अपि च संवादापेक्षिणि प्रामाण्ये श्रोत्रजा बुद्धिर् इन्द्रियान्तरजन्याभिर् बुद्धिभिर् असंवादाद् अप्रमाणम् आपद्यते इत्य् आह -- श्रोत्रेति। यदि त्व् अस्याः श्रोत्रज्ञानान्तरसंवादाद्[३४०]एव प्रामाण्यम् इष्यते, तथा सति वेदे ऽपि तत्तद्वाक्योच्चारणानुगामिनी शतकृत्वो बुद्धिर् उत्पद्यत इति सापि नाप्रमाणम् इत्य् आह -- स्याच् चेद् १,१०३ इति। प्रमाणान्तरजन्या तु संवादबुद्धिर् न परं वेदे, श्रोत्रे ऽपि प्रत्यक्षे च नास्तीत्य् उक्तम् एवेत्य् आह -- प्रमाणेति
api ca saṃvādāpekṣiṇi prāmāṇye śrotrajā buddhir indriyāntarajanyābhir buddhibhir asaṃvādād apramāṇam āpadyate ity āha -- śrotreti. yadi tv asyāḥ śrotrajñānāntarasaṃvādād[340]eva prāmāṇyam iṣyate, tathā sati vede 'pi tattadvākyoccāraṇānugāminī śatakṛtvo buddhir utpadyata iti sāpi nāpramāṇam ity āha -- syāc ced 1,103 iti. pramāṇāntarajanyā tu saṃvādabuddhir na paraṃ vede, śrotre 'pi pratyakṣe ca nāstīty uktam evety āha -- pramāṇeti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.