नारायणपदस्यापि गुणपूर्णतैवार्थः अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धिः । तथापि ईश्वरस्य किमायातमित्यत आह नारायणेति ॥ स एवेत्यनुवर्तते । नहि नाम्नि विप्रतिपत्तिरित्याशयः । अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम् । "नारायणं महाज्ञेयम्ऽ; इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दो ऽपि श्रूयते । नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः । अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्धयतीत्यनेनोच्यते । एतदप्युपलक्षणम् । आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः । तेषामपि"आत्मानमेव लोकमुपासीतऽ; इत्यादौ जिज्ञास्ये श्रवणात् । गुणपूर्णत्वाभिधायित्वाच्च । न चालौकिकार्थकल्पने गौरवप्रसङ्गाद्वरं कथञ्चिदेषां शब्दानां जीवादिविषयाङ्गीकरणमिति वाच्यम् । यौगिकशब्दप्रयोगान्यथानुपपत्तेरुक्तत्वेन कल्पनाभावात् । अन्यथा वाक्यादप्यलौकिकाथर्प्रत्ययो न स्यात् । लौकिकाथ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात् । किञ्च क्वचिन्मुख्यार्थ एव शब्दो ऽनुपपत्त्या क्वचिदमुख्यार्थो ऽनुगम्यते । न पुनरमुख्यार्थ एव । तथाच श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव । ततश्चानेन किं कृतं स्यात् । जीव एवैते मुख्यार्थास्तदनुपलब्धिस्त्वविद्यावरणनिमित्तेति चेन्न । यतो ऽत्राचार्यः स्वयमेव प्रतिवक्ष्यतीति । *१,३२२* स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः । भावनाच्चैव सुत्वाच्च सो ऽयं पुरुष इत्यपि
nārāyaṇapadasyāpi guṇapūrṇataivārthaḥ astu voṅkārabrahmaśabdābhyāṃ jīvajaḍātiriktasya jijñāsyasya siddhiḥ / tathāpi īśvarasya kimāyātamityata āha nārāyaṇeti // sa evetyanuvartate / nahi nāmni vipratipattirityāśayaḥ / athavā sūtrakāroktāvoṅkārabrahmaśabdāvupalakṣaṇamātram / "nārāyaṇaṃ mahājñeyam'; ityādiśrutau jijñāsye nārāyaṇaśabdo 'pi śrūyate / nārāyaṇapadoditaścārthaḥ sa eva yo guṇapūrṇatvākhyaḥ / ato nārāyaṇaśabdenāpi jijñāsyaṃ jīvādivyatiriktaṃ siddhayatītyanenocyate / etadapyupalakṣaṇam / ātmānanteśvarādiśabdā api jñātavyāḥ / teṣāmapi"ātmānameva lokamupāsīta'; ityādau jijñāsye śravaṇāt / guṇapūrṇatvābhidhāyitvācca / na cālaukikārthakalpane gauravaprasaṅgādvaraṃ kathañcideṣāṃ śabdānāṃ jīvādiviṣayāṅgīkaraṇamiti vācyam / yaugikaśabdaprayogānyathānupapatteruktatvena kalpanābhāvāt / anyathā vākyādapyalaukikātharpratyayo na syāt / laukikātha eva kathañcidarthānugamasya vaktuṃ śakyatvāt / kiñca kvacinmukhyārtha eva śabdo 'nupapattyā kvacidamukhyārtho 'nugamyate / na punaramukhyārtha eva / tathāca śrautaṃ brahmādiśabdaṃ jīvādiviṣayamaṅgīkurvāṇenāpi niravagrahapūrṇatāyuktaṃ kiñcidabhidheyaṃ mukhyamaṅgīkaraṇīyameva / tataścānena kiṃ kṛtaṃ syāt / jīva evaite mukhyārthāstadanupalabdhistvavidyāvaraṇanimitteti cenna / yato 'trācāryaḥ svayameva prativakṣyatīti / *1,322* sa eva bhargaśabdārtho vyāhṛtīnāṃ ca bhūmataḥ / bhāvanāccaiva sutvācca so 'yaṃ puruṣa ityapi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.