स्याद् एतत् -- श्येनादयो ऽत्र भाष्यकारेण प्रत्युदाहृताः, ते च चोदनालक्षणा एवेति। तद् अयुक्तम्। यदि नाम श्येनादयश् चोदनालक्षणाः, न त्व् अर्थपदेन व्यावर्तयितुं शक्यन्ते। निषेधप्रमाणकत्वाद् अनर्थत्वस्य। तेषां च विधिविषयाणां निषेधागोचरत्वाद् इत्य् अभिप्रायेणाह -- चोदनेति। तद् इह यो ऽनर्थो हिंसा नासौ चोदनालक्षणा, निषेधलक्षणत्वात्। ये च चोदनालक्षणाः श्येनादयः, न ते ऽनर्था इत्य् उभयतःपाशा रज्जुर् इति
syād etat -- śyenādayo 'tra bhāṣyakāreṇa pratyudāhṛtāḥ, te ca codanālakṣaṇā eveti. tad ayuktam. yadi nāma śyenādayaś codanālakṣaṇāḥ, na tv arthapadena vyāvartayituṃ śakyante. niṣedhapramāṇakatvād anarthatvasya. teṣāṃ ca vidhiviṣayāṇāṃ niṣedhāgocaratvād ity abhiprāyeṇāha -- codaneti. tad iha yo 'nartho hiṃsā nāsau codanālakṣaṇā, niṣedhalakṣaṇatvāt. ye ca codanālakṣaṇāḥ śyenādayaḥ, na te 'narthā ity ubhayataḥpāśā rajjur iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.