अनुमानेनापि श्रोत्रचक्षुषोः प्राप्यकारित्वम् अवगम्यते इत्य् आह -- तयोर् इति। तयोः श्रोत्रचक्षुषोर् इत्य् अर्थः। चक्षुश्श्रोत्रे प्राप्यकारिणी, बाह्येन्द्रियत्वात् त्वगिन्द्रियवद् इति। ननु च कर्णशष्कुली चक्षुर्गोलकं च शरीरस्थम् एवोपलभ्यते, कथं तत् प्राप्यकारीत्य् उच्यते। तद् एतद् एतेषां तावत् प्राप्यकारिवादिनां साङ्ख्यानां मतेन समादधाति -- केचिद् इति। एवं हि साङ्ख्या मन्यन्ते -- आहङ्कारिकयोः श्रोत्रचक्षुषोर् वृत्तिः शरीराद् बहिर् भवति अर्थदेशं प्राप्नोति। सा च कार्यदर्शनोन्नेया यथाकार्यम् अवतिष्ठत इति
anumānenāpi śrotracakṣuṣoḥ prāpyakāritvam avagamyate ity āha -- tayor iti. tayoḥ śrotracakṣuṣor ity arthaḥ. cakṣuśśrotre prāpyakāriṇī, bāhyendriyatvāt tvagindriyavad iti. nanu ca karṇaśaṣkulī cakṣurgolakaṃ ca śarīrastham evopalabhyate, kathaṃ tat prāpyakārīty ucyate. tad etad eteṣāṃ tāvat prāpyakārivādināṃ sāṅkhyānāṃ matena samādadhāti -- kecid iti. evaṃ hi sāṅkhyā manyante -- āhaṅkārikayoḥ śrotracakṣuṣor vṛttiḥ śarīrād bahir bhavati arthadeśaṃ prāpnoti. sā ca kāryadarśanonneyā yathākāryam avatiṣṭhata iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.