तस्यार्थः । "एको देवःऽ; इत्यस्यां श्रुतौ निर्गुणस्य ब्रह्मणः श्रुतत्वाच्चास्य वाच्यत्वमुपपन्नमिति । अत्र श्रुतो ऽपि सगुणः किं न स्यादित्यत आह पदं चेति ॥ *३,२०४* पदं च निर्गुण इति कथं गौणं वदिष्यति अत्र हि वाक्ये केवलो निर्गुणश्चेति श्रूयते । निर्गुण इति च पदं कथं गौणं वदिष्यति । व्याहतत्वात् । अतो न सगुणो ऽत्र श्रुत इति । *३,२०६फ़्।* लक्ष्यत्वेऽपि लक्ष्यपदादपि वाचकत्वसमर्थनम् सत्यमस्यां श्रुतौ निर्गुणादिपदप्रतिपाद्यं निर्गुणं ब्रह्मेति । किन्तु लक्षणयैव । तथाच कथमनेन निर्गुणस्य वाच्यत्वसिद्धिः । नच वाच्यं निर्गुणशब्देन निर्गुणं चेल्लक्ष्यं तर्हि तद्वाच्यं वाच्यम् । वाच्यार्थद्वारत्वाल्लक्षणायाः । नच सगुणं निर्गुणपदवाच्यम् । व्याघातात् । सगुणस्य निर्गुणत्वं तथा सति स्यादिति । गुणाभावविशिष्टस्य वाच्यत्वाङ्गीकारात् । निर्विकल्पकस्वरूपमात्रस्योपलक्ष्यत्वात् । एकमेव हि निर्विशेषं वस्तु परमसूक्ष्मं गुणाभावाद्युपाधिभिरीषत्स्थूलं जातम् । गुणाद्युपाधिभिस्तु स्थूलतरमित्यतो निर्गुणशब्देन गुणाभावविशिष्टवाच्यद्वारा स्वरूपमुपलक्ष्यमिति न कश्चिद्विरोधः । एवं पूर्णादिपदानामपि लक्षणाप्रकारो द्रष्टव्य इत्याशङ्कयोक्तमेव परिहारं न विस्मरेत्याह गुणाभावेति ॥ *३,२०७* गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम्
tasyārthaḥ / "eko devaḥ'; ityasyāṃ śrutau nirguṇasya brahmaṇaḥ śrutatvāccāsya vācyatvamupapannamiti / atra śruto 'pi saguṇaḥ kiṃ na syādityata āha padaṃ ceti // *3,204* padaṃ ca nirguṇa iti kathaṃ gauṇaṃ vadiṣyati atra hi vākye kevalo nirguṇaśceti śrūyate / nirguṇa iti ca padaṃ kathaṃ gauṇaṃ vadiṣyati / vyāhatatvāt / ato na saguṇo 'tra śruta iti / *3,206f.* lakṣyatve'pi lakṣyapadādapi vācakatvasamarthanam satyamasyāṃ śrutau nirguṇādipadapratipādyaṃ nirguṇaṃ brahmeti / kintu lakṣaṇayaiva / tathāca kathamanena nirguṇasya vācyatvasiddhiḥ / naca vācyaṃ nirguṇaśabdena nirguṇaṃ cellakṣyaṃ tarhi tadvācyaṃ vācyam / vācyārthadvāratvāllakṣaṇāyāḥ / naca saguṇaṃ nirguṇapadavācyam / vyāghātāt / saguṇasya nirguṇatvaṃ tathā sati syāditi / guṇābhāvaviśiṣṭasya vācyatvāṅgīkārāt / nirvikalpakasvarūpamātrasyopalakṣyatvāt / ekameva hi nirviśeṣaṃ vastu paramasūkṣmaṃ guṇābhāvādyupādhibhirīṣatsthūlaṃ jātam / guṇādyupādhibhistu sthūlataramityato nirguṇaśabdena guṇābhāvaviśiṣṭavācyadvārā svarūpamupalakṣyamiti na kaścidvirodhaḥ / evaṃ pūrṇādipadānāmapi lakṣaṇāprakāro draṣṭavya ityāśaṅkayoktameva parihāraṃ na vismaretyāha guṇābhāveti // *3,207* guṇābhāvopalakṣyaṃ cet padaṃ tadapi vācakam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.