् विपक्षाद् अव्यावृत्तो हेतुर् गमकः, न च सर्वे विपक्षा गत्वोपलब्धुं शक्यन्ते, अतो ऽवश्यम् एकदेशस्थस्यैवानुपलब्ध्या विपक्षाद् हेतोर् व्यतिरेको ग्रहीतव्यः। तद्वद् इहापि भविष्यतीति। धूमादयश् च ते व्यतिरेकिणश् चेति धूमादिव्यतिरेकिणः। अग्न्याद्यभावे ये व्यतिरेकिणो धूमादयस् तेषाम् अग्न्याद्यभावदेशागमनाद् व्यतिरेको न सिध्यतीति

atra codayati -- nanu ceti. ayam abhiprāyaḥ -- na tāvad vipakṣād avyāvṛtto hetur gamakaḥ, na ca sarve vipakṣā gatvopalabdhuṃ śakyante, ato 'vaśyam ekadeśasthasyaivānupalabdhyā vipakṣād hetor vyatireko grahītavyaḥ. tadvad ihāpi bhaviṣyatīti. dhūmādayaś ca te vyatirekiṇaś ceti dhūmādivyatirekiṇaḥ. agnyādyabhāve ye vyatirekiṇo dhūmādayas teṣām agnyādyabhāvadeśāgamanād vyatireko na sidhyatīti

Sanskrit only: no published translation is held for this verse.

३,१७३ परिहरति -- यस्येति। व्यतिरेकप्रधानवादिनो हि बौद्धस्यासति विपक्षाद् व्यतिरेकग्रहणे न हेतुर् गमको भवति, वस्त्वन्तराभावो हि तस्य प्रमेयः, अग्न्यादेर् वस्तुनो ऽन्यस्यानग्न्यादेर् अभाव इति यावत्। स हि सर्वानग्निव्यतिरेकम् अन्तरेण न सम्भवति, मम तु सहचारिणो हेतुर् गमकः, अन्वयमात्रनियमेन। स च विपक्षादर्शनमात्रेण द्वित्रैर् एव दर्शनैः सिध्यतीति

3,173 pariharati -- yasyeti. vyatirekapradhānavādino hi bauddhasyāsati vipakṣād vyatirekagrahaṇe na hetur gamako bhavati, vastvantarābhāvo hi tasya prameyaḥ, agnyāder vastuno 'nyasyānagnyāder abhāva iti yāvat. sa hi sarvānagnivyatirekam antareṇa na sambhavati, mama tu sahacāriṇo hetur gamakaḥ, anvayamātraniyamena. sa ca vipakṣādarśanamātreṇa dvitrair eva darśanaiḥ sidhyatīti

Sanskrit only: no published translation is held for this verse.

नन्व् अन्वयवादिनो ऽप्य् अजातातिवृत्तप्रत्युत्पन्नानन्तदेशवर्तिवह्निसहचरितधूमदर्शनं दुर्लभम् एव। अथ कतिपयाग्निसाहित्यदर्शनादेवासहितावगता अपि वह्नयो ऽनुमीयन्ते, एवं तर्हीहापि चैत्राभावस्य जगद्वर्तिन एकदेशभावेन सम्बन्ध उपपद्यत एव। अत्रापि ह्य् एकत्र चैत्रे भवति कतिपयेषु तदभावो दृष्ट एव, तावता च सर्वत्राभावो ऽनुमास्यत इत्य् आह -- नन्व् एवम् इति

nanv anvayavādino 'py ajātātivṛttapratyutpannānantadeśavartivahnisahacaritadhūmadarśanaṃ durlabham eva. atha katipayāgnisāhityadarśanādevāsahitāvagatā api vahnayo 'numīyante, evaṃ tarhīhāpi caitrābhāvasya jagadvartina ekadeśabhāvena sambandha upapadyata eva. atrāpi hy ekatra caitre bhavati katipayeṣu tadabhāvo dṛṣṭa eva, tāvatā ca sarvatrābhāvo 'numāsyata ity āha -- nanv evam iti

Sanskrit only: no published translation is held for this verse.

अत्र परिहारम् आह -- साहित्य इति। अयम् अभिप्रायः -- न हि नो व्यक्तिविषयम् अनुमानम्, अपि तर्ह्य् आकृतिविषयम्, आकृत्योश् च प्रतिव्यक्तिकृत्स्नसमवायात् सुलभम् एव साहित्यदर्शनम्, सकृद्दर्शनेनैव ह्य् आकृत्योस् साहित्यम् अवगम्यते। अत एव द्वित्रादिदर्शनम् अपि व्यभिचाराशङ्कायां नियमार्थम् अभ्यर्थ्यते। अवगते हि साहित्ये भवति शङ्का -- किम् अयम् औपाधिकस् संसर्गो धूमस्याग्निना सह आहोस्वित् सहज एवेति, तत्रासकृद्दर्शने ऽन्वयाव्यभिचाराद् उपाध्यन्तरप्रवेशकारणाभावात् स्वाभाविको ऽस्याग्निनान्वय इति भवति मतिः। अग्नेस् तु प्रथमम् अवगतसम्बन्धस्यापि धूमेन दर्शनान्तरे व्यभिचारदर्शनादार्देर्न्धनादिर् उपाधिर् अनुप्रविशति। न च देशादिभेदे व्यभिचाराशङ्का, सकृद्दर्शनावधारितसाहचर्ययोर् हि द्वयोर् अप्य् अग्नेस् तावद् व्यभिचारो दृष्टो ३,१७४ द्वित्रादिदर्शनेनैव, तद् यदि धूमो ऽप्य् अग्निं व्यभिचरेत्, अस्यापि हि द्वित्रिचतुरैर् एव दर्शनैर् व्यभिचारो दृश्येत, न च दृश्यते। अतो ऽग्न्यन्वितस्वभावो ऽयम् इति निश्चीयते। यस्य त्व् एवम् अप्य् अनाश्वासः। तस्य सर्वप्रमाणेष्व् एव क्वचिद् व्यभिचारदर्शनाद् अनाश्वासः स्यात्। विपक्षव्यतिरेको ऽपि चैवम् अर्थाद् एव सिद्धो भवति। स हि प्रथमम् अन्विच्छतो विपक्षदेशानाम् अनन्तत्वाद् दुर्लभो भवति। स्वभावनियमे तु ज्ञाते स्वभावस्याव्यभिचारात् सुलभो व्यतिरेकः। न हि स्वाभाविकम् उष्णत्वम् अन्तरेण क्वचित् कदाचिद् अग्निर् भवतीति कश्चिद् आशङ्कते। मितदेशत्वाद् इति। परिमितदेशत्वाद् इत्य् अर्थः

atra parihāram āha -- sāhitya iti. ayam abhiprāyaḥ -- na hi no vyaktiviṣayam anumānam, api tarhy ākṛtiviṣayam, ākṛtyoś ca prativyaktikṛtsnasamavāyāt sulabham eva sāhityadarśanam, sakṛddarśanenaiva hy ākṛtyos sāhityam avagamyate. ata eva dvitrādidarśanam api vyabhicārāśaṅkāyāṃ niyamārtham abhyarthyate. avagate hi sāhitye bhavati śaṅkā -- kim ayam aupādhikas saṃsargo dhūmasyāgninā saha āhosvit sahaja eveti, tatrāsakṛddarśane 'nvayāvyabhicārād upādhyantarapraveśakāraṇābhāvāt svābhāviko 'syāgninānvaya iti bhavati matiḥ. agnes tu prathamam avagatasambandhasyāpi dhūmena darśanāntare vyabhicāradarśanādārderndhanādir upādhir anupraviśati. na ca deśādibhede vyabhicārāśaṅkā, sakṛddarśanāvadhāritasāhacaryayor hi dvayor apy agnes tāvad vyabhicāro dṛṣṭo 3,174 dvitrādidarśanenaiva, tad yadi dhūmo 'py agniṃ vyabhicaret, asyāpi hi dvitricaturair eva darśanair vyabhicāro dṛśyeta, na ca dṛśyate. ato 'gnyanvitasvabhāvo 'yam iti niścīyate. yasya tv evam apy anāśvāsaḥ. tasya sarvapramāṇeṣv eva kvacid vyabhicāradarśanād anāśvāsaḥ syāt. vipakṣavyatireko 'pi caivam arthād eva siddho bhavati. sa hi prathamam anvicchato vipakṣadeśānām anantatvād durlabho bhavati. svabhāvaniyame tu jñāte svabhāvasyāvyabhicārāt sulabho vyatirekaḥ. na hi svābhāvikam uṣṇatvam antareṇa kvacit kadācid agnir bhavatīti kaścid āśaṅkate. mitadeśatvād iti. parimitadeśatvād ity arthaḥ

Sanskrit only: no published translation is held for this verse.

एकदेशभावजगदभावयोस् तु नैवं साहित्यज्ञानं भवतीत्य् आह -- इहेति। एको ह्य् अत्र सर्वत्राभावस् सहभाव्यनन्तदेशवर्ती, न त्व् अग्निधूमाकृतिवत् परिमितदेशः, अतो ऽत्र दुर्ग्रहं साहित्यम् इति

ekadeśabhāvajagadabhāvayos tu naivaṃ sāhityajñānaṃ bhavatīty āha -- iheti. eko hy atra sarvatrābhāvas sahabhāvyanantadeśavartī, na tv agnidhūmākṛtivat parimitadeśaḥ, ato 'tra durgrahaṃ sāhityam iti

Sanskrit only: no published translation is held for this verse.

अत्र चोदयति -- नन्व् इति। अनुमानेन देशान्तराभावश् चैत्रस्य प्रतीयते। एवं ह्य् अनुमास्यते। परोक्षास् सर्वभूमयश् चैत्राभावसम्बन्धाः, तदाक्रान्तदेशव्यतिरेकित्वात् स्थितचैत्रदेशसमीपवद् इति

atra codayati -- nanv iti. anumānena deśāntarābhāvaś caitrasya pratīyate. evaṃ hy anumāsyate. parokṣās sarvabhūmayaś caitrābhāvasambandhāḥ, tadākrāntadeśavyatirekitvāt sthitacaitradeśasamīpavad iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- विरुद्धेति। कथं हि विरुद्धाव्यभिचारित्वम् अत आह -- तद्वद् इति। तद्वच् चैत्रवद् देशान्तरम् इति। अतो ऽर्थापत्त्यैव सर्वत्राभावो ऽवगन्तव्यः, नान्या गतिर् अस्ति

pariharati -- viruddheti. kathaṃ hi viruddhāvyabhicāritvam ata āha -- tadvad iti. tadvac caitravad deśāntaram iti. ato 'rthāpattyaiva sarvatrābhāvo 'vagantavyaḥ, nānyā gatir asti

Sanskrit only: no published translation is held for this verse.

तथा तु तं गृहीत्वा साहित्यग्रहणपुरस्सरं यद्य् अनुमानम् इष्यते तदर्थापत्तिपूर्वकम्, एतावता च सिद्धम् अर्थापत्तेः प्रामाण्यम् इत्य् अभिप्रायेणाह -- ३,१७५ पुरुषस्येत्य् अत्रान्तेन। यस् तु वदति -- स्वात्मनस् तावद् एकत्र सतस् सर्वत्राभावेन सम्बन्धो दृष्टः, अतो ऽन्यस्याप्य् अनुमिनोतीति। स वक्तव्यः स्वात्मन एव सर्वत्रासत्ता कथम् अवगम्यते, यद्य् अभावेन, कस्येति वक्तव्यम्, न तावत् प्रत्यक्षस्य निवृत्त्या दूरदेशेष्व् अभावश् शक्यते ऽवगन्तुम्, दूरत्वाद् एव तेषाम् अनुपलब्धियोग्यत्वान् न स्वात्मनो ऽभावस् तेषु शक्यते ऽवगन्तुम्। अथ तत्र सतो दूरस्थत्वम् एव न स्यात्, अतस् सहैव देशान्तरे स्वशरीरम् उपलब्धियोग्यं भवति, योग्यत्वाच् चोपलभ्येत, अतो ऽनुपलम्भान् नास्तीति निश्चीयते। यद्य् एवं प्रमाणान्तरम् इदम्, यो हि यत्र भवति तस्य सहैवाधारेणात्मोपलब्धियोग्यो भवति, न चेह तथा, अतो न देशान्तरेष्व् अस्तीति। एवं चानुमानेन देशान्तराभावो ग्रहीतव्यः। न प्रत्यक्षाभावेन। तत्र च विरुद्धाव्यभिचारितोक्तैव -- देशान्तराणि विमतिपदानि चैत्रवन्ति चैत्रवद्देशसमीपव्यतिरिक्तदेशत्वाच् चैत्रवद् देशवद् इति। यत्र च प्रतिहेतुना सन्देहः क्रियते तत्र बलवतान्येन यदुपबृंहितं प्रत्यक्षादिना भवति तद्विजयते, न चेहार्थापत्तेर् अन्यत् प्रमाणं सर्वत्राभावे समर्थम्। सा ह्य् एवं प्रवर्तते, यद् एतद् एकत्र कार्त्स्न्येन चैत्रस्योपलम्भनं तन् नोपपद्यते, यदि देशान्तरे चैत्रो भवेत्, द्वेधा हि भावाः प्रादेशिका विभवश् च, विभवो ऽपि द्वेधा, सर्वव्यापिनः स्वाश्रयव्यापिनश् च। पूर्वे गगनादयः। उत्तरे जात्यादयः। यद् धि सर्वसंयोगिभिर् अनागतैर् अगतं सम्बध्यते, तद्विभुतया प्रसिद्धम्, तया चात्माकाशादय इति विभव इत्य् उच्यन्ते। न तावदाकाशवच् चैत्रः, एकत्र परिसमाप्तो हि परिमण्डलस् सो ऽवगम्यते। न च यथावयवी स्वावयवेषु वर्तते तथा देशान्तरे वर्तितुम् अर्हति। यदि हि तस्यान्यत्र भागा भवेयुः इह कृत्स्नो नोपलभ्येत। भवन्वान्तराले विच्छेदाद् अन्यो भवेत्। न च जातिवद् वर्तितुम् अर्हति। जातिर् ह्य् अमूर्ता, सैकत्र पिण्डे समवेता पिण्डान्तरे समवैति। अस्य तु कुतो ऽन्यत्र समवायः। न हीदं सामान्यम्। संयोगो ऽस्य देशान्तरेण सम्बन्धः। स च नागतस्य सम्भवति। गत्वा ह्य् अयं देशान्तरैः संयुज्यमानो दृश्यते। अत एव न विभुः। ३,१७६ अतो ऽस्य न कथञ्चिद् एकत्र सतो ऽन्यत्र सत्त्वम् उपपद्यत इत्य् अन्यत्राभावम् अन्तर्भाव्य कृत्स्नबोधस् समर्थ्यते, का पुनर् अत्रानुपपत्तिः, नात्र कृत्स्नबोधस्य केनचित् प्रतिघातो दृश्यते। भावानुमानेनैव केवलं तु दुर्बले प्रतिघातहेतौ तद्बाधेनैवार्थापत्तिर् आत्मानं लभते। दुर्बलं चेह भावानुमानं प्रतिहेतुविरुद्धत्वात्। यत्र तु तुल्यबलम् उभयम् एकत्रोपनिपतितं भवति, तत्रार्थान्तरकल्पनयोपपत्तिर् इति न किञ्चिद् अनुपपन्नम् इति। एवं तावद् अभावपूर्विकाया अर्थापत्तेर् अनुमानाद् भेद उक्तः प्रत्यक्षपूर्विकाया भेदम् इदानीं दर्शयितुं तत्प्रतिज्ञां तावद् आह -- यत्र चेति। यत्रापि दाहादिकार्यदर्शनाद् अग्न्यादेः कारणस्य शक्तिर् अस्तीति कल्प्यते तत्राप्य् अर्थापत्तिर् एव प्रथमा। यदि तु पश्चादनुमानं भवति भवतु। भाष्योदाहृतत्वाच् चाभावपूर्विकाया एव प्रथमम् अनुमानाद् भेदो वर्णित इति ॥ ४६ -- ४७ ॥ अत्रानुमानवादिनां लिङ्गम् उपन्यस्यति -- कार्यस्येति। एवं हि मन्यन्ते -- द्विविधम् अनुमानं दृष्टस्वलक्षणविषयम् अदृष्टस्वलक्षणविषयं च। तत्र तावत् दृष्टस्वलक्षणविषयं धूमादिनाग्न्यनुमानम्, अदृष्टस्वलक्षणविषयं च संयोगविभागादिभ्य इव क्रियाद्यनुमानम्। कार्यं हि कारणेन सामान्यतो ज्ञातसम्बन्धम् इति ततस् तत्प्रतीतिर् अनुमानम् एवेदम् इति। एतद् अपि दूषयति -- न सम्बन्धेति। येन ह्य् एकदा बीजाद् अङ्कुरो दृष्टः सो ऽन्यदा तथाविधाद् एव पुनर् अनुपलभमानः स्वभावानुमानेन जनयितव्यो ऽनेनाङ्कुर इत्य् अनुमिमान एवात्राशङ्कते कथम् अङ्कुरो न जायत इति, ततः कल्पयति -- अस्ति कश्चिद् बीजसमवायी शक्तिभेदो यद्वशात् प्राक् कार्यम् आसीद् अद्य च नास्तीति। तच् चेदम् अनपेक्षितसम्बन्धस्यैव पुरातनेदानीन्तनाङ्कुरदर्शनादर्शनविचाराद् एव ज्ञानं जायमानं कथम् अनुमानम् इति। अपि च सम्बन्धग्रहणाधीनम् एव सर्वम् अनुमानं न तदगृहीतयोस् सम्बन्धिनोस् सम्भवति। न चेह तयोर् अतीन्द्रिया शक्तिः ३,१७७ प्रमाणान्तरेण शक्यते ऽनुभवितुम्, अत एव च न तद्वतो ऽपि ग्रहणं सम्भवति, अतः कथम् अगृहीतसम्बन्धात् कार्याच् छक्तितद्वतोस् सिद्धिर् इति। तद् एतद् आह -- दृष्ट्वेति। नन्व् अवगतं तावत् कार्यसामान्यं कारणसामान्येन व्याप्तम् इति, अतस् तद् अनुमास्यते। सत्यम्, किन् तु शक्तिकल्पनया विना कारणाख्यैव न निवर्तते। अङ्कुरो हि बीजभावभावी व्यभिचरितभावान्तरश् च बीजकारणक इत्य् अवगतः सत्य् अपि तु बीजे ऽजायमानस् तद् अपि व्यभिचरतीति कारणावगतिर् एवावसीदति, तां शक्तिकल्पनयोत्तभ्नाति। कॢप्तायां च शक्तौ कारणसम्बन्धिन्याम् अर्थापत्त्या यदि सम्बन्धो ऽवगम्यते तद् अस्तु सिद्धान्तवच्छक्तिसिद्धाव् अर्थापत्तिः प्रमाणम् इति। अनुमानलक्षणाद् विनार्थापत्तिर् जायमाना प्रमाणान्तरम् इत्य् उपसंहरति -- अर्थापत्तेर् इति

tathā tu taṃ gṛhītvā sāhityagrahaṇapurassaraṃ yady anumānam iṣyate tadarthāpattipūrvakam, etāvatā ca siddham arthāpatteḥ prāmāṇyam ity abhiprāyeṇāha -- 3,175 puruṣasyety atrāntena. yas tu vadati -- svātmanas tāvad ekatra satas sarvatrābhāvena sambandho dṛṣṭaḥ, ato 'nyasyāpy anuminotīti. sa vaktavyaḥ svātmana eva sarvatrāsattā katham avagamyate, yady abhāvena, kasyeti vaktavyam, na tāvat pratyakṣasya nivṛttyā dūradeśeṣv abhāvaś śakyate 'vagantum, dūratvād eva teṣām anupalabdhiyogyatvān na svātmano 'bhāvas teṣu śakyate 'vagantum. atha tatra sato dūrasthatvam eva na syāt, atas sahaiva deśāntare svaśarīram upalabdhiyogyaṃ bhavati, yogyatvāc copalabhyeta, ato 'nupalambhān nāstīti niścīyate. yady evaṃ pramāṇāntaram idam, yo hi yatra bhavati tasya sahaivādhāreṇātmopalabdhiyogyo bhavati, na ceha tathā, ato na deśāntareṣv astīti. evaṃ cānumānena deśāntarābhāvo grahītavyaḥ. na pratyakṣābhāvena. tatra ca viruddhāvyabhicāritoktaiva -- deśāntarāṇi vimatipadāni caitravanti caitravaddeśasamīpavyatiriktadeśatvāc caitravad deśavad iti. yatra ca pratihetunā sandehaḥ kriyate tatra balavatānyena yadupabṛṃhitaṃ pratyakṣādinā bhavati tadvijayate, na cehārthāpatter anyat pramāṇaṃ sarvatrābhāve samartham. sā hy evaṃ pravartate, yad etad ekatra kārtsnyena caitrasyopalambhanaṃ tan nopapadyate, yadi deśāntare caitro bhavet, dvedhā hi bhāvāḥ prādeśikā vibhavaś ca, vibhavo 'pi dvedhā, sarvavyāpinaḥ svāśrayavyāpinaś ca. pūrve gaganādayaḥ. uttare jātyādayaḥ. yad dhi sarvasaṃyogibhir anāgatair agataṃ sambadhyate, tadvibhutayā prasiddham, tayā cātmākāśādaya iti vibhava ity ucyante. na tāvadākāśavac caitraḥ, ekatra parisamāpto hi parimaṇḍalas so 'vagamyate. na ca yathāvayavī svāvayaveṣu vartate tathā deśāntare vartitum arhati. yadi hi tasyānyatra bhāgā bhaveyuḥ iha kṛtsno nopalabhyeta. bhavanvāntarāle vicchedād anyo bhavet. na ca jātivad vartitum arhati. jātir hy amūrtā, saikatra piṇḍe samavetā piṇḍāntare samavaiti. asya tu kuto 'nyatra samavāyaḥ. na hīdaṃ sāmānyam. saṃyogo 'sya deśāntareṇa sambandhaḥ. sa ca nāgatasya sambhavati. gatvā hy ayaṃ deśāntaraiḥ saṃyujyamāno dṛśyate. ata eva na vibhuḥ. 3,176 ato 'sya na kathañcid ekatra sato 'nyatra sattvam upapadyata ity anyatrābhāvam antarbhāvya kṛtsnabodhas samarthyate, kā punar atrānupapattiḥ, nātra kṛtsnabodhasya kenacit pratighāto dṛśyate. bhāvānumānenaiva kevalaṃ tu durbale pratighātahetau tadbādhenaivārthāpattir ātmānaṃ labhate. durbalaṃ ceha bhāvānumānaṃ pratihetuviruddhatvāt. yatra tu tulyabalam ubhayam ekatropanipatitaṃ bhavati, tatrārthāntarakalpanayopapattir iti na kiñcid anupapannam iti. evaṃ tāvad abhāvapūrvikāyā arthāpatter anumānād bheda uktaḥ pratyakṣapūrvikāyā bhedam idānīṃ darśayituṃ tatpratijñāṃ tāvad āha -- yatra ceti. yatrāpi dāhādikāryadarśanād agnyādeḥ kāraṇasya śaktir astīti kalpyate tatrāpy arthāpattir eva prathamā. yadi tu paścādanumānaṃ bhavati bhavatu. bhāṣyodāhṛtatvāc cābhāvapūrvikāyā eva prathamam anumānād bhedo varṇita iti || 46 -- 47 || atrānumānavādināṃ liṅgam upanyasyati -- kāryasyeti. evaṃ hi manyante -- dvividham anumānaṃ dṛṣṭasvalakṣaṇaviṣayam adṛṣṭasvalakṣaṇaviṣayaṃ ca. tatra tāvat dṛṣṭasvalakṣaṇaviṣayaṃ dhūmādināgnyanumānam, adṛṣṭasvalakṣaṇaviṣayaṃ ca saṃyogavibhāgādibhya iva kriyādyanumānam. kāryaṃ hi kāraṇena sāmānyato jñātasambandham iti tatas tatpratītir anumānam evedam iti. etad api dūṣayati -- na sambandheti. yena hy ekadā bījād aṅkuro dṛṣṭaḥ so 'nyadā tathāvidhād eva punar anupalabhamānaḥ svabhāvānumānena janayitavyo 'nenāṅkura ity anumimāna evātrāśaṅkate katham aṅkuro na jāyata iti, tataḥ kalpayati -- asti kaścid bījasamavāyī śaktibhedo yadvaśāt prāk kāryam āsīd adya ca nāstīti. tac cedam anapekṣitasambandhasyaiva purātanedānīntanāṅkuradarśanādarśanavicārād eva jñānaṃ jāyamānaṃ katham anumānam iti. api ca sambandhagrahaṇādhīnam eva sarvam anumānaṃ na tadagṛhītayos sambandhinos sambhavati. na ceha tayor atīndriyā śaktiḥ 3,177 pramāṇāntareṇa śakyate 'nubhavitum, ata eva ca na tadvato 'pi grahaṇaṃ sambhavati, ataḥ katham agṛhītasambandhāt kāryāc chaktitadvatos siddhir iti. tad etad āha -- dṛṣṭveti. nanv avagataṃ tāvat kāryasāmānyaṃ kāraṇasāmānyena vyāptam iti, atas tad anumāsyate. satyam, kin tu śaktikalpanayā vinā kāraṇākhyaiva na nivartate. aṅkuro hi bījabhāvabhāvī vyabhicaritabhāvāntaraś ca bījakāraṇaka ity avagataḥ saty api tu bīje 'jāyamānas tad api vyabhicaratīti kāraṇāvagatir evāvasīdati, tāṃ śaktikalpanayottabhnāti. kḷptāyāṃ ca śaktau kāraṇasambandhinyām arthāpattyā yadi sambandho 'vagamyate tad astu siddhāntavacchaktisiddhāv arthāpattiḥ pramāṇam iti. anumānalakṣaṇād vinārthāpattir jāyamānā pramāṇāntaram ity upasaṃharati -- arthāpatter iti

Sanskrit only: no published translation is held for this verse.

वृत्त्यन्तरोदाहृतम् उदाहरण दूषयति -- अनुमानाद् इति। जयो हि पराजयेन विदितव्याप्तिर् इति तम् एकत्र घातके नकुले दृष्ट्वा प्रतिपक्षस्य पराजयो ऽवगम्यते। पराजयदर्शनेन प्रतिपक्षस्य जय इति। नेदम् अर्थापत्ताव् उदाहार्यम् इति

vṛttyantarodāhṛtam udāharaṇa dūṣayati -- anumānād iti. jayo hi parājayena viditavyāptir iti tam ekatra ghātake nakule dṛṣṭvā pratipakṣasya parājayo 'vagamyate. parājayadarśanena pratipakṣasya jaya iti. nedam arthāpattāv udāhāryam iti

Sanskrit only: no published translation is held for this verse.

श्रुतार्थापत्तिर् अभिधास्यत इत्य् उक्तम्, ताम् इदानीम् उदाहरति -- पीन इति

śrutārthāpattir abhidhāsyata ity uktam, tām idānīm udāharati -- pīna iti

Sanskrit only: no published translation is held for this verse.

अस्याश् च विषयं प्रत्यस्ति विवादः। तम् एकनिर्धारणार्थम् उपन्यस्यति -- ताम् अर्थेति कल्पयन्त्यन्तेन। सर्वे चागमाबहिर्भूताम् आतिष्ठन्त इत्य् आह -- आगमाच् चेति

asyāś ca viṣayaṃ pratyasti vivādaḥ. tam ekanirdhāraṇārtham upanyasyati -- tām artheti kalpayantyantena. sarve cāgamābahirbhūtām ātiṣṭhanta ity āha -- āgamāc ceti

Sanskrit only: no published translation is held for this verse.

३,१७८ आगमाभेदाभ्युपगमे ऽभिप्रायम् आह -- प्रायश इति। फलापूर्वविध्यन्तादिसिद्धौ भूयानस्या वेदे उपयोगः, सर्वो ऽनागमत्वे ऽवैदिकः स्याद् इति

3,178 āgamābhedābhyupagame 'bhiprāyam āha -- prāyaśa iti. phalāpūrvavidhyantādisiddhau bhūyānasyā vede upayogaḥ, sarvo 'nāgamatve 'vaidikaḥ syād iti

Sanskrit only: no published translation is held for this verse.

आगमिकत्वे प्य् अवान्तरविप्रतिपत्तिम् उपन्यस्यति -- वचनस्येति [॥ ५४ ॥] अत्र निष्कर्षं दर्शयति -- न तावद् इति। कारणम् आह -- न हीति। वाक्यं तावद् अवाचकम्, प्राग् एवानेकेषाम् अर्थानाम् इति

āgamikatve py avāntaravipratipattim upanyasyati -- vacanasyeti [|| 54 ||] atra niṣkarṣaṃ darśayati -- na tāvad iti. kāraṇam āha -- na hīti. vākyaṃ tāvad avācakam, prāg evānekeṣām arthānām iti

Sanskrit only: no published translation is held for this verse.

यद्य् अवाचकं कथं वाक्याद् अर्थप्रतीतिर् अत आह -- पदार्थेति। एतच् च तद्भूताधिकरणे वक्ष्यत इति। ननु रात्र्यादिवाक्यार्थो यदि दिवावाक्येनानभिहितः पदार्थान्वयरूपेणैव स्वार्थवद् गमयिष्यते। अत आह -- न रात्र्यादीति। न हि दिवावाक्ये रात्र्यादिपदार्थास् सन्ति, कुतस् तत्र तेषाम् अन्वय इति

yady avācakaṃ kathaṃ vākyād arthapratītir ata āha -- padārtheti. etac ca tadbhūtādhikaraṇe vakṣyata iti. nanu rātryādivākyārtho yadi divāvākyenānabhihitaḥ padārthānvayarūpeṇaiva svārthavad gamayiṣyate. ata āha -- na rātryādīti. na hi divāvākye rātryādipadārthās santi, kutas tatra teṣām anvaya iti

Sanskrit only: no published translation is held for this verse.

ननु दिवादिपदार्थान्वयाद् एव रात्र्यादिवाक्यार्थः प्रत्येष्यते, अत आह -- न दिवादीति

nanu divādipadārthānvayād eva rātryādivākyārthaḥ pratyeṣyate, ata āha -- na divādīti

Sanskrit only: no published translation is held for this verse.

३,१७९ न ह्य् अनेकार्थतेति यद् उक्तं तद् विवृणोति -- अन्यार्थेति। अतो वाक्यान्तरस्यैवायम् अर्थो न दिवावाक्यस्येत्य् आह -- तस्माद् इति

3,179 na hy anekārthateti yad uktaṃ tad vivṛṇoti -- anyārtheti. ato vākyāntarasyaivāyam artho na divāvākyasyety āha -- tasmād iti

Sanskrit only: no published translation is held for this verse.

एवं तावन् न मूलागमस्यायम् अर्थः, येन तु वाक्यान्तरेण बुद्धिस्थेनायम् अर्थो ऽवगम्यते, तस्यैव प्रत्यक्षादिषु मध्ये प्रमाणं निर्धारणीयम् इत्य् आह -- तस्येति

evaṃ tāvan na mūlāgamasyāyam arthaḥ, yena tu vākyāntareṇa buddhisthenāyam artho 'vagamyate, tasyaiva pratyakṣādiṣu madhye pramāṇaṃ nirdhāraṇīyam ity āha -- tasyeti

Sanskrit only: no published translation is held for this verse.

तत्र प्रत्यक्षं तावन् न तत्सिद्धौ प्रमाणम् इत्य् आह -- न हीति। अनुमानम् अपि तेन सम्बद्धस्य दिवावाक्यस्यादर्शनान् न सम्भवतीत्य् आह -- नानुमानम् इति

tatra pratyakṣaṃ tāvan na tatsiddhau pramāṇam ity āha -- na hīti. anumānam api tena sambaddhasya divāvākyasyādarśanān na sambhavatīty āha -- nānumānam iti

Sanskrit only: no published translation is held for this verse.

अविदितसम्बन्धे तु दिवावाक्ये लिङ्ग इष्यमाणे ऽव्यवस्थेत्य् आह -- यदि त्व् इति

aviditasambandhe tu divāvākye liṅga iṣyamāṇe 'vyavasthety āha -- yadi tv iti

Sanskrit only: no published translation is held for this verse.

यदि तूच्यते सम्बन्धम् एव दिवावाक्यस्य रात्रिवाक्येन गृहीत्वा ततस् तदनुमास्यत इति, सिध्यत्य् एवम्, न तु श्रुतार्थापत्तिवेद्यानि सर्वाणि लोकवेदवाक्यानि सर्वैः प्रतिपादकवाक्यैस् सम्बद्धान्य् अवगतानि। अतः कथं तेभ्यस् तान्य् अनुमीयन्त इत्य् आह -- न चेति

yadi tūcyate sambandham eva divāvākyasya rātrivākyena gṛhītvā tatas tadanumāsyata iti, sidhyaty evam, na tu śrutārthāpattivedyāni sarvāṇi lokavedavākyāni sarvaiḥ pratipādakavākyais sambaddhāny avagatāni. ataḥ kathaṃ tebhyas tāny anumīyanta ity āha -- na ceti

Sanskrit only: no published translation is held for this verse.

३,१८० इतश् च नानुमानम् इत्य् आह -- न चेति। केनचिद् धि सामान्यात्मना ज्ञातसम्बन्धेन विशिष्टं किञ्चिद् अनुमीयते न वस्तुसत्तामात्रम्। न च विशिष्टः, अज्ञातसम्बन्धत्वात् इह तु तदुभयं विपरीतम् इति

3,180 itaś ca nānumānam ity āha -- na ceti. kenacid dhi sāmānyātmanā jñātasambandhena viśiṣṭaṃ kiñcid anumīyate na vastusattāmātram. na ca viśiṣṭaḥ, ajñātasambandhatvāt iha tu tadubhayaṃ viparītam iti

Sanskrit only: no published translation is held for this verse.

यतश् चात्र वाक्यस्वरूपम् एव प्रमेयम् अतः पर्वतादिर् इव पूर्वसिद्धः स्वतन्त्रो ऽसम्बद्धः केनचिद् अग्न्यादिनेव स्वतन्त्रेण केनचिद् विशेषितो धर्मी धर्मविशिष्टो नास्तीत्य् आह -- पूर्वसिद्ध इति

yataś cātra vākyasvarūpam eva prameyam ataḥ parvatādir iva pūrvasiddhaḥ svatantro 'sambaddhaḥ kenacid agnyādineva svatantreṇa kenacid viśeṣito dharmī dharmaviśiṣṭo nāstīty āha -- pūrvasiddha iti

Sanskrit only: no published translation is held for this verse.

अथ श्रुतम् एव वाक्यं धर्मितयोपादायाश्रुतवाक्यविशिष्टता साध्यते ततस् तदप्रसिद्धेर् अप्रसिद्धविशेषणः पक्ष इत्य् आह -- अथेति

atha śrutam eva vākyaṃ dharmitayopādāyāśrutavākyaviśiṣṭatā sādhyate tatas tadaprasiddher aprasiddhaviśeṣaṇaḥ pakṣa ity āha -- atheti

Sanskrit only: no published translation is held for this verse.

अपि च श्रुते वाक्ये ऽश्रुतवाक्यविशिष्टे साध्यमाने न तावत् किञ्चिल् लिङ्गम् उपलभ्यते, न चालिङ्गकम् अनुमानं भवति, तद् यदि तद् एव पुनर्लिङ्गम् इष्यते ततः प्रतिज्ञार्थैकदेशित्वम्, यथा पदे पक्षीकृते र्थविशिष्टे साध्यमाने ऽभिहितम् इत्य् आह -- किञ् चेति

api ca śrute vākye 'śrutavākyaviśiṣṭe sādhyamāne na tāvat kiñcil liṅgam upalabhyate, na cāliṅgakam anumānaṃ bhavati, tad yadi tad eva punarliṅgam iṣyate tataḥ pratijñārthaikadeśitvam, yathā pade pakṣīkṛte rthaviśiṣṭe sādhyamāne 'bhihitam ity āha -- kiñ ceti

Sanskrit only: no published translation is held for this verse.

धर्मधर्मिभावो ऽपि दिवावाक्यरात्रिवाक्ययोश् शब्दार्थयोर् इव निराकार्य इत्य् आह -- तद्वद् एवेति। यथा तत्रार्थे धर्मिण्य् अप्रतिपन्ने न पदं तद्धर्म इत्य् उक्तम्, एवम् इहापि नाप्रतिपन्ने रात्रिवाक्ये तद्धर्मतया ३,१८१ दिवावाक्यं प्रतीयते। अथ तु पक्षधर्मताप्रतिपत्त्यर्थं तत् प्रथमम् अवगतम् इत्य् उच्यते ततो ऽनुमेयाभाव इत्य् अभिप्रायः। अभिप्रायं विवृणोति -- नागृहीत इति

dharmadharmibhāvo 'pi divāvākyarātrivākyayoś śabdārthayor iva nirākārya ity āha -- tadvad eveti. yathā tatrārthe dharmiṇy apratipanne na padaṃ taddharma ity uktam, evam ihāpi nāpratipanne rātrivākye taddharmatayā 3,181 divāvākyaṃ pratīyate. atha tu pakṣadharmatāpratipattyarthaṃ tat prathamam avagatam ity ucyate tato 'numeyābhāva ity abhiprāyaḥ. abhiprāyaṃ vivṛṇoti -- nāgṛhīta iti

Sanskrit only: no published translation is held for this verse.

अपि च तत्रैव पदे वर्णितम् -- न क्रियाकारकसम्बन्धादृते सम्बन्धो भवतीति। अतो यथा पदस्य न कश्चित् क्रियानिबन्धनो ऽर्थसम्बन्धो ऽस्तीति न तद्धर्म इत्य् उक्तम्, एवं दिवावाक्यस्यापि रात्रिवाक्यधर्मता निराकार्येत्य् आह -- क्रियेति। न चात्र विषयविषयिभावरूपो ऽपि द्वयोर् वाक्ययोश् शब्दार्थयोर् इव सम्बन्धो भवति, उच्यते हि शब्देनार्थः, न तु वाक्यं वाक्यान्तरस्य वाचकम् इत्य् आह -- अवाचकेति। पदे त्व् अर्थप्रतीतिजनकत्वेन तद्विषयताम् अङ्गीकृत्यानुमेयाभावो दर्शितः। इह तु वाक्यस्यावाचकत्वात् तद्विषयत्वम् एव प्रत्येतुं न शक्यते इति विशेषः

api ca tatraiva pade varṇitam -- na kriyākārakasambandhādṛte sambandho bhavatīti. ato yathā padasya na kaścit kriyānibandhano 'rthasambandho 'stīti na taddharma ity uktam, evaṃ divāvākyasyāpi rātrivākyadharmatā nirākāryety āha -- kriyeti. na cātra viṣayaviṣayibhāvarūpo 'pi dvayor vākyayoś śabdārthayor iva sambandho bhavati, ucyate hi śabdenārthaḥ, na tu vākyaṃ vākyāntarasya vācakam ity āha -- avācaketi. pade tv arthapratītijanakatvena tadviṣayatām aṅgīkṛtyānumeyābhāvo darśitaḥ. iha tu vākyasyāvācakatvāt tadviṣayatvam eva pratyetuṃ na śakyate iti viśeṣaḥ

Sanskrit only: no published translation is held for this verse.

यदि तूच्यते प्रतीयते तावद् दिवावाक्याद् रात्रिवाक्यम्, अतस् तस्यापि तद्वाचकत्वम् इत्य् अस्ति विषयविषयिलक्षणस् सम्बन्ध इति, तत्रैकं वाक्यम् अनेकार्थम् अभ्युपगतं भवेत्, स्वार्थं हि तत्प्रतिपादयति रात्रिवाक्यम् अपि, न चैवं न्याय्यम् इत्य् अभिप्रायेणाह -- प्रतीतेर् इति। अथोच्येत -- माभूद् वाचकतया तद्विषयत्वम्, तेन तु तद्वाक्यम् अनुमीयते, अतस् तल्लिङ्गम् अनुमानविषयतया लिङ्गम् एव दिवावाक्यं तद्धर्मतयाभिधीयत इति। यत् तावदनुमानविषयभावाद् उत्थितं तद्धर्मत्वं तदनुमानस्य पूर्वसिद्धत्वान् निष्फलम् इत्य् आह -- अनुमेति

yadi tūcyate pratīyate tāvad divāvākyād rātrivākyam, atas tasyāpi tadvācakatvam ity asti viṣayaviṣayilakṣaṇas sambandha iti, tatraikaṃ vākyam anekārtham abhyupagataṃ bhavet, svārthaṃ hi tatpratipādayati rātrivākyam api, na caivaṃ nyāyyam ity abhiprāyeṇāha -- pratīter iti. athocyeta -- mābhūd vācakatayā tadviṣayatvam, tena tu tadvākyam anumīyate, atas talliṅgam anumānaviṣayatayā liṅgam eva divāvākyaṃ taddharmatayābhidhīyata iti. yat tāvadanumānaviṣayabhāvād utthitaṃ taddharmatvaṃ tadanumānasya pūrvasiddhatvān niṣphalam ity āha -- anumeti

Sanskrit only: no published translation is held for this verse.

एवं तावद् दिवावाक्यम् अलिङ्गम् इत्य् उक्तं, तद्गतपदार्थानाम् अप्य् एवम् एव लिङ्गता निराकार्येत्य् आह -- पदार्थैर् इति। नन्व् अगृहीतसम्बन्धा एव पदार्था ३,१८२ यथा वाक्यार्थं गमयन्ति, एवं रात्रिवाक्यम् अपि किं न गमयन्ति, अत आह -- सामान्येति। क्रियासामान्यं कारकसामान्यं वा प्रतिपन्नम् अलब्धेतरेतरव्यतिषङ्गम् अन्यथा न सिध्यतीति तं विशेषं गमयति, यश् चासौ विशेषः स एव तु वाक्यार्थ इत्य् उच्यते इति

evaṃ tāvad divāvākyam aliṅgam ity uktaṃ, tadgatapadārthānām apy evam eva liṅgatā nirākāryety āha -- padārthair iti. nanv agṛhītasambandhā eva padārthā 3,182 yathā vākyārthaṃ gamayanti, evaṃ rātrivākyam api kiṃ na gamayanti, ata āha -- sāmānyeti. kriyāsāmānyaṃ kārakasāmānyaṃ vā pratipannam alabdhetaretaravyatiṣaṅgam anyathā na sidhyatīti taṃ viśeṣaṃ gamayati, yaś cāsau viśeṣaḥ sa eva tu vākyārtha ity ucyate iti

Sanskrit only: no published translation is held for this verse.

न चैष प्रकारो रात्रिवाक्यप्रतिपादने सम्भवतीत्य् आह -- न त्व् इति। अन्यो ऽपि तद्देशकालादिसम्बन्धो न रात्रिवाक्येन दिवावाक्यस्य तत्पदार्थानां वास्तीत्य् आह -- न चापीति

na caiṣa prakāro rātrivākyapratipādane sambhavatīty āha -- na tv iti. anyo 'pi taddeśakālādisambandho na rātrivākyena divāvākyasya tatpadārthānāṃ vāstīty āha -- na cāpīti

Sanskrit only: no published translation is held for this verse.

स्याद् एतत्, यद्य् अपि दिवावाक्यं न रात्रिवाक्यस्य वाचकम्, तथापि कल्पयिष्यामः, ततश् च तत्प्रत्येष्यत इति। तद् इदम् आशङ्कते तावत् -- अथैतद्वाचीत्य् अन्यदन्तेन। अत्र दूषणम् आह -- तथैवेति। अत्र तावद् एवं वाक्यान्तरकल्पनायां प्रमाणम् एव नास्तीति तदनादृत्य तावदनवस्थाम् आपादयति, यद् अपि कल्पितं वाक्यं तद् अपि न रात्रिवाक्यम् अवगमयितुं शक्तम्। न च तदसम्बद्धम् एव तस्य गमकम् इति युक्तम्। पुनर् अपि वाक्यान्तरकल्पनायां स एव दोषः। एवं यद् एव किञ्चिद् वाक्यं कल्पयितुम् इष्यते तद् एव नासम्बद्धं गमकम् इत्य् अनवस्थापात इति

syād etat, yady api divāvākyaṃ na rātrivākyasya vācakam, tathāpi kalpayiṣyāmaḥ, tataś ca tatpratyeṣyata iti. tad idam āśaṅkate tāvat -- athaitadvācīty anyadantena. atra dūṣaṇam āha -- tathaiveti. atra tāvad evaṃ vākyāntarakalpanāyāṃ pramāṇam eva nāstīti tadanādṛtya tāvadanavasthām āpādayati, yad api kalpitaṃ vākyaṃ tad api na rātrivākyam avagamayituṃ śaktam. na ca tadasambaddham eva tasya gamakam iti yuktam. punar api vākyāntarakalpanāyāṃ sa eva doṣaḥ. evaṃ yad eva kiñcid vākyaṃ kalpayitum iṣyate tad eva nāsambaddhaṃ gamakam ity anavasthāpāta iti

Sanskrit only: no published translation is held for this verse.

अथ त्व् अन्तिमम् असम्बद्धम् एव गमकम् इति कल्प्यते, तद् वरं प्रथमस्यैव तथाविधस्य गमकत्वं कल्पितुम्, किं वाक्यान्तरकल्पनया। न च तद् युक्तम् इत्य् अभिप्रायेणाह -- ततश् चेति। एवं तावत् पक्षधर्मत्वाद्यसम्भवेन रात्रिवाक्यस्यानुमेयत्वं निरस्तम्, अन्वयव्यतिरेकयोर् अपि पदवत् प्रतिषेधो दर्शयितव्य इत्य् आह -- अन्वयेति। न हि सत्य् एव रात्रिवाक्ये दिवावाक्यं ३,१८३ नासतीत्य् अन्वयव्यतिरेकौ स्तः, तद्देशतत्कालादिसम्बन्धस्याभावात्। न च ज्ञानान्वयो ऽसत्य् अपि रात्रिवाक्यज्ञाने व्युत्पन्नस्य दिवावाक्यज्ञानाद्, विज्ञानोत्तरकालभाविनोश् चान्वयव्यतिरेकयोस् तदनुपयोगाद् इत्यादिपदवद्दर्शयितव्यम् इत्य् अभिप्रायः

atha tv antimam asambaddham eva gamakam iti kalpyate, tad varaṃ prathamasyaiva tathāvidhasya gamakatvaṃ kalpitum, kiṃ vākyāntarakalpanayā. na ca tad yuktam ity abhiprāyeṇāha -- tataś ceti. evaṃ tāvat pakṣadharmatvādyasambhavena rātrivākyasyānumeyatvaṃ nirastam, anvayavyatirekayor api padavat pratiṣedho darśayitavya ity āha -- anvayeti. na hi saty eva rātrivākye divāvākyaṃ 3,183 nāsatīty anvayavyatirekau staḥ, taddeśatatkālādisambandhasyābhāvāt. na ca jñānānvayo 'saty api rātrivākyajñāne vyutpannasya divāvākyajñānād, vijñānottarakālabhāvinoś cānvayavyatirekayos tadanupayogād ityādipadavaddarśayitavyam ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

एवं तावत् प्रत्यक्षानुमानागमैर् न रात्रिवाक्यं प्रतीयत इत्य् उक्तम्, उपमानम् अपि तत्र न प्रमाणम् इति दर्शयति -- श्रुतवाक्येति त्वमन्तेन। दिवावाक्यवच् च तदर्थेनापि न रात्रिवाक्यम् उपमीयत इत्य् आह -- अर्थस्येति

evaṃ tāvat pratyakṣānumānāgamair na rātrivākyaṃ pratīyata ity uktam, upamānam api tatra na pramāṇam iti darśayati -- śrutavākyeti tvamantena. divāvākyavac ca tadarthenāpi na rātrivākyam upamīyata ity āha -- arthasyeti

Sanskrit only: no published translation is held for this verse.

यथा च रात्रिवाक्यस्य दिवावाक्यतदर्थाभ्याम् उपमानं निरस्तम् एवं रात्रिवाक्यार्थस्यापि ताभ्यां निरसनीयम् इत्य् आह -- उपमानत्वेति स्यादन्तेन। उपसंहरति -- तस्माद् इति

yathā ca rātrivākyasya divāvākyatadarthābhyām upamānaṃ nirastam evaṃ rātrivākyārthasyāpi tābhyāṃ nirasanīyam ity āha -- upamānatveti syādantena. upasaṃharati -- tasmād iti

Sanskrit only: no published translation is held for this verse.

अतः प्रमाणान्तराभावाद् अर्थापत्तिर् एव रात्रिवाक्यावगमे शरणम् इत्य् आह -- अत इति। प्रत्यक्षदृष्टं पीनत्वं भोजनप्रतिषेधेन प्रतिहन्यते, पीनत्वेन दिवाभोजनम्, अतः परस्परप्रतिघाताद् दिवावाक्यस्य स्वार्थप्रतिपादनम् एवानुपपद्यमानं रात्रिवाक्यम् अनुप्रवेशयति, अतः तद्रात्रिवाक्यं कल्प्यत इति

ataḥ pramāṇāntarābhāvād arthāpattir eva rātrivākyāvagame śaraṇam ity āha -- ata iti. pratyakṣadṛṣṭaṃ pīnatvaṃ bhojanapratiṣedhena pratihanyate, pīnatvena divābhojanam, ataḥ parasparapratighātād divāvākyasya svārthapratipādanam evānupapadyamānaṃ rātrivākyam anupraveśayati, ataḥ tadrātrivākyaṃ kalpyata iti

Sanskrit only: no published translation is held for this verse.

ताम् अर्थविषयाम् इति यद् उक्तं तद् इदानीं दूषयितुम् उपन्यस्यति -- एतदर्थाद् विनेति। अयम् अभिप्रायः -- पीनत्वं हि भोजनप्रतिषेधो वा परस्परेण प्रतिहन्यते तयोश् चार्थकल्पनयैवात्मलाभः। पीनस्य हि दिवा निषिद्धे ३,१८४ भोजने रात्रिभोजनेनैव पीनत्वम् उपपद्यते, न रात्रिवाक्येनातो ऽर्थकल्पनैव युक्तेति। अपि च, यथा परैर् अभिधीयमानो ऽपि पदार्थानुपपत्त्या गम्यमानो वाक्यार्थ आगमार्थो भवति। एवं वाक्यार्थानुपपत्तिगम्यो ऽप्य् अर्थः किं नागमे ऽन्तर्भवतीत्य् आह -- वाक्यार्थेति

tām arthaviṣayām iti yad uktaṃ tad idānīṃ dūṣayitum upanyasyati -- etadarthād vineti. ayam abhiprāyaḥ -- pīnatvaṃ hi bhojanapratiṣedho vā paraspareṇa pratihanyate tayoś cārthakalpanayaivātmalābhaḥ. pīnasya hi divā niṣiddhe 3,184 bhojane rātribhojanenaiva pīnatvam upapadyate, na rātrivākyenāto 'rthakalpanaiva yukteti. api ca, yathā parair abhidhīyamāno 'pi padārthānupapattyā gamyamāno vākyārtha āgamārtho bhavati. evaṃ vākyārthānupapattigamyo 'py arthaḥ kiṃ nāgame 'ntarbhavatīty āha -- vākyārtheti

Sanskrit only: no published translation is held for this verse.

प्रथमपरिचोदनां तावत् परिहरति -- सविकल्पकेति। सविकल्पको हि श्रुतार्थापत्तिबोधः सविकल्पकज्ञानानि च शब्दपुरस्सराणि। अतश् शब्दपर्यवसितायाम् अर्थापत्तौ शब्दाद् एव सिध्यन्नर्थो नार्थापत्तेर् विषय इति। नन्व् एवं सर्वप्रमाणविकल्पेषु समानम् इदम्, इन्द्रियलिङ्गाभ्याम् अपि शब्दपुरस्सरम् एवाग्निः प्रतीयते, ततस् तयोर् अपि शब्दपर्यवसायितैव भवेत् अतस् तत्र स्मृतिस्थ एव शब्दो ऽप्रत्यायकः, तद् इहापि समानम्। यथा हि कर्मेन्द्रियम् अर्थेनैव सन्निकृष्टम् इति तम् एव प्रकाशयति लिङ्गं चार्थेन सम्बद्धम् इति तं गमयति, न शब्दम्, एवम् इहाप्य् अनुपपद्यमानो ऽर्थो ऽर्थेनैवोपपद्यते न शब्देन। तथा च दृष्टार्थापत्तयो ऽर्थविषया एव। अत्रोच्यते। सत्यम् अर्थद्वारिकैव वाक्यस्यानुपपत्तिः। अर्थान्तरेण चोपपत्तिः। किन् तु तद्वाक्यम् अनुपपन्नं वाक्यान्तरम् एवाकाङ्क्षति, यथा पदं पदान्तरम्। न हि पचतीत्य् उक्ते ओदनप्रत्यक्षेणाकाङ्क्षा निवर्तते, किं तर्हि, ओदनम् इति पदेन, एवं वाक्यम् अप्य् अनुपपद्यमानतयावगतं वाक्यान्तरम् एवाकाङ्क्षति, न तु तम् अर्थं स्वरूपेण। अत एव निर्वापमन्त्रे ऽतिदेशाद् विकृतिं गते प्राकृतदेवताया अभावात् तत्पदनिवृत्तौ तस्य स्थाने सूर्यायेति पदम् ऊह्यते। छेदनमन्त्रे त्व् इषेत्वेत्य् अत्र छिनद्मीति पदम् अध्याह्रियते। हृदयस्याग्रे ऽवद्यति अथ जिह्वाया अथ वक्षस इत्य् अत्रावद्यतिपदानुषङ्गः। न चार्थ एवानुषज्यते अनुषङ्गो वाक्यसमाप्तिस् सर्वेषु तुल्ययोगित्वाद् इति वचनात्। प्रत्यक्षादिषु तु न शब्देन रूपेणार्थोपेक्ष्यते शब्दोल्लेखेनापि गृह्यमाणः, किन् न्व् अर्थरूपेणैव, तम् अर्थं विकल्पयन् शब्दस् त्व् अस्तु नाम सन्मात्रतया। यदि तु तत्रापि शब्दो ऽपेक्ष्यते तिरश्चाम् अर्थविकल्पो न स्यात्, स च नास्ति, दृश्यते हि तेषाम् अपि हिताहितप्राप्तिपरिहारार्थः प्रयत्नः। तृविता हि गावस्तटाकानि गच्छन्ति, वर्षातपाभिभूताश् ३,१८५ च तत्प्रतीकारक्षभं देशम्। अतो ऽशब्दज्ञानाम् अप्य् अनुमानादिविकल्पदर्शनान् न तत्र शब्दापेक्षास्तीति निश्चीयते। श्रुतार्थापत्तिबोधस् तु तिरश्चां नास्त्य् एव, शब्दव्युत्पत्तिजो ह्य् असौ, न च तेषाम् असाव् अस्तीति प्रत्यक्षे ऽपि वर्णितम्। अन्येषाम् अप्य् अव्युत्पन्नशब्दानां श्रुतार्थापत्तिबोधो न दृश्यते। किं पुनस् तिरश्चाम्। अतो ऽन्वयव्यतिरेकाभ्याम् अवगम्यते ऽस्ति शब्दापेक्षा श्रुतार्थापत्तौ। अनुमानादिषु तु संस्कारोद्बोधेनावर्जनीयतयास् तु नाम शब्दस्मृतिः, न तु शब्दापेक्षा। अतो ऽत्र वाक्यस्यानुपपन्नस्य वाक्यान्तरम् एवार्थवदुपपादकं न त्व् अर्थमात्रं शब्दमात्रं वा। अत एवागृहीतसम्बन्धस्यार्थम् अविदुषश् श्रुते ऽप्य् उपपादके वाक्ये नानुपपन्नवाक्यार्थज्ञाने ऽनुपपत्तिश् शाम्यति, प्रतिपन्नार्थस्याप्य् आशयकल्पना। अतो न श्रुतवाक्यस्य न्यूनताबुद्धिर् निवर्तते। अतस् सिद्धं श्रुतार्थापत्तौ शब्दकल्पनेति। परपरिचोदनायाम् उत्तरम् आह -- लब्धप्रयोजन इति। यावद् ध्य् अकृतार्थश् शब्दस् तावद् बोधो ऽवगम्यते, स तदर्थो भवति। प्रयोजनवचनो ह्य् अर्थशब्दः। अत एव वाक्यार्थ आगमार्थो बह्वति। यावद् धि पदार्था नान्योन्यान्वयम् अनुभवन्ति तावदप्रयोजनकं जायते, जाते तु क्रियाकारकसंसर्गे लब्धप्रयोजनं वाक्यम् इति ततः परमर्थान्तरम् अवगम्यमानं नागमिकं भवति। न हि प्रयोजनत्वावगतार्थानुपपत्त्या यद् अवगम्यते तत्प्रयोजनं भवति। प्रयोजनोपपादकं तु तत्। पदार्थानुपपत्तौ प्रयोजनम् एव नासाद्यत इति युक्तं वाक्यार्थस्य पूर्वावगतस्यागमार्थत्वम्। कः पुनर्विशेषः, सर्वथा तावदागमार्थो ऽसौ, कल्पितस्य श्रुतस्य वेति न विशेषम् उपलभामहे। उच्यते। श्रुतागमार्थत्वे यदि प्रमादात् तन्नाशो भवति ततो यजुर्वेदादिविहितनाशनिमित्तं प्रायश्चित्तम्, इतरथा त्व् अविज्ञातनाशनिमित्तम् इति विशेषः। तदा च ऋग्वेदादिविहितनाशे प्रत्येकं महाव्याहृतिभिर् होमं विधाय यद्य् अविज्ञातो भूर् भुवस् स्वस् स्वाहेति महाव्याहृतीस् समाहृत्य प्रायश्चित्तं समुपदिशति। श्रुतार्थापत्तिवेद्य एव हि वेदो ऽविज्ञात इत्य् उच्यते, स ह्य् ऋगादीनां नान्यतमत्वेन ज्ञायत इति

prathamaparicodanāṃ tāvat pariharati -- savikalpaketi. savikalpako hi śrutārthāpattibodhaḥ savikalpakajñānāni ca śabdapurassarāṇi. ataś śabdaparyavasitāyām arthāpattau śabdād eva sidhyannartho nārthāpatter viṣaya iti. nanv evaṃ sarvapramāṇavikalpeṣu samānam idam, indriyaliṅgābhyām api śabdapurassaram evāgniḥ pratīyate, tatas tayor api śabdaparyavasāyitaiva bhavet atas tatra smṛtistha eva śabdo 'pratyāyakaḥ, tad ihāpi samānam. yathā hi karmendriyam arthenaiva sannikṛṣṭam iti tam eva prakāśayati liṅgaṃ cārthena sambaddham iti taṃ gamayati, na śabdam, evam ihāpy anupapadyamāno 'rtho 'rthenaivopapadyate na śabdena. tathā ca dṛṣṭārthāpattayo 'rthaviṣayā eva. atrocyate. satyam arthadvārikaiva vākyasyānupapattiḥ. arthāntareṇa copapattiḥ. kin tu tadvākyam anupapannaṃ vākyāntaram evākāṅkṣati, yathā padaṃ padāntaram. na hi pacatīty ukte odanapratyakṣeṇākāṅkṣā nivartate, kiṃ tarhi, odanam iti padena, evaṃ vākyam apy anupapadyamānatayāvagataṃ vākyāntaram evākāṅkṣati, na tu tam arthaṃ svarūpeṇa. ata eva nirvāpamantre 'tideśād vikṛtiṃ gate prākṛtadevatāyā abhāvāt tatpadanivṛttau tasya sthāne sūryāyeti padam ūhyate. chedanamantre tv iṣetvety atra chinadmīti padam adhyāhriyate. hṛdayasyāgre 'vadyati atha jihvāyā atha vakṣasa ity atrāvadyatipadānuṣaṅgaḥ. na cārtha evānuṣajyate anuṣaṅgo vākyasamāptis sarveṣu tulyayogitvād iti vacanāt. pratyakṣādiṣu tu na śabdena rūpeṇārthopekṣyate śabdollekhenāpi gṛhyamāṇaḥ, kin nv artharūpeṇaiva, tam arthaṃ vikalpayan śabdas tv astu nāma sanmātratayā. yadi tu tatrāpi śabdo 'pekṣyate tiraścām arthavikalpo na syāt, sa ca nāsti, dṛśyate hi teṣām api hitāhitaprāptiparihārārthaḥ prayatnaḥ. tṛvitā hi gāvastaṭākāni gacchanti, varṣātapābhibhūtāś 3,185 ca tatpratīkārakṣabhaṃ deśam. ato 'śabdajñānām apy anumānādivikalpadarśanān na tatra śabdāpekṣāstīti niścīyate. śrutārthāpattibodhas tu tiraścāṃ nāsty eva, śabdavyutpattijo hy asau, na ca teṣām asāv astīti pratyakṣe 'pi varṇitam. anyeṣām apy avyutpannaśabdānāṃ śrutārthāpattibodho na dṛśyate. kiṃ punas tiraścām. ato 'nvayavyatirekābhyām avagamyate 'sti śabdāpekṣā śrutārthāpattau. anumānādiṣu tu saṃskārodbodhenāvarjanīyatayās tu nāma śabdasmṛtiḥ, na tu śabdāpekṣā. ato 'tra vākyasyānupapannasya vākyāntaram evārthavadupapādakaṃ na tv arthamātraṃ śabdamātraṃ vā. ata evāgṛhītasambandhasyārtham aviduṣaś śrute 'py upapādake vākye nānupapannavākyārthajñāne 'nupapattiś śāmyati, pratipannārthasyāpy āśayakalpanā. ato na śrutavākyasya nyūnatābuddhir nivartate. atas siddhaṃ śrutārthāpattau śabdakalpaneti. paraparicodanāyām uttaram āha -- labdhaprayojana iti. yāvad dhy akṛtārthaś śabdas tāvad bodho 'vagamyate, sa tadartho bhavati. prayojanavacano hy arthaśabdaḥ. ata eva vākyārtha āgamārtho bahvati. yāvad dhi padārthā nānyonyānvayam anubhavanti tāvadaprayojanakaṃ jāyate, jāte tu kriyākārakasaṃsarge labdhaprayojanaṃ vākyam iti tataḥ paramarthāntaram avagamyamānaṃ nāgamikaṃ bhavati. na hi prayojanatvāvagatārthānupapattyā yad avagamyate tatprayojanaṃ bhavati. prayojanopapādakaṃ tu tat. padārthānupapattau prayojanam eva nāsādyata iti yuktaṃ vākyārthasya pūrvāvagatasyāgamārthatvam. kaḥ punarviśeṣaḥ, sarvathā tāvadāgamārtho 'sau, kalpitasya śrutasya veti na viśeṣam upalabhāmahe. ucyate. śrutāgamārthatve yadi pramādāt tannāśo bhavati tato yajurvedādivihitanāśanimittaṃ prāyaścittam, itarathā tv avijñātanāśanimittam iti viśeṣaḥ. tadā ca ṛgvedādivihitanāśe pratyekaṃ mahāvyāhṛtibhir homaṃ vidhāya yady avijñāto bhūr bhuvas svas svāheti mahāvyāhṛtīs samāhṛtya prāyaścittaṃ samupadiśati. śrutārthāpattivedya eva hi vedo 'vijñāta ity ucyate, sa hy ṛgādīnāṃ nānyatamatvena jñāyata iti

Sanskrit only: no published translation is held for this verse.

अत्र चोदयति -- ननु चेति। न तावद् दिवावाक्यरात्रिवाक्ययोस् सम्बन्धो ऽस्ति, सन्न् अपि वा न विदितः, न चाविदितसम्बन्धान्यदर्शने ३,१८६ न्यकल्पना युक्ता, अतिप्रसङ्गात्। प्रतिबद्धस्वभावं हि प्रतिबन्धबलाद् एव प्रतिबन्धकम् उपस्थापयति, अप्रतिबन्धेन त्व् अन्यकल्पनायां न प्रतिनियमे कारणम् अस्ति। अतो ऽप्रमाणम् एवेदं रात्रिवाक्यज्ञानम् इति

atra codayati -- nanu ceti. na tāvad divāvākyarātrivākyayos sambandho 'sti, sann api vā na viditaḥ, na cāviditasambandhānyadarśane 3,186 nyakalpanā yuktā, atiprasaṅgāt. pratibaddhasvabhāvaṃ hi pratibandhabalād eva pratibandhakam upasthāpayati, apratibandhena tv anyakalpanāyāṃ na pratiniyame kāraṇam asti. ato 'pramāṇam evedaṃ rātrivākyajñānam iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- सम्बन्धस्येति। प्रमाणत्वं प्रमाकारणत्वम् इत्य् अर्थः। करणसाधनश् च प्रमाणशब्द इति। अकारणत्वम् एव प्रामाण्ये सम्बन्धस्य दर्शयति -- प्रत्यक्षस्येति

pariharati -- sambandhasyeti. pramāṇatvaṃ pramākāraṇatvam ity arthaḥ. karaṇasādhanaś ca pramāṇaśabda iti. akāraṇatvam eva prāmāṇye sambandhasya darśayati -- pratyakṣasyeti

Sanskrit only: no published translation is held for this verse.

नन्व् इन्द्रियार्थसन्निकर्षजम् एव प्रत्यक्षम् अतो नाकारणं प्रामाण्ये सम्बन्ध इति चोदयति -- अस्तीति चेदन्तेन। परिहरति -- नानपेक्षणाद् इति। अनपेक्षत्वम् एव दर्शयति -- न हीति। निरूपितो हि सम्बन्धः प्रमाणोत्पत्तौ कारणम् अनुमाने, न चेह तथेति

nanv indriyārthasannikarṣajam eva pratyakṣam ato nākāraṇaṃ prāmāṇye sambandha iti codayati -- astīti cedantena. pariharati -- nānapekṣaṇād iti. anapekṣatvam eva darśayati -- na hīti. nirūpito hi sambandhaḥ pramāṇotpattau kāraṇam anumāne, na ceha tatheti

Sanskrit only: no published translation is held for this verse.

प्रत्यक्षोत्तरकालं तु निरूपणं न प्रमाणाङ्गम् इत्य् आह -- येनापीति

pratyakṣottarakālaṃ tu nirūpaṇaṃ na pramāṇāṅgam ity āha -- yenāpīti

Sanskrit only: no published translation is held for this verse.

अपि चाप्राप्यकारीन्द्रियवादिपक्षे स्वरूपसत्त्वम् अपि सम्बन्धस्य नास्त्य् एव, अतो यथा ते प्रत्यक्षज्ञानस्य प्रमाणताम् इच्छन्ति, एवम् इहापि भविष्यतीत्य् अत आह -- अप्राप्येति

api cāprāpyakārīndriyavādipakṣe svarūpasattvam api sambandhasya nāsty eva, ato yathā te pratyakṣajñānasya pramāṇatām icchanti, evam ihāpi bhaviṣyatīty ata āha -- aprāpyeti

Sanskrit only: no published translation is held for this verse.

तेनानादृत्यैव सम्बद्धम् उत्पन्नम् असन्दिग्धम् अविपरीतं च देशादिभेदे ऽपि ज्ञानं प्रमाणम् इत्य् आश्रयणीयम् इत्य् आह -- तस्माद् इति। जायत इत्त्यनुत्पत्तिलक्षणम् अप्रामाण्यं निरस्यति, अभङ्गुरम् इति संशयविपर्ययाव् इति

tenānādṛtyaiva sambaddham utpannam asandigdham aviparītaṃ ca deśādibhede 'pi jñānaṃ pramāṇam ity āśrayaṇīyam ity āha -- tasmād iti. jāyata ittyanutpattilakṣaṇam aprāmāṇyaṃ nirasyati, abhaṅguram iti saṃśayaviparyayāv iti

Sanskrit only: no published translation is held for this verse.

३,१८७ अपि चार्थापत्तिर् अप्रमाणम् इत्य् अलौकिको विवाद इति। न हि तया प्रवर्तमानानां प्रवृत्तिः प्रतिहन्यते। प्रवृत्तिसामर्थ्यं च प्रामाण्यम्। अनुमानाद् भेदाभेदयोर् अस्ति विवादः, तत्र चास्माभिः कृतो निर्णय इत्य् आह -- न चापीति

3,187 api cārthāpattir apramāṇam ity alaukiko vivāda iti. na hi tayā pravartamānānāṃ pravṛttiḥ pratihanyate. pravṛttisāmarthyaṃ ca prāmāṇyam. anumānād bhedābhedayor asti vivādaḥ, tatra cāsmābhiḥ kṛto nirṇaya ity āha -- na cāpīti

Sanskrit only: no published translation is held for this verse.

यद्य् एवम् अनुमाने ऽपि सम्बन्धो नाङ्गम् एवापद्येतात आह -- ऋत इति। तत्र हि बुद्धिर् एवासति सम्बन्धज्ञाने न जायत इति तदुत्पत्तौ कारणम् आश्रीयत एव। प्रामाण्यं तु तत्रापि बाधविरहाद् एवेति

yady evam anumāne 'pi sambandho nāṅgam evāpadyetāta āha -- ṛta iti. tatra hi buddhir evāsati sambandhajñāne na jāyata iti tadutpattau kāraṇam āśrīyata eva. prāmāṇyaṃ tu tatrāpi bādhavirahād eveti

Sanskrit only: no published translation is held for this verse.